SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिवृत्तावपि इत्यर्थतः ॥ किञ्चबद्ध्यते त्यक्तसम्यक्त्वैरुत्कृष्टा कर्मणां स्थितिः । भिन्नग्रन्थिभिरप्युग्रो, नानुभागस्तु तादृशः ॥ ६०० ॥ इत्येतत्कार्मग्रन्थिकमतम् ॥ भवेद्भिन्नग्रन्थिकस्य, मिथ्यादृष्टेरपि स्फुटम् । सैद्धान्तिकमते ज्येष्ठः, स्थितिबन्धो न कर्मणाम् ॥ ६०१ ॥ अथ प्रकृतम्इदं चोपशमश्रेण्यामपि दर्शनसप्तके । उपशान्ते भवेच्छ्रेणिपर्यन्तावधि देहिनाम् ॥ ६०२ ॥ तथा यथौषधविशेषेण, जनैर्मदनकोद्रवाः । त्रिधा क्रियन्ते शुद्धार्धविशुद्धाशुद्धभेदतः ॥ ६०३ ॥ तथाऽनेनौपशमिकसम्यक्त्वेन पटीयसा । विशोध्य क्रियते त्रेधा, मिथ्यात्वमोहनीयकम् ॥ ६०४ ॥ तत्राशुद्धस्य पुञ्जस्योदये मिथ्यात्ववान् भवेत् । पुञ्जस्यार्धविशुद्धस्योदये भवति मिश्रदृग् ॥ ६०५ ॥ उदये शुद्धपुञ्जस्य, क्षायोपशमिकं भवेत् । मिथ्यात्वस्योदितस्यान्तादन्यस्योपशमाच्च तत् ॥ ६०६ ॥ आरब्धक्षपकश्रेणेः, प्रक्षीणे सप्तके भवेत् । क्षायिकं तद्भवसिद्धेस्त्रिचतुर्जन्मनोऽथवा ॥ ६०७ ॥ तत्त्वार्थभाष्ये चैतेषां स्वरूपमेवमुक्तम्-क्षयादि त्रिविधं सम्यग्दर्शनम्, तदावरणीयस्य कर्मणो दर्शनमोहस्य च क्षयादिभ्य इति ॥ अस्य वृत्ति:-"मत्याद्यावरणीयदर्शनमोहसप्तकक्षयात् उपजातं क्षयसम्यग्दर्शनमभिधीयते । तेषामेवोपशमाज्जातं उपशमसम्यग्दर्शनमुच्यते । तेषामेव क्षयोपशमाभ्यां जातं क्षयोपशमसम्यग्दर्शनमभिदधति प्रवचनाभिज्ञाः । इति तत्त्वार्थप्रथमाध्याये ॥ [त्र. ७] ननु च-तत्त्वश्रद्धानजनकं, क्षायोपशमिकं यदि । सम्यक्त्वस्य क्षायिकस्य, कथमावारकं तदा ? ॥६०८ ॥ यदि मिथ्यात्वजातीयतया तदपवारकम् । तदात्मधर्मश्रद्धानं, कथमस्मात् प्रवर्त्तते १ ॥ ६०९ ॥ अत्रोच्यतेयथा श्लक्ष्णाभ्रकान्तःस्था, दीपादेोतते द्युतिः । तस्मिन् दूरीकृते सर्वात्मना 'संजृम्भतेऽधिकम् ॥ ६१० ॥ यथा वा मलिनं वस्त्रं, भवत्यावारकं मणेः । निर्णिणज्योज्ज्वलिते तस्मिन्, भाति काचन तत्प्रभा ॥ ६११ ॥ मूलादूरीकृते चास्मिन्, सा स्फुटा स्यात्स्वरूपतः । मिथ्यात्वपुद्गलेष्वेवं, रसापवर्त्तनादिभिः ॥ ६१२ ॥ क्षायोपशमिकत्वं द्राक्, प्राप्तेषु प्रकटीभवेत् । आत्मधर्मात्मकं तत्त्वश्रद्धानं किञ्चिदस्फुटम् ॥ ६१३ ॥ क्षायोपशमिके क्षीणे, स्फुटं सर्वात्मना भवेत् । आत्मस्वरूपं सम्यक्त्वं, तच्च क्षायिकमुच्यते ॥ ६१४ ॥ एवं च-तत्त्वश्रद्धानजनकसम्यक्त्वपुद्गलक्षये । कथं श्रद्धा भवेत्तत्त्वे, शद्वेषाऽपि निराकृता ॥ ६१५ ॥ तथाहुर्भाष्यकार:-सो तस्स विसुद्धयरो, जायइ सम्मत्तपोग्गलक्खयओ । दिडिब्बसण्ह' सुद्धस्य पडलविगमे मणूसस्स ॥ [विशेषावश्यक श्लो. १३२७] इदं कर्मग्रन्थमतम् ॥ सिद्धान्तस्य मते पुनः अपूर्वकरणेनैव मिथ्यात्वं कुरुते त्रिधा ॥ १. सा जृम्भते इति पाठान्तर २. सुद्धब्भ
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy