________________
656
वसुदत्तस्य जीवो यः, श्रीकान्तमवधीत्पुरा । विजयस्य स पुत्रोऽभूच्छंभुराजपुरोधसः ॥ २६३ ॥ रत्नचूडाकुक्षिजन्मा, श्रीभूतिर्नामतः स च । क्रमेण प्राप्ततारुण्यः, पितृभ्यां परिणायितः ॥ २६४ ॥ गुणवत्यथ साऽनर्थमूलं भ्रान्त्वा भवान् बहून् । पुरोधस्तनयस्यास्य, श्रीभूतेरभवत्सुता ॥ २६५ ॥ सरस्वतीकुक्षिजाता, नाम्ना वेगवतीति सा । क्रमेण ववृधे पद्मलतिकेव सरोवरे ॥ २६६ ॥ उत्तारुण्याऽन्यदा सा च, कायोत्सर्गस्थितं मुनिम् । सुदर्शनं जनैः पूज्यमानं वीक्ष्येदमभ्यधात् ॥ २६७ ॥ अयं मुनिर्मया दृष्टः, क्रीडन्नङ्गानया समम् । हास्यात्तयोदितोऽप्येष कलङ्क प्रथितो जने ॥ २६८ ॥ जग्राहाभिग्रहं सोऽपि, शासनन्यत्क्रियाभिया । उत्तीर्णेऽस्मिन् कलङ्केऽहं, पारयिष्यामि नान्यथा ।। २६९ ।। वेगवत्यथ सोत्सूनमुखा दैवतरोषतः । ज्ञातसाधुव्यतिकरैर्जनकाद्यैश्च भत्सिता ॥ २७० ॥ अध्यक्षं सर्वलोकानामित्यूचे रचिताञ्जलिः । निर्दोषोऽप्येष निर्ग्रन्थो, धिग्मया मन्दभाग्यया ।। २७१ ।। अलीकदोषारोपेण दूषितः कृतहास्यया । तत् श्रुत्वा मुदिताः सर्वे, जनास्तं मुनिमस्तुवन् ॥ २७२ ॥ दिव्यानुभावादुल्लाघा, साऽभवद्वेगवत्यपि । निशम्य जैनधर्मं च श्राविकाऽभूत्तदादितः ॥ २७३ ॥ अथ वेगवतीरूपमोहितः शम्भुभूपतिः । ययाचे तत्पिता मिथ्यादृशे तस्मै ददौ न तु ॥ २७४ ॥ ततश्च शम्भुः श्रीभूतिं, हत्वा तां बुभुजे बलात् । भवान्तरेऽहं भूयासं, त्वद्वधायेति साऽशपत् ॥ २७५ ॥ मुक्ता सा शम्भुना दीक्षां जग्राह चरणान्तिके । आर्याया हरिकान्ताया, ब्रह्मलोकमियाय च ॥ २७६ ॥ मिथिलायां ततश्च्युत्वा, सीता नाम महासती । जाता वेगवतीजीवो सा भामण्डलयुग्मजा ।। २७७ ॥ रावणस्य विनाशाय, शम्भुजीवस्य साऽभवत् । मुनेर्मृषाकलङ्कस्य, दानात्तं प्राप सा स्वयम् ॥ २७८ ॥ शम्भुजीवोऽपि संसारे, भ्रामं भ्रामं द्विजोऽभवत् । पार्श्वे विजयसेनर्षेः, प्रभासाख्योऽग्रहीद्व्रतम् ॥ २७९ ॥ कनकप्रभनामानमन्यदा खेचरेश्वरम् । यान्तं सम्मेतयात्रायै, सोऽपश्यत्परमर्द्धिकम् ॥ २८० ॥ ईदृक्समृद्धिर्भूयासमनेन तपसेति सः । कृत्वा निदानमुत्पन्नः, स्वर्गलोके तृतीयके ॥ २८१ ॥ ततश्च्युत्वा हरिस्वप्नसूचितः समभूत्सुतः । कैकसीकुक्षिजो रत्नश्रवसो राक्षसेशितुः ॥ २८२ ॥ भीमेन राक्षसेन्द्रेण, मेघवाहनभूभुजे । पूर्वं प्रदत्तो यो हारो, नवमाणिक्यनिर्मितः ॥ २८३ ॥ नागानां च सहस्रेण, रक्षितो निधिराजवत् । अनीशैर्वोढुमखिलैः, पूर्वजैः पूजितः क्रमात् ॥ २८४ ॥ तं च हारं स बालोऽपि, न्यधात्कण्ठे कराहृतम् । मुखैस्तद्रत्नसंक्रान्तैः सोऽभूद्दशमुखाह्वयः ॥ २८५ ॥ त्रैलोक्यकण्टकं चैनं, वाली निर्जित्य संगरे । वैराग्येण प्रवव्राजाकार्षीच्च विविधं तपः ॥ २८६ ॥ तं पुष्पक विमानाधिरूढो दशमुखो व्रजन् । अष्टापदाचलेऽपश्यत्प्रतिमास्थं स्खलद्गतिः ॥ २८७ ॥ दृष्ट्वा च वालिनं क्रुद्धोऽवादीदेवं दशाननः । निर्जित्य मां भयादेव, दम्भेन व्रतमग्रहीः ॥ २८८ ॥