________________
652
सकुटुंबं द्विजं चक्री, स्वं भोजनमभोजयत् । ततः सर्वं स्मरोन्मत्तं तत्कुटुम्बमभून्निशि ॥ १६७ ॥ मातृपुत्रसुतावप्तृस्नुषाश्वशुरभेदमुक् । तत्कुटुम्बं निशां सर्वामप्रवर्त्तत मैथुने ॥ १६८ ॥ ततस्त्रपातुरस्त्यक्त्वा, कुटुंबं निर्ययौ बहिः । विप्रोऽजानन् निजं दोषं, चक्रिणि द्वेषमुद्वहन् ॥ १६९ ॥ कञ्चित्काणीकृताश्वत्थपत्रं कर्करिकाकणैः । ऐक्षत क्वाप्यजापालं, सूक्ष्मवेधकृतश्रमम् ॥ १७० ॥ चक्रिणं शिक्षयाम्यद्य, मत्कुटुंबविडम्बिनम् । ध्यात्वेति तं वशीचक्रे, स द्रव्यैर्दक्षिणागतैः ॥ १७१ ॥ धृतच्छत्रो गजारूढो, योऽयमेति चमूवृतः । विनाशयेर्दृशौ तस्य, द्रुतं कर्कशकर्करैः ॥ १७२ ॥ स कुड्यान्तरितश्चक्रवर्त्तिपापैरिवेरितः लघुहस्तस्तथाकार्षीत्, पार्श्वस्थेषु सुरेष्वपि ।। १७३ ॥ जुष्टः सुरसहस्राभ्यामंसस्थाभ्यां नृनिर्जरः । पामरेणान्धलीचक्रे, क्षीणे पुण्ये वृथा बलम् ॥ १७४ ॥ तथोक्तं- “प्रतिकूलतामुपगते हि विधौ, विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्त्तुरभून्न पतिष्यतः करसहस्रमपि ॥
१७५ ॥
॥
१७७ ॥
ततश्च धृतो नश्यन्नजापालश्चक्रियोधैरुदायुधैः । अदर्शयत्ताड्यमानो, विप्रं तत्र प्रयोजकम् ॥ कुद्धेन चक्रिणाऽघाति, स विप्रः सान्वयस्तथा । पुरोहितादयोऽन्येऽपि, मूलादुन्मूलिता द्विजाः तथाप्यशान्तकोपेन, मंत्रीत्यूचेऽथ चक्रिणा । ढौकय स्थालमेकैकं नित्यं विप्राक्षिभिर्भृतम् ॥ श्लेष्मातकफलैः पूर्णं, सोऽपि पात्रमढौकयत् । स्पृशन् विप्राक्षिबुद्धया तन्मुमुदेन्तर्दुराशयः ॥ १७८ ॥ अनुभूयान्धतामेवं क्रूरः षोडशवत्सरीम् । विपद्य रौद्रध्यानेन, सप्तमं नरकं ययौ ।। १७९ ।। सप्तवर्षशतायुष्कः, सप्त चापानि चोच्छ्रितः । चक्रभृत्सप्तमः षष्ठात् सप्तमीमगमद्भुवम् ॥ १८० ॥ इति ब्रह्मदत्तः ॥ गोत्रतः काश्यपाः सर्वे, वर्णतः स्वर्णकान्तयः । अमी भुवनविख्याताश्चक्रिणो द्वादशोदिताः ॥ १८१ ॥ पट्टराज्ञ्यो द्वादशानां, चक्रिणां द्वादशाभवन् । स्त्रीरत्नाख्याश्चतुर्थाङ्ग, सुभद्राद्या इमाश्च ताः ॥ १८२ ॥ “पढमा होइ सुभद्दा भद्द सुणंदा जया य विजया य । कण्हसिरि सूरसिरि पउमसिरि वसुंधरा देवी लच्छिमती कुरुमती इत्थिरयणाण णामाई ।”
तृतीयश्च चतुर्थश्च गतौ स्वर्गं तृतीयकम् । अष्टमश्च द्वादशश्च सप्तर्मी जग्मतुर्भुवम् ॥ १८३ ॥ शेषाश्च चक्रिणो येऽष्टौ गतास्ते परमं पदम् । प्राव्राजीद्भरतस्तत्र, नृपायुतपरिच्छदः ॥ १८४ ॥ भूपतीनां सहस्रेण, विरक्तेनान्विताः परे । प्राव्रजंश्चक्रिणः सर्वे, विनाऽत्र द्वादशाष्टौ ॥ १८५ ॥ ऋषभाजितयोर्वारे, भरतः सगरः क्रमात् । जातौ तृतीयतुर्यौ च धर्मशान्त्योरिहान्तरे ॥ १८६ ॥ त्रयश्च चक्रिणोऽर्हन्तः शान्त्याद्याः स्वयमेव हि । अरमल्ल्योरन्तराले, सुभूमश्चक्रवर्त्यभूत् ॥ १८७ ॥ नवमोऽभून्महापद्मो, मुनिसुव्रतवारके । दशमो नमिवारेऽभून्नमिनेम्यन्तरे जयः ॥ १८८ ॥
१७६ ॥