________________
668
स च कालो महाभीष्मः, शून्योऽशेषजनक्षयात् । प्रवर्द्धमानदुःखार्त्तलोकहाहाखाकुलः ॥ १४७ ॥ तस्मिन् कालेऽतिकठिना, दूरोदञ्चितधूलयः । वाता वान्ति भृशं भीष्मा, असह्याः प्राणहारिणः ॥ १४८ ॥ धूमायन्ते दिशोऽभीक्ष्णं, परितोऽतिरजस्वलाः । प्रसृत्वरान्धतमसैर्निरालोका दिवानिशम् ॥ १४९ ॥ कालरौक्ष्येणाङ्गरौक्ष्यादसह्यमहितं महः । शीतं मुञ्चति शीतांशुरुष्णं चोष्णकरः खरः ।। १५० ।। सूर्यचन्द्रमसावेतौ, जगतामुपकारिणौ । हन्त कालपरावर्त्ते, स्यातां तावेव दुःखदौ ॥ १५१ ॥ सर्जादिक्षारसदृशरसवा: पूरवर्षिणः करीषरसतुल्याम्बुमुचोऽम्लरसवारयः अग्निवद्दाहकृद्वारिकिरो विषमयोदकाः । वज्रोदकाः पर्वतादिप्रतिभेदप्रभूष्णवः ।। १५३ ॥ विद्युत्पातकृतोऽभीक्ष्णं, कर्करादिकिरोऽसकृत् । जनानां विविधव्याधिवेदनामृत्युकृज्जलाः ॥ १५४ ॥ तदा चण्डानिलोद्धूततीव्रधारातिपातिनः । कर्णद्रोहिध्वनिकृतोऽसकृद्धर्षन्ति वारिदाः ।। १५५ ।।
I
।। १५२ ।।
एषां क्षारादिमेघानां श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रवृत्त्योः कालमानमुक्तं न दृश्यते - 'अभिक्खणं अभिक्खणं अरसमेहा विरसमेहा खारमेहा खत्तमेहा यावत् वासं वासं वासिहिंति' एतद् वृत्तावपि अभीक्ष्णं पुनः पुनरित्यादि कालसप्ततौ तु एतेषां कालमानमेवं दृश्यते - “ तो खारग्गिविसंबिलविज्जूघणा सगदिणा पिहु कुपवणं । वरिसिअ बहुरोगिजलं काहंति समं गिरिथलाई ” ॥ [ श्लो. ५५ ]
ग्रन्थान्तरे तु - 'एते क्षारमेघादयो वर्षशतोनैकविंशतिवर्षसहस्रप्रमाणदुष्षमाकालातिक्रमे वर्षिष्यन्तीति' दृश्यते ।
1
ये जगज्जीवनास्तापच्छिदः सर्वेप्सितागमाः । एवं तेऽपि प्रवर्त्तन्ते, मेघाः कालविपर्यये ॥ १५६ ॥ नगरग्रामखेटादीन्, द्विपदांश्च चतुष्पदान् । अपदान् खेचरान् भूमिचरान्नभश्चरानपि ।। १५७ ॥ अरण्यवासिनो द्वीपवासिनः शैलवासिनः । विद्याधरान्नैकविद्यासाधनोर्जितशक्तिकान् ॥ १५८ ॥ त्रसान् द्वित्रिचतुःपञ्चेन्द्रियांश्च स्थावरानपि । वृक्षगुल्मलतागुच्छौषधीर्नानातृणादिकान् ॥ १५९ ॥ विना वैताढ्यवृषभकूटेभ्योऽन्यान् धराधरान् । गङ्गासिन्ध्वादिसिन्धुभ्यः, परान् सर्वात् जलाश्रयान् ।। १६० ।। विध्वस्येत्यादिकान् सर्वान्, भावांस्ते विषमा घनाः । भस्मीकुर्वन्ति दशसु क्षेत्रेषु भरतादिषु ॥ १६१ ॥ वर्षन्ति वैताढ्यादीनामुपर्यपि घना अमी । तत्रस्था अपि नश्यन्ति, खेचरास्तत्पुराणि च ॥ किंतु ते भूधरास्तेषां प्रासादाः शिखराणि च । न मनागपि भिद्यन्ते, शाश्वतं ह्यविनश्वरम् ॥ १६३ ॥ अस्मिंश्च भरतक्षेत्रे, श्री शत्रुञ्जयपर्वतः । तत्रापि काले भविता, शाश्वतप्राय एव यत् ॥ १६४ ॥ अशीतिं योजनान्येष, विस्तृतः प्रथमेऽरके । द्वितीये सप्पतिं षष्टि, तृतीये कथितोऽरके ॥ १६५ ॥ योजनानि च पञ्चाशत्तुरीये पञ्चमे पुनः । योजनानि द्वादश स्युः, सप्तहस्तास्ततोऽन्तिमे ॥ १६६ ॥
१६२ ॥