SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ 666 संगतिमित्र: श्रीधरो, मागध श्चामराभिधः । रेवतीमित्र सत्कीर्तिमित्रौ च सुरमित्रकः ॥ १०८ ॥ फल्गुमित्रश्च कल्याण, सूरि: कल्याणकारणम् । देवमित्रो दुःष्प्रसह, उदयेष्वन्त्यसूरयः ॥ १०९ ॥ श्रीसुधर्मा च जम्बूश्च, प्रभवः सूरिशेखरः । शय्यम्भवो यशोभद्रः, संभूतिविजयाह्वयः ॥ ११० ॥ भद्रबाहुस्थूलभद्रौ, महागिरिसुहस्तिनौ । धनसुन्दरश्यामायौं, स्कन्दिलाचार्य इत्यपि ॥ १११ ॥ रेवतीमित्रधर्मी च, भद्रगुप्ताभिधो गुरु : । श्रीगुप्तवज्रसंज्ञार्यरक्षितौ पुष्पमित्रकः ॥ ११२ ॥ प्रथमस्योदयस्यैते, विंशतिः सूरिसत्तमाः । त्रयोविंशतिरुच्यन्ते, द्वितीयस्याथ नामतः ॥ ११३ ॥ श्रीवज्रो नागहस्ती च, रेवतीमित्र इत्यपि । सिंहो नागार्जुनो भूतदिन्नः कालकसंज्ञकः ॥ ११४ ॥ सत्यमित्रो हारिलच, जिनभद्रो गणीश्वरः । उमास्वाति: पुष्पमित्रः, संभूतिः सूरिकुञ्जरः ॥ ११५ ॥ तथा माढरसंभूतो, धर्मश्रीसंज्ञको गुरु : । ज्येष्ठाङ्गः फल्गुमित्रश्च, धर्मघोषाह्वयो गुरुः ॥ ११६ ॥ सूरिविनयमित्राख्यः, शीलमित्रश्च रेवतिः । स्वप्नमित्रो हरिमित्रो, द्वितीयोदयसूरयः ॥ ११७ ॥ स्युस्त्रयोविंशतेरेवमुदयानां युगोत्तमाः । चतुर्युक्ते सहस्रे ढे, मीलिताः सर्वसंख्यया ॥ ११८ ॥ एकावतारा: सर्वेऽमी, सूरयो जगदुत्तमाः । श्री सुधर्मा च जम्बूश्च, ख्यातौ तद्भवसिद्धिकौ ॥ ११९ ॥ अनेकातिशयोपेता, महासत्त्वा भवन्त्यमी । जन्ति सार्द्धद्वियोजन्यां, दुर्भिक्षादीनुपद्रवान् ॥ १२० ॥ एकादशसहस्राश्च, लक्षाश्च षोडशाधिका: । युगप्रधानतुल्याः स्युः, सूरयः पञ्चमारके ॥ १२१ ॥ तथोक्तं दुष्षमारकसङ्घस्तोत्रे-"जुगपवरसरिससूरी, दूरीकयभवियमोहतमपसरं । वंदामि सोलसुत्तर इगदसलक्खे सहस्से य” ॥ [दिपालिका कल्प - श्लोक २९१] "सन्तु श्रीवर्द्धमानस्येत्यादि' दीवालीकल्पे तु, "जुगप्पहाणसमाणा एगारस लक्ख सोलस सहस्सा । सूरिओ हुंति अरए पञ्चमए जाव दुप्पसहे” ॥ [टिप्पणीगतः श्लोकः] कोटीनां पञ्च पञ्चाशल्लक्षास्तावन्त एव च । सहस्राश्च शताः पञ्च, सर्व स्वाचारसूरयः ॥ १२२ ॥ त्रयस्त्रिंशच्च लक्षाणि, सहस्राणां चतुष्टयी । चतुःशत्येकनवतिः, सूरयो मध्यमा गुणैः ॥ १२३ ॥ अस्मिन्नेवारकेऽभूवन्, पूर्वाचार्या महाशयाः । श्रीजगच्चन्द्रसूर्याद्यास्तपागच्छान्वयक्रमे ॥ १२४ ॥ सूरयो बप्पभट्ट्याख्या, अभयदेवसूरयः । हेमाचार्याश्च मलयगिर्याद्याश्चाभवन् परे ॥ १२५ ॥ विजयन्तेऽधुनाप्येवं, मुनयो नयकोविदाः । अत्युग्रतपसश्चारुचारित्रमहिमाद्भुताः ॥ १२६ ॥ एवं मध्यस्थयादृष्ट्या, पर्यालोच्य विवेकिभिः । न कार्यः शुद्धसाधूनां, संशयः पञ्चमेऽरके ॥ १२७ ॥ दुष्षमारकपर्यन्तावधि सङ्घश्चतुर्विधः । भविष्यत्यव्यवच्छिन्न, इत्यादिष्टं जिनैः श्रुते ॥ १२८ ॥ १ स्तोत्रे तु सहस्सपदस्य व्यत्ययेन योजनात् षोडशसहस्रोत्तरा एकादश लक्षा इत्यर्थः संपद्येत ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy