SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 49 लक्षयोजनमानो दृगविषयः परमस्तु यः । अभास्वरं पर्वतादि, वस्त्वपेक्ष्य स निश्चितः ॥ ५०५ ॥ स्याद्भास्वरं तु सूर्यादिवस्त्वपेक्ष्याधिकोऽपि यः । व्याख्यानतो विशेषार्थप्रतिपत्तिरियं किल ॥ ५०६ ॥ इदं विशेषावश्यकेऽर्थतः ॥ अनन्ताणूद्भवान्येतानीन्द्रियाण्यखिलान्यपि । असंख्येयप्रदेशावगाढानि निखिलानि च ॥ ५०७ ॥ स्तोकावगाहा दृक् श्रोत्रघ्राणे संख्यगुणे क्रमात् । ततोऽसंख्यगुणा जिह्वा, संख्यजं स्पर्शनं ततः ॥ ५०८ ॥ स्तोकप्रदेशं नयनं, श्रोत्रं संख्यगुणाधिकम् । ततोऽसंख्यगुणं घ्राणं, जिह्वाऽसंख्यगुणा ततः ॥ ५०९ ॥ ततोऽप्यसंख्यगुणितप्रदेशं स्पर्शनेन्द्रियम् । इत्यल्पबहुतैषां स्यादवगाहप्रदेशयोः ॥ ५१० ॥ तुर्योपाङ्गे तु श्रोत्राक्षिनासिकं ढे ढे, जिद्वैका स्पर्शनं तथा । एवं द्रव्येन्द्रियाण्यष्टौ, भावेन्द्रियाणि पंच तु ॥ ५११ ॥ सर्वेषां सर्वजातित्वे, द्रव्यतो भावतोऽपि च । अतीतानीन्द्रियाणि स्युरनन्तान्येव देहिनाम् ॥ ५१२ ॥ विनाऽनादिनिगोदेभ्यो, ज्ञेयमेतत्तु कोविदः । स्वजातादेव तेषां तु, तान्यतीतान्यनन्तश: ॥ ५१३ ॥ किंच - येषामनन्त: कालोऽभूनिर्गतानां निगोदतः । तेषामपेक्षया ज्ञेयमेतच्छ्रुतविशारदैः ॥ ५१४ ॥ एवमन्यत्रापि यथासम्भवं भाव्यम् ॥ एकादीनि सन्ति पञ्चान्तानि भावेन्द्रियाणि च । एकद्धित्रिचतुःपञ्चेन्द्रियाणां स्युर्यथाक्रमम् ॥ ५१५ ॥ भावीनि नैव केषाञ्चिद्वर्त्तन्ते मुक्तियायिनाम् । केषाञ्चित् पञ्च षट् सप्त, संख्यासंख्यान्यनन्तशः ॥ ५१६ ॥ सिद्ध्यतां भाविनि भवे, नरनारकनाकिनाम् । पञ्चाक्षतिर्यक्पृथ्यम्बुद्रूणां पञ्च जघन्यतः ॥ ५१७ ॥ पृथ्यादिजन्मान्तरितमुक्तीनां तु मनीषिभिः । षट्सप्तप्रमुखाण्येवं, भाव्यानि प्रोक्तदेहिनाम् ॥ ५१८ ॥ संख्येयानि च तानि स्युः, संख्यातभवकारिणाम् । असंख्येयान्यनन्तान्यसंख्येयानन्तजन्मनाम् ॥ ५१९ ॥ रिष्ठामघामाघवतीनारकाणां च युग्मिनाम् । नृणां तिरश्वां भावीनि, दश तानि जघन्यतः ॥ ५२० ॥ पञ्चाक्षेभ्योऽन्यत्र नैषामुत्पत्ति प्यनन्तरे । भवे मुक्तिस्तत एषां, दशोक्तानि जघन्यतः ॥ ५२१ ॥ वाय्वग्निविकलाक्षाणां, जघन्यतो भवन्ति षट् । ६मादिजन्मान्तरितैषां, मुक्तिर्नानन्तरं यतः ॥ ५२२ ॥ एकदित्रिचतुःपञ्चेन्द्रियाणां स्युरनुक्रमात् । द्रव्येन्द्रियाणि सन्त्येकं ढे चत्वारि षडष्ट च ।। ५२३ ॥ भविष्यन्ति न केषाञ्चित्केषाञ्चिदष्ट वा नव । दश षोडश केषाञ्चित्संख्यासंख्यान्यनन्तशः ॥ ५२४ ॥ भावना प्राग्वत् ॥ नारकस्य नारकत्वे, भावतो द्रव्यतोऽपि च । तान्यतीतान्यनन्तानि, सन्ति पञ्चाष्ट च स्फुटम् ॥ ५२५ ॥ १. तद० प्र० । २ च प्र० । ३. लब्धीन्द्रियापेक्षया ४. गोदिभ्यो प्र० ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy