________________
667
तथोक्तं भगवत्यां-“जम्बूद्दीवे णं भंते दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवइयं कालं तित्थे अणुसज्जिस्सति ? गो० जंबू० भारहे इमीसे ओस० ममं एकवीसं वाससहस्साइं तित्थे अणुसज्जिस्सति, इति” भग० श० ८ उ० ८ ।
दीवालीकल्पे तूक्तं-“वासाण वीससहस्सा नवसय तिम्मास पञ्चदिणपहरा । इक्का घडिया
दोपल अक्खर अडयाल जिणधम्मो ॥ [श्लोक ३०५] पर्यन्ते त्वरकस्यास्य, सूरिर्दुःप्रसहाभिधः । रत्निद्वयोच्छ्रितो विंशत्यब्दजीवी भविष्यति ॥ १२९ ॥ स्वर्गाच्व्युत्वा समुत्पन्नो, गृहे दादशवत्सरीम् । स्थित्वा सामान्यसाधुत्वे, चत्वार्यब्दान्यसौ शुचिः ॥ १३० ॥ चत्वार्यब्दानि सूरित्वे, स्थित्वाऽष्टाब्दानि च व्रते । स्वर्गमेष्यति सौधर्ममन्ते कृत्वाऽष्टमं कृती ॥ १३१ ॥ दशवैकालिकं जीतकल्पमावश्यकं च सः । अनुयोगदारनंदीनतेन्द्रो धास्यति श्रुतम् ॥ १३२ ॥ साध्वी तदा च फल्गुश्रीः, श्रावको नागिलाभिधः । सत्यश्री: श्राविका चेति, ज्ञेयः सङ्घश्चतुर्विधः ॥ १३३ ॥ __यत:-“एगो साहू एगा य साहुणी सड्ढओ य सड्ढी वा । आणाजुत्तो सो सेसो पुण
अट्ठिसंघाओ ॥ [संबोधसत्तरि गा. ३७] उत्कृष्टं श्रुतमेतेषां, दशवैकालिकावधि । पाण्मासिकतपस्तुल्यं, षष्ठभक्तं भविष्यति ॥ १३४ ॥ मन्त्रीश: सुमुखाभिख्यो, राजा विमलवाहनः । भविष्यतस्तदा लोके, नीतिमार्गप्रवर्तकौ ॥ १३५ ॥ अयं दुःप्रसहाचार्योपदेशेन करिष्यति । चैत्यस्यान्तिममुद्धारं, राजा श्रीविमलाचले ॥ १३६ ॥ कोट्येकैकादश लक्षाः, सहस्राणि च षोडश । उत्तमानां क्षितीशानां, संख्यैषा दुष्षमारके ॥ १३७ ॥ कोटयः पञ्चपञ्चाशल्लक्षाश्चापि सहस्रकाः । तावन्तोऽथ शताः पञ्च पञ्चपञ्चाशदन्विताः ॥ १३८ ॥ इयन्तो दुःषमाकाले, निर्दिष्टाः सर्वसंख्यया । नवभिः पञ्चकैर्नामधारिणोऽधमसूरयः ॥ १३९ ॥ इत्यर्थतो दीपालिकाकल्पेएवं च सर्ववर्षावसर्पिणीष्वखिलास्वपि । पञ्चमानामरकाणां, यथार्ह भाव्यतां स्थितिः ॥ १४० ॥ एवमुक्तस्वरूपस्य, पञ्चमस्यारकस्य च । प्रान्ते मूलाद् ज्ञातिधर्मो, विवाहादिविलीयते ॥ १४१ ॥ धर्मो विलीयते शाक्याद्यन्यपाखण्डिनामपि । राजधर्मो दुष्टशिष्टनिग्रहानुग्रहादिकः ॥ १४२ ॥ धर्मोऽथ श्रुतचारित्रलक्षणोऽपि विलीयते । साध्वादिनाशे तन्नाशः, पात्रनाशे घृतादिवत् ॥ १४३ ॥ तथा चोच्छिद्यते वहिरन्नपाकादिभिस्सह । अतिस्निग्धेऽतिरुक्षे च, काले भवति नैष यत् ॥ १४४ ॥ अनतिस्निग्धरूक्षेषु, सुषमदुष्षमादिषु । कालेषूत्पद्यते वह्निस्तत्साध्याश्च क्रिया अपि ॥ १४५ ॥ एवं पूर्णे पञ्चमेऽरेऽनन्तैर्वर्णादिपर्यवैः । हीयमानैः प्रविशति, दुष्षमदुष्षमारकः ॥ १४६ ॥
१ अरसविरसाधुदकवर्षणादिकालमपसार्य स्यादुक्तमेतत् ।