SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ 55 सम्यक्त्वावारकरसं, क्षपयित्वा विशोधिताः । मिथ्यात्वपुद्गलास्ते स्युः, सम्यक्त्वमुपचारतः ॥ ६१६ ॥ अर्धशुद्धा अशुद्धाश्च, मिश्रमिथ्यात्वसंज्ञकाः । एवं कोद्रवदृष्टान्तात्, त्रिषु पुञ्जेषु सस्त्वपि ॥ ६१७ ॥ यदाऽनिवृत्तिकरणात्, सम्यक्त्वमेव गच्छति । मिश्रमिथ्यात्वपुञ्जौ तु, तदा जीवो न गच्छति ॥ ६१८ ॥ पुनः पतितसम्यक्त्वो, यदा सम्यक्त्वमश्नुते । तदाप्यपूर्वकरणेनैव पुञ्जत्रयं सृजन् ॥ ६१९ ॥ करणेनानिवृत्ताख्येनैव प्राप्नोति पूर्ववत् । नन्वत्रापूर्वकरणे, प्राग्लब्धेऽन्वर्थता कथम् ॥ ६२० ॥ अत्रोच्यते-अपूर्ववदपूर्वं स्यात्, स्तोकवारोपलम्भत: । अपूर्वत्वव्यपदेशो, भवेल्लोकेऽपि दुर्लभे ॥ ६२१ ॥ इदमर्थतो विशेषावश्यकवृत्तौ ॥ सम्यग्दृष्टिव्यपदेशनिबन्धनमितीरीतम् । सम्यक्त्वं त्रिविधं शुद्धश्रद्धारूपं मनीषिभिः ॥ ६२२ ॥ यदि वैकद्वित्रिचतुःपञ्चभेदं भवेदिदम् । जिनोक्ततत्त्वश्रद्धानरूपमेकविधं भवेत् ॥ ६२३॥ द्विधा नैसर्गिकं. चौपदेशिकं चेति भेदतः । भवेन्नैश्चयिकं व्यावहारिकं चेति वा द्विधा ॥ ६२४ ॥ द्रव्यतो भावतश्चेति, द्विधा वा परिकीर्तितम् । तत्र नैसर्गिकं स्वाभाविकमन्यद्गुरोगिरा ॥ ६२५ ॥ यथा पथश्च्युतः कश्चिदुपदेशं विना भ्रमन् । मार्ग प्राप्नोति कश्चित्तु, मार्गविज्ञोपदेशतः ॥ ६२६ ॥ यथा वा कोद्रवाः केचित्स्युः कालपरिपाकतः । स्वयं निर्मदना: केचित् गोमयादिप्रयत्नतः ॥ ६२७ ॥ कश्चिज्ज्वरो यथा दोषपरिपाकाद् व्रजेत् स्वयम् । कश्चित्पुनर्भेषजादिप्रयत्नेनोपशाम्यति ॥ ६२८ ॥ स्वभावादथवोपायाद्यथा शुद्धं भवेत्पयः । यथोज्वलं स्याबस्त्रं वा, स्वभावाद्यत्नतोऽपि वा ॥ ६२९ ॥ सम्यक्त्वमेवं केषाञ्चिदङ्गिनां स्यान्निसर्गतः । गुरुणामुपदेशेन, केषाञ्चित्तु भवेदिदम् ॥ ६३० ॥ नैश्चयिकं सम्यक्त्वं ज्ञानादिमयात्मशुद्धपरिणामः ॥ स्याद्भयावहारिकं तद्धेतुसमुत्थं च सम्यक्त्वम् ॥ ६३१ ॥ जिनवचनं तत्त्वमिति, श्रद्दधतोऽकलयतश्च परमार्थम् ॥ तद्रव्यतो भवेद्भावतस्तु परमार्थविज्ञस्य ॥ ६३२ ॥ क्षायोपशमिकमुत पौद्गलिकतया द्रव्यतस्तदुपदिष्टम् । आत्मपरिणामरूपे च भावत: क्षायिकोपशमिके ते ॥ ६३३ ॥ कास्करोचकदीपकभेदादेतत् विधाऽथवा त्रिविधम् ॥ ख्यातं क्षायोपशमिकमुपशमजं क्षायिकं चेति ॥ ६३४ ॥ जिनप्रणीताचारस्य, करणे कारकं भवेत् । रुचिमात्रकरं तस्य, रोचकं परिकीर्तितम् ॥ ६३५ ॥ स्वयं मिथ्यादृष्टिरपि, परस्य देशनादिभिः । यः सम्यक्त्वं दीपयति, सम्यक्त्वं तस्य दीपकम् ॥ ६३६ ॥ क्षायोपशमिकादीनां, स्वरूपं तूदितं पुरा । सास्वादनयुते तस्मिंस्त्रये तत्स्याच्चतुर्विधम् ॥ ६३७ ॥ वेदकेनान्विते तस्मिंश्चतुष्के पञ्चधाऽपि तत् । सास्वादनं च स्यादौपशमिकं वमतोऽङ्गिनः ॥ ६३८ ॥ त्रयाणामुक्तपुञ्जानां, मध्ये प्रक्षीणोद्धयोः । शुद्धस्य पुञ्जस्यान्त्याणुवेदने वेदकं भवेत् ॥ ६३९ ॥ षट्षष्टिः साधिकाऽब्धीनां, क्षायोपशमिकस्थितिः । उत्कृष्टा सा जघन्या चान्तर्मुहूर्त्तमिता मता ॥ ६४०॥ ज्येष्ठाऽन्या चौपशमिकस्थितिरान्तर्मुहूर्तिकी । क्षायिकस्य स्थितिः सादिरनन्ता वस्तुतः स्मृता ॥ ६४१ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy