________________
654
ततो मृत्वा प्राणतेऽभूद्देवश्च्युत्वा ततः पुनः । अभूत्पूरि द्वावत्यां, ब्रह्मभूपोमयोः सुतः ॥ २१५ ॥ स च सप्ततिचापोच्चो, द्विपृष्ठ इति नामतः । द्वासप्तत्यब्दलक्षायुर्विजयाख्यबलानुजः ॥ २१६ ॥ इति द्विपृष्ठः ॥ धनदत्तनृपो द्यूते, बलिभूपेन निर्जितः । सुदर्शनगुरोः पार्श्वे, प्रव्रज्यां प्रतिपन्नवान् ॥ २१७ ॥ स च तीव्रं तपः कुर्वन्, श्रावस्त्यां विहरन् गतः । संस्मृतप्राक्तनद्वेषी, तत्र क्रोधवशंवदः ।। २१८ ॥ बलिभूपवधाय स्यामिति कृत्वा निदानकम् । उत्पन्नो लान्तके कल्पे, ततश्च्युत्वा स्थितिक्षये ॥ २१९ ॥ रुद्रो राजा द्राखत्यां, पृथिवी स्त्री तयोः सुतः । स्वयंभूर्वासुदेवोऽभूत्तृतीयो भूरिविक्रमः ॥ २२० ॥ स षष्टिवर्षलक्षायुः, षष्टिचापसमुच्छ्रितः । अनुजो भद्रसंज्ञस्य, बलदेवस्य कीर्त्तितः ॥ २२१ ॥ इति स्वयंभूः ॥ समुद्रदत्तः प्राव्राजीत्, हृतायां निजयोषिति । श्रेयांसगुरुपादान्ते, प्रव्रज्योग्रं तपोऽतनोत् ॥ २२२ ॥ चक्रे वधाय स्त्रीहर्तुः, श्रावस्त्यां स निदानकम् । मृत्वोत्पन्नः सहस्रारे, ततश्च्युत्वाऽऽयुषः क्षये ॥ २२३ ॥ द्वावत्यां नृपः सोमः, सीता राज्ञी तयोः सुतः । पुरुषोत्तमनामाऽभूद्वासुदेवस्तुरीयकः ॥ २२४ ॥ स त्रिंशद्वर्षलक्षायुः, पञ्चाशद्धनुरुच्छ्रितः । अनुजः सुप्रभाख्यस्य, बलदेवस्य कीर्त्तितः ॥ २२५ ॥ इति पुरुषोत्तमः ।
सेवालनामा भूपालो, रणे वैरिपराजितः । कृष्णाख्यस्य गुरोः पार्श्वे, वैराग्यादग्रहीद्व्रतम् ॥ २२६ ॥ निदानं सोऽरिघाताय, पुरे राजगृहेऽकरोत् । माहेन्द्रे च समुत्पन्नः, स्वर्गे च्युत्वा ततः पुनः ॥ २२७ ॥ शिवो राजाऽम्मका राज्ञी, नगरेऽश्वपुराह्वये । ख्यातः पुरुषसिंहोऽभूत्सनयस्तनयस्तयोः ॥ २२८ ॥ अयं च पञ्चचत्वारिंशत्कोदण्डसमुच्छ्रितः । तथा दशाब्दलक्षायुः ख्यातः सुदर्शनानुजः ॥ २२९ ॥ इति पुरुषसिंहः ।
प्रियमित्रोऽपि भार्यायां, हृतायामाददे व्रतम् । श्रीगङ्गगुरुपादान्ते, काकन्द्यां च गतोऽन्यदा ।। २३० ॥ निदानमकरोत्तत्र, प्रियाहर्तुर्वधाय सः । मृत्वोत्पन्नो ब्रह्मलोके, ततः पूर्णस्थितिश्च्युतः ॥ २३१ ॥ लक्ष्मीवत्याः कुक्षिरत्नं, महाशिवनृपात्मजः । पुरुषपुण्डरीकाख्योऽभवच्चक्रपुरे हरिः ॥ २३२ ॥ पञ्चषष्टिसहस्राब्दजीव्यानन्दबलानुजः । एकोनत्रिंशतं तुङ्गश्वापान्ययमुदीरितः ॥ २३३ ॥ इति पुरुषपुण्डरीकः ।
राजाङ्गजोऽभूल्ललितमित्रः स क्ष्मापपर्षदि । राज्यायोग्योऽयमित्यूचे, मन्त्रिणा भूपतेः पुरः ॥ २३४ ॥ राज्ञोऽपमाने जातेऽथ, भूपभूराददे व्रतम् । सागरस्य गुरोः पार्श्वे, मिथिलायां गतोऽन्यदा ॥ २३५ ॥ वधाय मन्त्रिणस्तस्य, निदानं चकृवानथ । सौधर्मे त्रिदशः सोऽभूत्संपूर्णस्थितिकस्ततः ॥ २३६ ॥