________________
650
इति महापद्मः । महाहरिरभूद्राजा, काम्पील्यपुरभूपतिः । तस्य मेराऽभिधा भार्या, हरिषेणः सुतस्तयोः ॥ ११८ ॥ साधिताशेषषट्खण्डो, दशमश्चक्रवर्त्यसौ । कदाचिच्चिन्तयामास, चतुरश्चतुरोचितम् ॥ ११९ ॥ मया समृद्धिलब्धेयं, प्राग्भवाचरितैः शुभैः । ततोऽमुत्र हितं कुर्वे, भविष्यद्भद्रसिद्धये ॥ १२० ॥ कक्षीकृत्य ततो दीक्षां, तपः कृत्वा च दुष्करम् । अवाप्य केवलज्ञानं, स लेभे शाश्वतं सुखम् ॥ १२१ ॥ दशवर्षसहस्रायुः, स्वर्णकान्तिर्महामतिः । कोदण्डान्युच्छ्रितः पञ्चदशासौ कीर्तितः श्रुते ॥ १२२ ॥
इति हरिषेणः ॥ अश्वसेनाभिधोऽथासीद्राजा राजगृहे पुरे । वप्रा तस्य प्रिया प्रेष्ठा, जयनामा तयोः सुतः ॥ १२३ ॥ एकादशश्चक्रवर्ती, सोऽन्यदा भावयन् हृदि । भवस्वरूपं संप्राप्तवैराग्यो जगृहे व्रतम् ॥ १२४ ॥ स द्वादशधनुस्तुङ्ग, प्राप्य केवलमुज्ज्वलम् । आयुर्वर्षसहस्राणि, त्रीण्यापूर्य ययौ शिवम् ॥ १२५ ॥
इति जयः ॥ ब्राह्वयोऽभवद्राजा, काम्पील्यपुरभूपतिः । चुलनी दयिता तस्य, ब्रहादत्तस्तयोः सुतः ॥ १२६ ॥ अस्य च ब्रहाराजस्य, चत्वारः सुहृदोऽभवन् । कणेरदत्तः कुरुराट्, काशीश: कटको नृपः ॥ १२७ ॥ दीर्घराजः कोशलेशः, पुष्पचूलोङ्गभूपतिः । पञ्चापि वर्षवारेण, तेऽवसन्नेकपत्तने ॥ १२८ ॥ द्वादशाब्दं वयः प्राप्ते, ब्रहादत्ते पिताऽस्य च । व्यपद्यत शिरःशूलात्, शेषैमित्रैस्ततः क्रमात् ॥ १२९ ॥ बालस्य मित्रपुत्रस्य, पालनायानुवत्सरम् । एकैकेन स्थेयमिति, प्रतिज्ञातं हितावहैः ॥ १३०॥ अथ तत्र स्थितो दीर्घराजो रक्तामरीरमत् । चुलनी राज्यसर्वस्वैः, सहोदूढामिव स्त्रियम् ॥ १३१ ॥ मन्त्री च ब्रहाराजस्य, धनुर्नामा व्यचिन्तयत् । मार्जार इव दुग्धस्य, राज्यस्यास्यैष रक्षकः ॥ १३२ ॥ मित्रपत्नी रमयता, यशो गमयता निजम् । धिगनेन ब्रहामैत्री, शातिता लज्जया सह ॥ १३३ ॥ मैवं स्त्रीराज्यलुब्धोऽयं, ब्रहादत्तं वधीदिति । धनुर्वरधनुं पुत्रं, तद्रक्षायै न्ययोजयत् ॥ १३४ ॥ ब्रहादत्तोऽपि विज्ञाय, दीर्घराजकुचेष्टितम् । दृष्टान्तैर्विविधैः स्पष्टं, स्वाभिप्रायमदीदृशत् ॥ १३५ ॥ संयोज्य वायसं पिक्या, तौ हत्वा चैवमब्रवीत् । एताविव मया घात्यौ, नीतिविप्लवकारिणौ ॥ १३६ ॥ अहं काकस्त्वं पिकीति, बालो न्यायमदर्शयत् । जारेण चुलनीत्युक्ता, प्राह बालाबिभेषि किं ?॥ १३७ ॥ एकदा भद्रहस्तिन्या, संयोज्य मृगहस्तिनम् । ऊचाने पूर्ववद्बाले, राजी दीर्घा जगाविति ॥ १३८ ॥ नावयोर्जीवितं कान्ते, जीवत्यस्मिन् सुते तव । तदस्मै यदि वा प्रेम्णे, देयोऽवश्यं जलाञ्जलिः ॥ १३९ ॥ एतादृग्दुर्वधः पुत्रस्तादृक् प्रेमापि दुस्त्यजम् । इति दोलावलम्बिन्यां, चुलन्यामयमब्रवीत् ॥ १४० ॥ नाहं न च त्वं सत्यस्मिन्, मत्सत्त्वे बहवोङ्गजाः । व्यापाद्योऽयमवश्यं तन्मां जीवन्तं यदीच्छसि ॥ १४१ ॥