SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अन्येन्द्रियापेक्षया च, श्रवणं पटुशक्तिकम् । ततः स्पृष्टानेव शब्दान् गृह्णातीत्युचितं जगुः ॥ ४९६ ॥ श्रुतेर्यत्प्राप्यकारित्वे, बौधोक्तं स्पर्शदूषणम् । चंडालशब्दश्रवणादिष्वयौक्तिकमेव तत् ॥ स्पृश्यास्पृश्यविचारो हि, स्याल्लोकव्यवहारतः । नेन्द्रियाणां च विषयेष्वसौ कस्यापि सम्मतः ॥ स्पृष्टार्थग्राहकत्वं यत्, परैरक्ष्णोऽपि कथ्यते । तदयुक्तं तथात्वे हि, दाहः स्याद्बह्यवेक्षणात् ।। ४९७ ।। तथा - काचपात्राद्यन्तरस्थं, दूरादेवेक्ष्यते जलम् । तद्भित्वान्तःप्रवेशे तु जलश्राव: प्रसज्यते ।। ४९८ ।। इत्याद्यधिकं रत्नावतारिकादिभ्योऽवसेयम् । विस्तारभयान्नेह प्रतन्यते । यच्च सिद्धान्ते 'चक्खुफासं हव्यमागच्छइ' इति श्रूयते तत्र स्पर्शशब्देन इन्द्रियार्थसन्निकर्ष उच्यते, तथाहुः ‘सूरिए चक्खुफासं हब्बमागच्छड्' इत्येतज्जम्बूद्वीपप्रज्ञप्तिप्रतीकवृत्तौ । “अत्र च स्पर्शशब्द इन्द्रियार्थसन्निकर्षपरश्चक्षुषोऽप्राप्यकारित्वेन तदसम्भवादिति” ॥ 48 - मेया आत्माङ्गुलैरेव, प्रागुक्तेन्द्रियगोचराः । प्रमाणाङ्गुलमाने स्युर्महीयांसोऽधुना हि ते ।। ४९९ ।। उत्सेधाङ्गुलमाने तु, कथं भरतचक्रिणः । पुर्यादौ स्वाङ्गुलमितनवद्वादशयोजने ॥ ५०० ॥ एकत्र वादिता भम्भा, सर्वत्र श्रूयते जनैः । तस्मादात्माङ्गुलोन्मेया, विषया इति युक्तिमत् ।। ५०१ ।। आह - प्रमाणाङ्गुलजानेकलक्षयोजनसम्मिते । स्वर्विमाने कथं घण्टा, सर्वत्रः श्रूयते सुरैः ॥ ५०२ ॥ त्रैधैरप्यङ्गुलैनैष, विषयो घटते श्रुतेः । द्धितीयोपाङ्गटीकायामस्थोत्तरमवेक्ष्यताम् ॥ ५०३।। थाह तस्यां मेघौघरसितगम्भीरमुधरशब्दायां योजनपरिमण्डलायां सुस्वराभिधानायां घण्टायां त्रिस्ताडितायां सत्यां यत्सूर्याभं विमानं तत्प्रासादनिष्कुटेषु ये आपतिताः शब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानि घण्टाप्रतिश्रुतिशतसहस्राणि घण्टाप्रतिशब्दलक्षास्तैः संकुलमपि जातमभूत् किमुक्तं भवति ? घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गता: शब्दपुद्गलास्तत्प्रतिघाततः सर्वासु दिक्षु विदिक्षु च दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलमपि विमानमनेकयोजनलक्षमानमपि बधिरितमुपजायते इति एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति न परतः, ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छब्दश्रुतिरुपजायते इति यदुच्यते तदपाकृ तमवसे यम् 1 सर्वत्र दिव्यानुभावतस्तथारूपप्रतिशब्दोच्छलने यथोक्तदोषासम्भवात् ॥ - - अपरं च इगवीसं खलु लक्खा, चउतीसं एव तह सहस्साई । तह पंचसया भणिया, सत्तत्तीसाय अस्तििा ॥ इति नयणविसयमाणं, पुक्खरदीवढवासिमणुआणं । पुब्वेण य, अवरेण य पिहं पिहं होइ नायव्वं ॥ [ प्रवचनसारोद्धार श्लो. ११०८ नी टीकार्न्तगत श्लो. १, २ ] एवं च स प्रागुक्तोऽक्षिविषयो, न विसंवदते कथम् । अत्रैतत्सूत्रतात्पर्यं व्याचचक्षे बुधैरिदम् ॥ ५०४ ॥ १. श्रुतेर्यत्प्राप्यकारित्वे, बौद्धोक्तं स्पर्शदूषण् । चण्डालशब्दश्रवणादिष्वयौक्तिकमेव तत् ॥ १ ॥ स्पृश्यास्पृश्यविचारो हि, स्याल्लोकव्यवहारतः । नेन्द्रियाणां च विषयेष्वसौ कस्यापि संमतः ॥ २ ॥ प्र । २. योग्यदेशावस्थितिः यतो ग्रहणम् ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy