SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ 665 यद्धा कषायैः क्रोधाद्यैर्यो ज्ञानादिविराधकः । कषायत: स ज्ञानादिकुशील इह कीर्तितः ॥ ८१ ॥ पुलाकमिह नि:सारं, धान्यं तादृक्चरित्रयुक् । स लब्धिप्रतिसेवाभ्यां, पुलाको द्विविधः स्मृतः ॥ ८२ ॥ यतिर्यया चक्रिसैन्यमपि चूर्णयितुं क्षमः । लब्धिः सा स्यात्पुलाकाख्या, तां सादिप्रयोजने ॥ ८३॥ प्रयुञ्जानो भवेल्लब्धिपुलाकोऽन्यस्तु पञ्चधा । ज्ञानदर्शनचारित्रलिङ्गसूक्ष्मविभेदतः ॥ ८४ ॥ ज्ञानं दोषैः स्खलितायैः, शडिताद्यैश्च दर्शनम् । मूलोत्तरातिचारैश्च, चारित्रं यो विराधयेत् ॥ ८५ ॥ स ज्ञानादिपुलाकः स्यात्कुर्यान्नि:कारणं च यः । वेषान्तरं भवेल्लिङ्गपुलाकः स श्रुतोदितः ॥ ८६ ॥ संयताऽकल्प्यवस्तूनां, मनसा यो निषेवकः । स निर्दिष्टो यथासूक्ष्मपुलाकः श्रुतपारगैः ॥ ८७ ॥ विनिर्गतो मोहनीयकर्माख्याद् ग्रन्थतोऽत्र य: । स निर्ग्रन्थो द्विधा क्षीणोपशांन्तमोहभेदतः ॥ ८८ ॥ शुक्लध्यानजलैः स्नातो, दूरं कर्ममलोज्झिातः । स स्नातकः सयोगी चायोगी चेति द्विधा भवेत् ॥ ८९ ॥ ततश्च-अरकेऽस्मिश्च बकुशकुशीलाख्येऽपि संयमे । भवेत्क्रमेणापकर्षः, शक्तिसत्त्वादिहानितः ॥ ९० ॥ सत्यप्येवं भवेयुर्य, मूढाः सङ्के चतुर्विधे । धर्मे च नास्तिका: कार्यास्ते भव्यैः सङ्घतो बहिः ॥ ९१ ॥ यथा घृतादिवस्तूनां, पूर्वकालव्यपेक्षया । स्नेहमाधुर्यादिहानिर्यद्यप्यध्यक्षमीक्ष्यते ॥ ९२ ॥ तथापि कार्यं तत्साध्यं, स्यात्तैरेव घृतादिभिः । न पुनस्तत्पदन्यस्तैः, स्वच्छैरपि जलादिभिः ॥ १३ ॥ पूर्वर्ण्यपेक्षयैवं च, हीनहीनगुणैरपि । मोक्षमार्गाद्यवाप्तिः स्यान्निर्ग्रन्थैरेव नापरैः ॥ ९४॥ विषमेऽपि च कालेऽस्मिन्, भवन्त्येव महर्षयः । निर्ग्रन्थैः सदृशाः केचिच्चतुर्थारकवर्तिभिः ॥ ९५ ॥ यथाऽस्यामवसर्पिण्यामेतस्मिन् पञ्चमेऽरके । त्रयोविंशतिरादिष्टा, उदया: सततोदयैः ॥ ९६ ॥ विंशतिः प्रथमे तत्र, युगप्रधानसूरयः । उदये स्युद्धितीयस्मिन्, त्रयोविंशतिरेव ते ॥ ९७ ॥ तृतीयेऽष्टाढ्यनवतिः, चतुर्थे चाष्टसप्ततिः । पञ्चसप्ततिरेकोननवतिः शतमेव च ॥ ९८ ॥ सप्ताशीति स्तथा पञ्चनवतिश्च ततः परम् । सप्ताशीति षट्सप्ततिरष्टसप्ततिरेव च ॥ ९९ ॥ चतुर्नवतिरेवाष्टौ त्रयः सप्त चतुष्टयम् । शतं पञ्चदशोपेतं, त्रयस्त्रिंशं शतं शतम् ॥ १०० ॥ पञ्चाधिकाऽथ नवतिर्नवतिश्च नवाधिका ॥ चत्वारिंशत् क्रमादेते, यथोक्तोदयसूरयः ॥ १०१ ॥ श्रीसुधर्मा च वज्रश्च, सूरिः प्रतिपदाभिध: । हरिस्सहो नन्दिमित्रः, शूरसेनस्तथापरः ॥ १०२ ॥ रविमित्रः श्रीप्रभश्च, सूरिमणिरथाभिधः । यशोमित्रो धनशिखः, सत्यमित्रो महामुनिः ॥ १०३ ॥ धम्मिल्लो विजयानन्दस्तथा सूरिः सुमङ्गलः । धर्मसिंहो जयदेवः, सुरदिन्नाभिधो गुरु : ॥ १०४ ॥ वैशाख्न चाथ कौडिण्यः, सूरिः श्रीमाथुरावयः । वणिक्पुत्रश्च श्रीदत्त, उदयेष्वाद्यसूरयः ॥ १०५ ॥ स्यात्पुष्पमित्रो ऽहन्मित्रः, सूरिवैशाखसंज्ञकः । सुकीर्तिः स्थावर स्थसुतश्च जयमङ्गलः ॥ १०६ ॥ तत: सिद्धार्थ ईशानो, स्थमित्रो मुनीश्वरः । आचार्यो भरणीमित्रो, दृढमित्राहयोऽपि च ॥ १०७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy