________________
645
साधिताशेषषट्खण्डः, स चादर्शगृहेऽन्यदा । निरङ्गलीयकां पश्यन्नङ्गुली पर्यभावयत् ॥३॥ शरीरासारतां द्राक् च, लेभे केवलमुज्ज्वलम् । प्रदत्तसाधुवेषश्च, शक्रणागत्य वन्दितः ॥ ४॥ सहस्रर्दशभी राज्ञां, सेवितः स्वीकृतव्रतैः । विहृत्य लक्षं पूर्वाणामवाप परमं पदम् ॥ ५ ॥
इति भरतः॥ अयोध्यायां नगर्यां च, द्वितीयश्चक्रवर्त्यभूत् । स्वर्णवर्णः सार्द्धचतुर्धनुःशतसमुच्छ्रितः ॥६॥ दासप्ततिपूर्वलक्षजीवितः सगराहयः । सुमित्रविजयक्ष्मापयशोमत्योस्तनूद्भवः ॥७॥ अजितस्याहंतश्चासौ, पितृव्यतनयोऽभवत् । यतः सुमित्रविजयो जितशत्रुश्च सोदरौ ॥८॥ सोऽपि स्वपुत्रमरणप्राप्तवैराग्यवासनः । अजितस्यार्हतः पार्श्वे, परिव्रज्य शिवं ययौ ॥९॥
इति सगरः ॥ अभून्नगर्यां श्रावस्त्यां, समुद्रविजयो नृपः । भद्रा प्रियतमा तस्य, मघवा तनयस्तयोः ॥ १० ॥ द्विचत्वारिंशदध्यर्द्धा, धनुषां वपुरुच्छ्रयः । लक्षाणि पञ्चवर्षाणामायुष्कं चास्य कीर्तितम् ॥ ११ ॥ संसारानित्यतां ध्यायन्, जातवैराग्यवासनः । सोऽगाद्गृहीतचारित्रः, स्वर्गलोकं तृतीयकम् ॥ १२ ॥
इति मघवा ॥ कुरुजङ्गलदेशे च, हस्तिनागपुरे पुरे । कुरुवंशे महीशोऽभूदश्वसेनाद्वयो महान् ॥ १३ ॥ सहदेवी च तद्भार्या, शीलसौभाग्यशालिनी । सनत्कुमारस्तत्पुत्रश्चतुर्थश्चक्रवर्त्यभूत् ॥ १४ ॥ अद्ध्यर्द्धान्येकचत्वारिंशद्धनूंषि स उच्छ्रितः । तथा त्रिवर्षलक्षायुर्जगदुत्कृष्टरूपवान् ॥१५॥ तस्मिन्नवसरे कोऽपि, सौधमेन्द्रस्य पर्षदि । ईशानस्वर्गवास्तव्यः, सङ्गमाख्यः सुरोऽविशत् ॥१६॥ तत्तेजसा सुराः सर्वे, प्रत्यूषे तारका इव । तार्किका इव वा जैने, बभूवुर्गततेजसः ॥ १७ ॥ गते तस्मिन् सुरैः सर्वैः, पृष्टः सौधर्मनायकः । जगावयं भवे पूर्वे, भावितात्माऽभवन्मुनिः ॥ १८ ॥ आचामाम्लवर्द्धमानं, तत्राकार्षीत्तपो महत् । तेजस्तदनुभावेन, बिभर्त्ययमनुत्तरम् ॥१९॥ स्वामिन्नन्यस्य कस्यापि, रूपमस्त्यधुनेदृशम् । इति पृष्टः सुराधीशः, शशंसैवमसंशयः ॥ २० ॥ रूपं सनत्कुमारस्य, वर्त्तते चक्रवर्तिनः । देवेभ्योऽप्यधिकं नास्मादृशां वचनगोचरः ॥ २१ ॥ अश्रद्दधानौ तत्कौचिद्धिप्रीभूयागतौ सुरौ । रूपं दिदृक्षु चक्री च, तदासीत्स्नानवेश्मनि ॥ २२ ॥ अभ्यक्तस्त्यक्तशृङ्गारो, रूपमालोक्य विस्मितौ । तौ प्रत्युवाच द्रष्टव्यं, रूपं मयि सभास्थिते ॥ २३॥ नत: स्नाताऽलङ्कृतश्च, दृष्टः सिंहासने स्थितः । ताभ्यां विषण्णचित्ताभ्यां, तेन पृष्टे च कारणे ॥ २४ ॥ रोगोत्पत्तिं जगदतुस्तत: स्वीकृत्य संयमम् । सहते स्म गदान् सप्त, सप्तवर्षशतावधि ॥ २५ ॥