________________
52
पुंस्त्वसंज्ञित्वयोः कायस्थितिरान्तर्मुहूर्तिकी । लघ्वी गुर्वी चाब्धिशतपृथक्त्वं किञ्चनाधिकम् ॥ स्त्रीत्वकायस्थिति: प्रज्ञापनायां समयो लघुः । उक्ताऽथास्यां गरीयस्यामादेशा: पञ्च दर्शिताः ॥ चतुर्दशाष्टादश वा, शतं वाथ दशोत्तरम् । पूर्णं शतं वा पल्यानि, पल्यानां वा पृथक्त्वकम् ॥ पूर्वकोटिपृथक्त्वाढ्याः, पञ्चाप्येते विकल्पकाः । पञ्चसंग्रहवृत्त्यादेज्ञेयैस्तेषां च विस्तृतिः ॥ आये द्वितीये स्वर्ग दिः, पूर्वकोट्यायुषः स्त्रियाः । सभर्तृकान्यदेवीत्वेनोत्पत्त्यैषां च भावना ॥ इति वेदः ॥ २४ ॥ जिनोक्तादविपर्यस्ता, सम्यग्दृष्टिर्निगद्यते । सम्यक्त्वशालिनां सा स्यात्तच्चैवं जायतेङ्गिनाम् ॥ ५६२ ॥ चतुर्गतिकसंसारे, पर्यटन्ति शरीरिणः । वशीकृता विपाकेन, गुरुस्थितिककर्मणाम् ॥ ५६३ ॥ अथैतेषु कश्चिदङ्गी, कर्माणि निखिलान्यपि ॥ कुर्याद्यथाप्रवृत्ताख्यकरणेन स्वभावत: ॥ ५६४ ॥ 'पल्यासंख्यलवोनैक-कोट्याब्धिस्थितिकानि वै । परिणामविशेषोऽत्र, करणं प्राणिनां मतम् ॥ ५६५ ॥ तत्रिधा तत्र चाद्यं स्याद्यथाप्रवृत्तनामकम् । अपूर्वकरणं नामाऽनिवृत्तिकरणं तथा ॥ ५६६ ॥ वक्ष्यमाणग्रन्थिदेशावधि प्रथममीरितम् । द्वितीयं भिद्यमानेऽस्मिन्, भिन्ने ग्रन्थौ तृतीयकम् ॥ ५६७ ॥ त्रीण्यप्यमूनि भव्यानां, करणानि यथोचितम् । सम्भवन्त्येकमेवाद्यमभव्यानां तु सम्भवेत् ॥ ५६८ ॥ आद्येन करणेनाङ्गी, करोति कर्मलाघवम् । धान्यपल्यगिरिसरिदृषदादिनिदर्शनैः ॥ ५६९ ॥ यथा धान्यं भूरिभूरि, कश्चिद्गृह्णाति पल्यतः । क्षिपत्यत्राल्पमल्पं च, कालेन कियताऽप्यथ ॥ ५७० ॥ धान्यपल्यः सोऽल्पधान्यशेष एवावतिष्ठते । एवं बहूनि कर्माणि, जरयन्नसुमानपि ॥ ५७१ ॥ बनंश्चाल्पानि तानि, कालेन कियताऽपि हि । स्यादल्पकर्माऽनाभोगात्मकायकरणेन सः ॥ ५७२ ॥ यथाप्रवृत्तकरणं, नन्वनाभोगरूपकं । भवत्यनाभोगतश्च, कथं कर्मक्षयोऽङ्गिनाम् ॥ ५७३ ॥ अत्रोच्यते - यथा मिथो घर्षणेन, ग्रावाणोऽद्रिनदीगताः । स्युश्चित्राकृतयो ज्ञानशून्या अपि स्वभावतः ॥ ५७४ ॥ तथा यथाप्रवृत्तात्स्युरप्यनाभोगलक्षणात् । लघुस्थितिककर्माणो, जन्तवोऽत्रान्तरेऽथ च ॥ ५७५ ॥ रागद्वेषपरिणामरूपोऽस्ति ग्रन्थिरुत्कटः । दुर्भेदो दृढकाष्टादिग्रन्थिवद्गाढचिक्कणः ॥ ५७६ ॥ मिथ्यात्वं नोकषायाश्च, कषायाश्चेति कीर्तितः । जिनैश्चतुर्दशविधोऽभ्यन्तरग्रन्थिरागमे ॥ ५७७ ॥ प्रागुक्तरूपस्थितिककर्माणः केऽपि देहिनः । यथाप्रवृत्तकरणाद्ग्रन्थेरभ्यर्णमिर्यति ॥ ५७८ ॥ एतावच्च प्राप्तपूर्वा, अभव्या अप्यनन्तश: । नत्वीशन्ते ग्रन्थिमेनमेते भेत्तुं कदापि हि ॥ ५७९ ॥ श्रुतसामायिकस्य स्याल्लाभ: केषाञ्चिदत्र च । शेषाणां सामायिकानां, लाभस्तेषां न सम्भवेत् ॥ ५८० ॥ १. पल्यासंख्यलवोनैक कोटाकोट्यब्धि कानि वै-इति पाठः साधुः ।