________________
61
शिल्पमाचार्योपदेशाल्लब्धं स्यात्कर्म च स्वत: । नित्यव्यापारश्च शिल्पं, कादाचित्कं तु कर्म वा ॥ ७२८ ॥ या कर्माभिनिवेशोत्थलब्धतत्परमार्थिका । कर्माभ्यासविचाराभ्यां, विस्तीर्णा तद्यश: फला ॥ ७२९ ।। तत्तत्कर्मविशेषेषु, समर्था कार्मिकी मति: । केषुचिद् दृश्यते सा च चित्रकारादिकारुषु ॥ ७३० ॥ सुदीर्घकालं यः पूर्वापरार्थालोचनादिजः । आत्मधर्मः सोऽत्र परिणामस्तत्प्रभवा तु या ॥ ७३१ ॥ अनुमानहेतुमात्रदृष्टान्तैः साध्यसाधिका । वयोविपाकेन पुष्टीभूताऽभ्युदयमोक्षदा ॥ ७३२ ॥ अभयादेरिव ज्ञेया, तुर्या सा पारिणामिकी । आभ्योऽधिका पञ्चमी तु, नार्हताऽप्युपलभ्यते ॥ ७३३ ॥ यद् द्वेधैव मतिर्लोके, प्रथमा श्रुतनिश्रिता । शास्त्रसंस्कृतबुद्धेः सा, शास्त्रार्थालोचनोद्भवा ॥ ७३४ ॥ सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधात् । क्षयोपशमतो जाता, भवेदश्रुतनिश्रिता ॥ ७३५ ॥ सर्वाप्यन्तर्भवत्यस्मिन्, मतिरश्रुतनिश्रिता । यथोक्तधीचतुष्केऽतः, पञ्चम्या नास्ति सम्भवः ॥ ७३६ ॥ इदमर्थतो नन्दीसूत्रवृत्तिस्थानाङ्गसूत्रवृत्त्यादिषु ॥ जातिस्मृतिरप्यतीतसंख्यातभवबोधिका ॥ मतिज्ञानस्यैव भेदः, स्मृतिरूपतया किल ॥ ७३७ ॥ यदाहाचाराङ्गटीका-जातिस्मरणं त्वाभिनिबोधिकाविशेष इति । इति मतिज्ञानम् ॥ श्रूयते तत्श्रुतं शब्दः, स श्रुतज्ञानमुच्यते । भावश्रुतस्य हेतुत्वाद्धेतौ कार्योपचारतः ॥ ७३८ ॥ श्रुताच्छब्दादुत ज्ञानं, श्रुतज्ञानं तदुच्यते । श्रुतग्रन्थानुसारी यो, बोधः श्रोत्रमनः कृतः ॥ ७३९ ॥ ननु श्रुतज्ञानमपि, श्रोत्रेन्द्रियनिमित्तकम् । तन्मतिज्ञानतः कोऽस्य, भेदो यत्कथ्यते पृथक् ॥ ७४० ॥ अत्रोच्यते- वर्तमानार्थविषयं, मतिज्ञानं परं ततः । गरीयोविषयं त्रैकालिकार्थविषयं श्रुतम् ॥ ७४१ ॥ विशुद्धं च व्यवहितानेकसूक्ष्मार्थदर्शनात् । छद्मस्थोऽपि श्रुतबलादुच्यते श्रुतकेवली ॥ ७४२ ॥ तदुक्तम् – “न य णं अणाइसेसी, वियाणइ एस छउमत्थोत्ति” । जीवस्य ज्ञस्वभावत्वान्मतिज्ञानं हि शाश्वतम् । संसारे भ्रमतोऽनादौ, पतितं न कदापि यत् ॥ ७४३ ॥ अक्षरस्यानन्तभागो, नित्योद्घाटित एव हि । निगोदिनामपि भवेदित्येतत्पारिणामिकम् ॥ ७४४ ॥
यदागमः- “सव्वजीवाणं पिअणं अक्खरस्स अणंतभागो निच्चुग्घाडिओ चिट्ठइ । जइ सोवि
आवरंज्जा ता जीवो अजीवत्तणं पावेज्जा” ॥ इति ॥ श्रुतज्ञानं पुनर्नवं, भवेज्जीवस्य सर्वदा । आप्तोपदेशापेक्षं यत्स्यादेतन्मतिपूर्वकम् ॥७४५ ॥
१. शिल्पिषु २. षट्षष्टिसागरोपमस्थितिस्तु सम्यग्ज्ञानापेक्षिका यद्धा अन्तराऽन्तरा स्मरणादिना कालपूर्तिः । ३. यत इत्याध्यहार्यम् ४. अवधिज्ञानादिविकल: ५. श्रुतज्ञानरुपस्य केवलस्योभयस्य वा ६. श्रुताक्षरस्यानन्तभागसत्वेऽपि औपदेशिकश्रुतभावापेक्षया: