________________
तत: पञ्चाप्युपयोगा भाव्या इति ॥ अङ्गलासंख्येयभागबाहल्यानि जिनेश्वराः । ऊचुः पञ्चापीन्द्रियाणि, बाहल्यं स्थूलता किल ॥ ४५७ ॥ नन्वङ्गलासंख्यभागबहले स्पर्शनेन्द्रिये । खड्गादिघाते देहान्तवेदनानुभवः कथम् ? ॥ ४५८ ॥ अत्रोच्यतेत्वगिन्द्रियस्य विषयः, स्पर्शाः शीतादयो यथा । चक्षुषो रूपमेवं तु, विषयो नास्य वेदना ॥ ४५९ ॥ दुःखानुभवरूपा सा, तां त्वात्माऽनुभवत्ययम् । सकलेनापि देहेन, ज्वरादिवेदनामिव ॥ ४६० ॥ अथ शीतलपानीयपानेऽन्तर्वद्यते कथम् ?। शीतस्पोऽन्तरा कौतस्कुतं स्यात्स्पर्शनेन्द्रिय ? ॥ ४६१ ॥ अत्रोच्यते-सर्वत्राङ्गप्रदेशान्तर्वति त्वगिन्द्रियं किल । भवेदेवेति मन्तव्यं, पूर्वर्षिसम्प्रदायतः ॥ ४६२ ॥
यदाह प्रज्ञापनामूलटीकाकार:- “सर्वप्रदेशपर्यन्तवर्तित्वात्ततोऽभ्यन्तरतोऽपि शुषिरस्योपरि त्वगिन्द्रियस्य भावादुपपद्यतेऽन्तरेपि शीतस्पर्शवेदनानुभव इति” ॥ ततोऽन्तरेऽपि शुषिरपर्यन्तेऽस्ति त्वगिन्द्रियम् । अत: संवेद्यते शैत्यं, कर्णादिशुषिरेष्विव ॥ ४६३ ॥ पृथुत्वमङ्गलासंख्यभागोऽतीन्द्रिवेदिभिः । त्रयाणामपि निर्दिष्टः, श्रवणघ्राणचक्षुषाम् ॥ ४६४ ॥ अङ्गलानां पृथक्त्वं च, पृथुत्वं रसनेन्द्रिये । स्वस्वदेहप्रमाणं च, भवति स्पर्शनेन्द्रियम् ॥ ४६५ ॥ त्वगिन्द्रियं विनाऽन्येषां, चतुर्णां पृथुता भवेत् । आत्माङ्गलेन सोत्सेधाङ्गलेन स्पर्शनस्य तु ॥ ४६६ ॥ ननूत्सेधाङ्गलेनैव, मितो देहो भवेत्ततः । मातुं तेनैव युज्यन्ते, तद्गतानीन्द्रियाण्यपि ॥ ४६७ ॥ आत्माङ्गलेन चत्वायोत्सेधिकेनैकमिन्द्रियम् । तानीत्थं मीयमानानि, कथमौचित्यमियति ॥ ४६८ ॥ अत्रोच्यते-जिहादीनां पृथुलत्वे, औत्सेधेनोररीकृते । त्रिगव्यूतनरादीनां, न स्याद्विषयवेदिता ॥ ४६९ ॥ तथाहि-त्रिगव्यूतादिमनुजाः, षड्गव्यूतादिकुञ्जराः । स्वस्वदेहानुसारात्स्युः, विस्तीर्णरसनेन्द्रियाः ॥ ४७० ॥ तेषामान्तरनिर्वृत्तिरूपं चेद्रसनेन्द्रियम् । उत्सेधाङ्गलपृथक्त्वमितं स्यादल्पकं हि तत् ॥ ४७१ ॥ न व्याप्नुयात्सर्वजिह्वां, ततोऽतिविदितोऽनया । सर्वात्मना रसज्ञानव्यवहारो न सिद्ध्यति ॥ ४७२ ॥ गन्धादिव्यवहारोऽपि, भावनीयो दिशाऽनया । तत आत्माङ्गलेनैव, पृथुत्वं रसनादिषु ॥ ४७३ ॥ जघन्यतोऽक्षिवर्जाण्यङ्गलासंख्येयभागतः । गृह्णान्ति विषयं चक्षुस्त्वङ्गलसंख्यभागतः ॥ ४७४ ॥ अयं भावःप्राप्यार्थावच्छेदकत्वात्, श्रवणादीनि जानते । अङ्गुलासंख्येयभागादपि शब्दादिमागतम् ॥ ४७५ ॥ चतुर्णामत एवैषां, व्यञ्जनावग्रहो भवेत् । दृष्टान्तान्नव्यमृत्पात्रशयितोद्भोधनात्मकात् ॥ ४७६ ॥
१. भवितव्यमत्र अन्तशब्देन २. उदरादिषु, गर्भाशयादौ तु न । ३. रसनेन्द्रियं ४. प्रसिद्धः ५. गृहते प्र०