________________
45
रभ्यन्तरा निवृत्ति:, तेष्वेवात्मप्रदेशेष्विन्द्रियव्यपदेशभाग् यः प्रतिनियतसंस्थान निर्माणनाम्ना पुद्गलविपाकिना वर्द्धकीसंस्थानीयेनारर्चितः कर्णशष्कुल्यादिविशेष:, अङ्गोपाङ्गनाम्ना तु निष्पादितरति बाह्यनिर्वृत्तिः, तस्या एव निर्वृत्तेः द्विरूपायाः येनोपकारः क्रियते तदुपकरणम् । तच्च इन्द्रियकार्यं सत्यामपि निवृत्तावनुपहतायामपि मसूराद्याकृतिरूपायां निर्वृत्तौ तस्योपघातात् न पश्यति, तदपि निर्वृत्तिवत् द्विधा ” इति ॥
एवं च प्रज्ञापनावृत्त्यभिप्रायेण स्वच्छतरपुद्गलात्मिका अभ्यन्तरनिर्वृत्तिः । प्रथमाङ्गवृत्त्यभिप्रायेण तु शुद्धात्मप्रदेशरूपा अभ्यन्तरनिवृत्तिः इति ध्येयम् ॥ इदमान्तरनिर्वृत्तेर्न तूपकरणेन्द्रियम् । अर्थान्तरं शक्तिशक्तिमतोर्भेदात् कथञ्चन ।। ४४५ ।। कथञ्चित् भेदश्च
तस्यामान्तरनिर्वृत्तौ, सत्यामपि पराहते । द्रव्यादिनोपकरणेन्द्रियेऽर्थाज्ञानदर्शनात् ॥ ४४६ ॥ इति द्रव्येन्द्रियम् ॥
४४७ ॥
॥
४४८ ॥
॥
४४९ ॥
द्विधा भावेन्द्रियमपि लब्धितश्चोपयोगतः । यथाश्रुतमथो वच्मि, स्वरूपमुभयोरपि ॥ जन्तोः श्रोत्रादिविषयस्तत्तदावरणस्य यः । स्यात् क्षयोपशमो लब्धिरूपं भावेन्द्रियं हि तत् स्वस्वलब्ध्यनुसारेण, विषयेषु य आत्मन: । व्यापार उपयोगाख्यं भवेद्भावेन्द्रियं च तत् उपयोगेन्द्रियं चैकमेकदा नाधिकं भवेत् । एकदा ह्युपयोगः स्यादेक एव यदङ्गिनाम् ।। ४५० ।। तथाहि इन्द्रियेणेह येनैव, मनः संयुज्यतेऽङ्गिनः । तदेवैकं स्वविषयग्रहणाय प्रवर्त्तते ।। ४५१ ॥ सशब्दां सुरभिं मृद्धीं, खादतो दीर्धशष्कुलीम् । पञ्चानामुपयोगानां, यौगपद्यस्य यो भ्रमः ।। ४५२ ।। स चेन्द्रियेषु सर्वेषु, मनसः शीघ्रयोगतः । सम्भवेद्युगपत्पत्रशतवेधाभिमानवत् ॥ ४५३ ॥ अन्यथा तूपयोगौ द्वौ, युगपन्नार्हतोऽपि चेत् । छद्मस्थानां पञ्च तर्हि, सम्भवेयुः कथं सह ? ॥ ४५४ ॥
तदुक्तं प्रथमाङ्गवृत्तौ–आत्मा सहति मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम शीघ्र: । योग्योऽयमेव मनसः किमगम्यमस्ति, यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा ॥
किंच
एकाक्षादिव्यवहारो, भवेत् द्रव्येन्द्रियैः किल । अन्यथा बकुलः पञ्चाक्षः स्यात् पञ्चोपयोगतः ॥ ४५५ ॥ यदुक्तम् – “पंचिन्दिओ उ बउलो नरोव्व सव्वोवलद्धिभावाओ । तहवि न भणइ पंचिन्दिओत्ति दव्विन्दियाभावा” ॥ रणन्नूपुरशृङ्गारचारुलोलेक्षणा मुखात् । निर्यत्सुगन्धिमदिरागण्डुषादेष पुष्यति ॥ ४५६ ॥
१. रचितुमारब्धः २. समापितः । ३. निर्वृत्तिरङ्गोपाङ्गनामनिर्वर्त्तितानीन्द्रियद्वाराणि कर्मविशेषसंस्कृताः शरीरप्रदेशाः निर्माणनामाङ्गोपाङ्गप्रत्यया मूलगुणनिवर्त्तनेत्यर्थः । उपकरणं बाह्यमभ्यन्तरं च निर्वर्त्तितस्यानुपघातानुग्रहाभ्यामुपकारीति (तत्त्वार्थभाष्यं अ०२ - सू. १७) ४. कर्मनिर्वर्त्तितत्वाभिधानाच्चिन्त्यमिदं, शरीरावयवात्मप्रदेशानामभेदापेक्षया स्यात्समाचीनता । ५. स त्विन्द्रियेषु प्र० । ६. तत्तज्जातिनाम्नेति देवेन्द्रसूर्याद्याः, छिन्ननासान्धादीनां तेन न काचित्क्षतिः ।