SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 47 यथा शरावकं नव्यं, नैवैकेनोदबिन्दुना । क्लिद्यते किन्तु भूयोभिः पतद्भिस्तैर्निरन्तरम् ॥ ४७७ ॥ एवं सुप्तोऽपि नैकेन, शब्देन प्रतिबुध्यते । किन्तु तैः पञ्चषैः कर्णे, शब्दद्रव्यैर्भृते सति ॥ ४७८ ॥ एवं व्यञ्जनावग्रहभावना नन्दीसूत्रे ॥ चक्षुस्त्वप्राप्यकारित्वादङ्गुलसंख्यभागतः । अर्थं जघन्याद्गृह्णाति, ततोऽप्यर्वाक्तरं नतु ॥ ४७९ ॥ तत एवातिपार्श्वस्थं, नैवाज्ञ्जनमलादिकम् । चक्षुः परिच्छिनत्तीति, प्रतीतं सर्वदेहिनाम् ॥ ४८० ॥ तथा-श्रुतिर्द्धादशयोजन्याः, शृणोति शब्दमागतम् । रूपं पश्यति चक्षुः, साधिकयोजनलक्षतः ॥ ४८१ ॥ आगतं नवयोजन्याः, शेषाणि त्रीणि गृह्णते । गन्धं रसमथ स्पर्शमुत्कृष्टो विषयो हायम् ॥ ननु च प्राप्यकारीणि, श्रोत्रादीनीन्द्रियाणि चेत् । पस्तोऽप्यागतान् शब्दादीन् गृह्णन्ति कथं न तत् ? द्वादशयोजनादिर्यो, नियमः सोऽपि निष्फलः । गृह्णाति प्राप्तसम्बन्धं, सर्वमित्येव यौक्तिकम् ॥ अत्रोच्यते ४८२ ॥ ॥ ४८४ ॥ ४८३ ॥ शब्दादीनां पुद्गला ये, परतः स्युः समागताः । तथा मन्दपरीणामास्ते जायन्ते स्वभावत: ।। ४८५ ।। यथा स्वविषयं ज्ञानं, नोत्पादयितुमीशते । स्वभावान्नास्ति शक्तिश्चेन्द्रियाणामपि तद्ग्रहे । ४८६ ॥ ततो विषयनियमो, युक्तोऽयं दर्शितः श्रुते । प्राप्यकारित्वे चतुर्णामिन्द्रियाणां स्थितेऽपि हि ।। ४८७ ॥ किञ्च नास्ति शक्तिश्चक्षुषोऽपि, विषयात्परतः स्थितम् । परिच्छेत्तुं द्रव्यजातं, युक्तस्तस्याप्यसौ ततः ॥ ४८८ ॥ जिह्वाप्राणस्पर्शनानि, त्रीण्यप्येतानि गृह्णते । बद्धस्पृष्टं द्रव्यजातं स्पृष्टमेव परं श्रुतिः ॥ ४८९ ।। यदुक्तम्- “पुठ्ठे सुणेइ सद्दं, रुवं पुण पासइ अपुठ्ठे तु । गंधं रसं च फासं च बद्धपुढं वियागरे” ॥ [विशेषावश्यक ३३६ ] बद्धं तत्रात्मप्रदेशैरात्मीकृतमिहोच्यते । स्पृष्टमालिङ्गितमात्रं ज्ञेयं वपुषि रेणुवत् ॥ ४९० ॥ “बद्धमप्पीकयं पएसेहिं, पुठ्ठे रेणुं व तणुंमि” । इति वचनात् ॥ समेऽपि प्राप्यकारित्वे, चतुर्णामपि नन्वयम् । को विशेषः स्पृष्टबद्धस्पृष्टार्थग्रहणात्मकः ? ।। ४९१ ।। अत्रोच्यते स्पर्शगन्धरसद्रव्यौघानां शब्दव्यपेक्षया । अल्पत्वात् बादरत्वाच्चाभावुकत्वाच्च सत्वरम् ॥ ४९२ ॥ स्पर्शनघ्राणजिह्वानां, मन्दशक्तितयाऽपि च । बद्धस्पृष्टं वस्तुजातं गृह्णन्त्येतानि निश्चितम् ॥ ४९३ ॥ स्पर्शादिद्रव्यसंघातापेक्षया शब्दसंहतिः । बह्वी सूक्ष्मासन्नशब्दयोग्यद्रव्याभिवासिका ॥ ४९४ ॥ तन्निर्वृत्तीन्द्रियस्यान्तर्गत्वोपकरणेन्द्रियम् । स्पृष्ट्वाऽपि सद्यः कुरुतेऽभिव्यक्तिं सा स्वगोचरम् ।। ४९५ ।। १. व्यंजनावग्रहस्य प्राणावानपृथक्त्वमानत्वात् उत्कर्षतः चिन्त्यमिदम् । २. संबन्धे प्र० । ३. विषयनियमः । ४. शब्दसंहतिः । ४
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy