________________
664
वेश्मवीवाहसीमन्तादिषु संसारकर्मसु । ऋणं कृत्वापि वित्तानि, विलसन्ति घना जनाः ॥ ६१ ॥ चैत्योपाश्रयदेवार्चाप्रतिष्ठाद्युत्सवेषु तु । उपदेशं न शृण्वन्ति, शक्ता अप्येडमूकवत् ॥ ६२ ॥ श्रद्धाहानिर्द्रव्यर्हानिर्धर्महानिर्यथाक्रमम् । आयुर्हानिर्वपुहानिः सारहानिश्च वस्तुषु ॥ ६३ ॥ कौटिल्यमग्रजः स्वल्पं, वेत्त्यनल्पं ततोऽनुजः । यथाकनिष्ठमित्येवं, तद्धर्द्धताधिकाधिकम् ॥ ६४॥ मणिमंत्रौषधीतंत्रास्तादृग्माहात्म्यवर्जिताः । देवा भवन्ति नाध्यक्षाः सम्यगाराधिता अपि ॥ ६५ ॥ स्वल्पतुच्छाऽरसफलाः, सहकारादयो द्रुमाः । गोमहिष्यादयोऽप्यल्पदुग्धास्तान्यरसानि च ॥ ६६ ॥ दुर्णय वर्द्धते कूटतुलादिर्लोभवृद्धितः । ततः स्युर्जलदास्तुच्छाः, पृथिवी नीरसा ततः ॥ ६७ ॥ औषध्यस्तेन निस्सारा, मानवानां ततः क्रमात् । आयुर्देहबलादीनां परिहाणिः प्रवर्त्तते ॥ ६८ ॥
तथोक्तं तन्दुलवैचारिके - [ गाथा ५० थी ५३ ] “ संधयणं संठाणं उच्चतं आउयं च मणुआणं । अणुसमयं परिहायई ओसप्पिणिकालदोसेण ॥ कोहमयमायलोभा ओसन्नं वड्ढए य मणुआणं । कूडतुलकूडमाणा तेणऽणुमाणेण सव्वंपि ॥ विसमा अज्जतुलाओ विसमाणि य जणवसु माणाणि । विसमा रायकुलाई तेण उ विसमाई वासाई ॥ विसमेसु अ वासेसु हुंति असाराई ओसहिबलाई । ओसहिदोब्बलेण य आउं परिहायड़ नराणं” ॥
बकुशाश्च कुशीलाश्च, स्युर्द्विधैवात्र साधवः । न स्युः पुलाकनिर्ग्रन्थस्नातकाः कालदोषतः ॥ ६९ ॥ यस्यातिचारपङ्केन, चारित्रं बकुशं भवेत् । बकुशः श्रमणः स स्यात्, बकुशं नाम कर्बुरम् ॥ ७० ॥ स च द्विधोपकरणदेहातिचारभेदतः । आद्यस्तत्रर्त्तुबद्धेऽपि, काले निर्णेक्ति चीवरम् ॥ ७१ ॥ परिधत्ते विभूषायै, श्लक्ष्णं सारं तदीहते । दण्डपात्रादिकं मृष्टं, कृतशोभं बिभर्त्ति च ॥ ७२ ॥ मात्राधिकं चेहते तत्, बकुशोऽयमिहादिमः । अन्यस्तु नखकेशादि, विना कार्यं विभूषयन् ॥ ७३ ॥ कुशो द्विविधोऽप्येष स्वस्येच्छति परिच्छदम् । पाण्डित्यादियश: काङ्क्षी, सुखशीलः क्रियालसः ॥ ७४ ॥ तथोक्तं पञ्चनिर्ग्रन्थ्यां-“तह देससव्वछेयारिहहिं सबलेहिं संजुओ बउसो । मोहक्खयत्थमम्बुट्ठिओ य सुत्तंमि भणियं च ॥ उवगरणदेहचुक्खा सिद्धीजसगारखा सिया निच्चं । बहुसबलछेयजुत्ता निग्गंथा बाउसा भणिया ” ॥ [ श्लोक - १९ - २०]
शीलं यस्येह चारित्रं, कुत्सितं स कुशीलकः । प्रतीसेवाकषायाभ्यां द्विविधः स प्रकीर्त्तितः ॥ ७५ ॥ द्वैधोऽप्ययं पञ्चविधो, ज्ञानदर्शनयोर्भवेत् । तपश्चारित्रयोश्चैव यथासूक्ष्मे च तादृशः ॥ ७६ ॥ स ज्ञानादिकुशीलो यो, ज्ञानादीनुपजीवति । यथासूक्ष्मस्तु स स्याद्यः प्रीयते स्वप्रशंसया ॥ ७७ ॥ ज्ञानादिषु कुशीलाः स्युः, पञ्चामी प्रतिसेवया । कषायतोऽथ ज्ञानादिकुशीलान् ब्रूमहे परान् ॥ ७८ ॥ यः कषायैः संज्वलनैस्तपो ज्ञानं च दर्शनम् । अनुयुङ्क्ते कषायेण, स ज्ञानादिकुशीलकः ॥ ७९ ॥ शापं यच्छंश्च चारित्रकुशीलः स्यात्कषायतः । यथासूक्ष्मश्च मनसा, यः क्रोधादिकषायकृत् ॥ ८० ॥