SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 57 आभिग्रहिकमाद्यं स्यादनाभिग्रहिकं परम् । तृतीयं किल मिथ्यात्वमुक्तमाभिनेवेशिकम् ॥ ६६४ ॥ तुर्यं सांशयिकाख्यं स्यादनाभोगिकमन्तिमम् । अभिग्रहेण निर्वृत्तं, तत्राभिग्रहिकं स्मृतम् ॥ ६६५ ॥ नानाकुदर्शनेष्वेकमस्मात्प्राणी कुदर्शनम् । इदमेव शुभं नान्यदित्येवं प्रतिपद्यते ॥ ६६६ ॥ मन्यतेऽङ्गी दर्शनानि, यदशादखिलान्यपि । शुभानि माध्यस्थ्यहेतुरनाभिग्रहिकं हि तत् ॥ ६६७ ॥ यतो गोष्ठामाहिलादिवदात्मीयकुदर्शने । भवत्यभिनिवेशस्तं, प्रोक्तमाभिनिवेशिकम् ॥ ६६८ ॥ यतो जिनप्रणीतेषु, देशत: सर्वतोऽपि वा । पदार्थेषु संशय: स्यात्तत्सांशयिकमीरितम् ॥ ६६९ ॥ अनाभोगेन निवृत्तमनाभोगिकसंज्ञिकम् । यत्स्यादेकेन्द्रियादीनां, मिथ्यात्वं पञ्चमं तु तत् ॥ ६७० ॥ यस्यां जिनोक्ततत्त्वेषु, न रागो नापि मत्सरः । सम्यग्मिथ्यात्वसंज्ञा सा, मिश्रदृष्टिः प्रकीर्तिता ॥ ६७१ ॥ धान्येष्विव नरा नालिकेरदीपनिवासिनः । जिनोक्तेषु मिश्रदृशो, न द्विष्टा नापि रागिणः ॥ ६७२ ॥ यदाहुः कर्मग्रन्थकारा:- जिंअअजिअपुण्णपावासवसंवरबंधमुक्खनिज्जरणा । जेणं सद्दहड़तयं सम्मं खइगाइबहुभेयं ॥ मीसा न रागदोसो, जिणधम्मे अंतमुहु जहा अन्ने । नालीअरदीवमणुणो, मिच्छं जिणधम्मविवरीयं ॥ [कर्मग्रंथ १. गाथा १५-१६] गुणस्थानक्रमारोहे त्वेवमुक्तम्- जात्यन्तरसमुद्भतिर्वडवाखरयोर्यथा । गुडदजोः समायोगे, रसभेदान्तरं यथा ॥ तथा धर्मद्वये श्रद्धा, जायते समबुद्धितः । मिश्रोऽसौ जायते तस्माद्भावो जात्यन्तरात्मकः ॥ [श्लोक १५-१६] सम्यग्मिथ्यादृशः स्तोकास्तेभ्योऽनन्तगुणाधिकाः । सम्यग्दृशस्ततो मिथ्यादृशोऽनन्तगुणाधिकाः ॥ ६७३ ॥ इति दृष्टिः ॥ २५ ॥ मतिश्रुतावधिमन:पर्यायाण्यथ केवलम् । ज्ञानानि पञ्च तत्राद्यमष्टाविंशतिधा स्मृतम् ॥ ६७४ ॥ तथाहि'अवग्रहेहापायाख्या, धारणा चेति तीर्थपैः । मतिज्ञानस्य चत्वारो, मूलभेदाः प्रकीर्तिताः ॥ ६७५ ॥ शब्दादीनां पदार्थानां, प्रथमग्रहणं हि यत् । अवग्रहः स्यात्स द्वेधा, व्यञ्जनार्थविभेदतः ॥ ६७६ ॥ व्यज्यन्ते येन सद्भावा, दीपेनेव घटादयः । व्यञ्जनं ज्ञानजनकं, तच्चोपकरणेन्द्रियम् ॥ ६७७ ॥ शब्दादिभावमापन्नो, द्रव्यसंघात एव वा । व्यज्यते यद् व्यञ्जनं तदितिव्युत्पत्त्यपेक्षया ॥ ६७८ ॥ ततश्च-व्यञ्जनैर्व्यञ्जनानां यः, सम्बन्धः प्रथमः स हि । व्यञ्जनावग्रहोऽस्पष्टतरावबोधलक्षणः ॥ ६७९ ॥ अस्य च स्वरूपमेवं तत्वार्थवृत्तौ यदोपकरणेन्द्रियस्य स्पर्शनादिपुद्गलैः स्पर्शाद्याकारपरिणतः संबन्ध उपजातो भवति न च किमप्येतदिति गृह्णाति, किंत्वव्यक्तज्ञानोऽसौ सुप्तमत्तादिसूक्ष्मावबोधसहितपुरुषवदिति । तदा तैः स्पर्शाद्युपकरणेन्द्रियसंश्लिष्टैर्या च यावती च विज्ञानशक्तिराविरस्ति सा एवंविधा ज्ञानशक्तिः
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy