SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 56 साधिका: स्युभवस्थत्वे, सा त्रयस्त्रिंशदब्धयः । उत्कर्षतो जघन्या च, सा स्यादान्तर्मुहूर्तिकी ॥ ६४२ ॥ सास्वादनस्यावल्य: षट्, ज्येष्ठा लघ्वी क्षणात्मिका । एकः क्षणो वेदकस्योत्कर्षाज्जघन्यतोऽपि च ॥ ६४३ ॥ उत्कर्षादौपशमिक, सास्वादनं च पञ्चश: । वेदकं क्षायिकं चैकवारं जीवस्य सम्भवेत् ॥ ६४४ ॥ वारान् भवत्यसंख्येयान्, क्षायोपशमिकं पुनः । अथैतेषां गुणस्थाननियमः प्रतिपाद्यते ॥ ६४५ ॥ साखादनं स्यात्सम्यक्त्वं, गुणस्थाने द्वितीयके । तुर्यादिषु चतुर्थेषु, क्षायोपशमिकं भवेत् ॥ ६४६ ॥ अष्टासु तुर्यादिष्वौपशमिकं परिकीर्तितम् । तुर्यादिष्वेकादशसु, सम्यक्त्वं क्षायिकं भवेत् ॥ ६४७ ॥ तुर्यादिषु चतुर्वेषु, वेदकं कीर्तितं जिनैः । गुणस्थानप्रकरणाद्विशेषः शेष उह्यताम् ॥ ६४८ ॥ सम्यक्त्वं लभते जीवो, यावत्यां कर्मणां स्थितौ । क्षपितायां तत: पल्यपृथक्त्वप्रमितस्थितौ ॥ ६४९ ॥ लभेत देशविरतिं, क्षपितेषु ततोऽपि च । संख्येषु सागरेषु, चारित्रं लभतेऽसुमान् ॥ ६५० ॥ एवं चोपशमश्रेणि, क्षपकश्रेणिमष्यथ । क्रमात्संख्येयपाथोधिस्थितिहासादवाप्नुयात् ॥ ६५१ ॥ एतानभ्रष्टसम्यक्त्वोऽन्यान्यदेवनृजन्मसु । लभेतान्यतरश्रेणिवर्जान कोऽप्येकजन्मनि ॥ ६५२ ॥ श्रेणिद्वयं चैकभवे सिद्धान्ताभिप्रायेण न स्यादेव ॥ आहुश्च सम्मत्तंमि उ लद्धे, पलिअपुहुत्तेण सावओ हुज्जा । चरणोवसमखयाणं, सागरसंवंतरा हुंति ॥ एवं अप्परिवडिए, सम्मत्ते देवमणुअजम्मेसु । अन्नयरसेढिवज्जं, एगभवेणं च सव्वाइं ॥ इति महाभाष्यसूत्रवृत्त्यादिषु ॥ [विशेषावश्यक श्लो. १२२७, १२२८] सम्यक्त्वं च श्रुतं चेति, देशतः सर्वतोऽपि च । विरती इति निर्दिष्टं, सामायिकचतुष्टयम् ॥ ६५३ ॥ चारित्रस्याष्ट समयान्, प्रतिपत्तिनिरन्तरम् । शेषत्रयस्य चावल्यसंख्येयांशमितान् क्षणान् ॥ ६५४ ॥ उत्कर्षेण प्रतिपत्तिकाल एष निरन्तरः । जघन्यतो दौ समयौ, चतुर्णामपि कीर्तितः ॥ ६५५ ॥ द्वादशपञ्चदशाहोरात्रास्तृतीयतुर्ययोः । आद्ययोः सप्त विरहो, ज्येष्ठोऽन्यश्च क्षणत्रयम् ॥ ६५६ ॥ सम्यक्त्वं देशविरतिं, चाप्नोत्युत्कर्षतोऽसुमान् । क्षेत्रपल्योपमासंख्यभागक्षणमितान् भवान् ॥ ६५७ ॥ चारित्रं च भवानष्टौ, श्रुतसामायिकं पुनः । भवाननन्तान् सर्वाणि, भवमेकं जघन्यत: ॥६५८ ॥ आकर्षाणां खलु शतपृथक्त्वं सर्वसंवरे । स्यात्सहस्रपृथक्त्वं च, त्रयाणामेकजन्मनि ॥ ६५९ ॥ नानाभवेषु चाकर्षा, असंख्येयाः सहस्रकाः । आयत्रये तुरीये च, स्यात्सहस्रपृथक्त्वकम् ॥ ६६०॥ यत् त्रयाणां प्रतिभवं, स्युः सहस्रपृथक्त्वकम् । असंख्येया भवाश्चेति, युक्तास्तेऽमी यथोदिताः ॥ ६६१ ॥ चारित्रे यत्प्रतिभवं, तेषां शतपृथक्त्वकम् । भवाश्चाष्टौ ततो युक्तं, तत्सहस्रपृथक्त्वकम् ॥ ६६२ ॥ आकर्षः प्रथमतया ग्रहणं मुक्तस्य वा ग्रहणम् इति । इदमर्थतः आवश्यकसूत्रवृत्त्यादिषु ॥ मिथ्यादृष्टिर्विपर्यस्ता, जिनोक्ताद्रस्तुतत्त्वतः । सा स्यान्मिथ्यात्विनां तच्च, मिथ्यात्वं पञ्चधा मतम् ॥ ६६३ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy