________________
मोहधर्मसुखदुःखजुगुप्साशोकनामभिः । दश ताः षड्भिरेताभिः, सह षोडश वर्णिताः ॥ ४२६ ॥ अथवा त्रिविधाः संज्ञाः, प्रथमा दीर्घकालिकी । द्वितीया हेतुवादाख्या, दृष्टिवादाभिधा परा ॥ ४२७ ॥ सुदीर्घमप्यतीतार्थं, स्मरत्यथ विचिन्तयेत् । कथं नु नाम कर्त्तव्यमित्यागामिनमाद्यया ॥ ४२८ ॥ तथा विचिन्त्येष्टानिष्टच्छायातपादिवस्तुषु । द्वितीयया स्वसौख्यार्थं, स्यात्प्रवृत्तिनिवृत्तिमान् ॥ ४२९ ॥ भवेत्सम्यग्दृशामेव, दृष्टिवादोपदेशिकी । एतामपेक्ष्य सर्वेऽपि, मिथ्यादृशो ह्यसंज्ञिनः ॥ ४३० ॥ सुरनारकग त्थजीवानां दीर्घकालिकी । संमूच्छिमान्तद्ध्यक्षादिजीवानां हेतुवादिकी ॥ ४३१ ॥ छद्मस्थसम्यग्दृष्टीनां, श्रुतज्ञानात्मिकाऽन्तिमा । मतिव्यापारनिर्मुक्ताः, संज्ञातीता जिना: समे ॥ ४३२ ॥ इति संज्ञाः ॥ २१ ॥ . इन्दुः स्यात् परमैश्वर्ये, धातोरस्य प्रयोगतः । इन्दनात्परमैश्वर्यादिन्द्र आत्माऽभिधीयते ॥ ४३३ ॥ तस्य लिङ्ग तेन सृष्टमितीन्द्रियमुदीर्यते । श्रोत्रादि पञ्चधा तच्च, तथा वाच भाष्यकृत् ॥ ४३४ ॥ इन्दो जीवो सव्योवलद्धिभोगपरमेसरत्तणओ ॥ सोत्ताइभेयमिंदियमिह तल्लिगाइ भावाओ ॥ श्रोत्राक्षिघ्राणरसनस्पर्शनानीति पञ्चधा । तान्येकैकं द्विभेदं तद्, द्रव्यभावविभेदतः ॥ ४३५ ॥ तत्र निवृत्तिरूपं स्यात्तथोपकरणात्मकम् । द्रव्येन्द्रियमिति द्वेधा, तत्र निर्वृत्तिराकृतिः ॥ ४३६ ॥ साऽपि बाह्यान्तरङ्गा च, बाह्या तु स्फुटमीक्ष्यते । प्रतिजाति पृथगूपा, श्रोत्रपर्पटिकादिका ॥ ४३७ ॥ नानात्वान्नोपदेष्टुं सा, शक्या नियतरूपतः । नानाकृतीनीन्द्रियाणि, यतो वाजिनरादिषु ॥ ४३८ ॥ अभ्यन्तरा तु निर्वृत्तिः, समाना सर्वजातिषु । उक्तं संस्थाननैयत्यमेनामेवाधिकृत्य च ॥ ४३९ ॥ तथाहि-श्रोत्रं कदम्बपुष्पाभमांसैकगोलकात्मकम् । मसूरधान्यतूल्या स्याच्चक्षुषोऽन्तर्गताकृतिः ॥ ४४०॥ अतिमुक्तकपुष्पाभं, घ्राणं च काहलाकृति । जिह्वा क्षुरप्राकारा स्यात्, स्पर्शनं विविधाकृतिः ॥ ४४१ ॥ स्पर्शनेन्द्रियनिर्वृत्तौ, बाह्याभ्यन्तरयोर्न भित् । तथैव प्रतिपत्तव्यमुक्तत्वात्पूर्वसूरिभिः ॥ ४४२ ॥ बाह्यनिर्वृत्तीन्द्रियस्य, खड्गेनोपमितस्य या । धारोपमान्तर्निवृत्तिरत्यच्छपुद्गलात्मिका ॥ ४४३ ॥ तस्याः शक्तिविशेषो यः, स्वीयस्वीयार्थबोधक : । उक्तं तदेवोपकरणेन्द्रियं तीर्थपार्थिवैः ॥ ४४४ ॥
तदुक्तं प्रज्ञापनावृत्तौ–उपकरणम् । खड्गस्थानीयाया: बाह्यनिर्वृत्तेः या खड्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिका अभ्यन्तरा निर्वृत्ति: तस्याः शक्तिविशेष इति ॥
आचारांगवृत्तौ तु-“निर्वृत्यते इति निवृत्तिः । केन निवृत्त्यते ?, कर्मणा । तत्र उत्सेधाङ्गलासंख्ये
यभागाप्रमितानां शुद्धानां आत्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानेनावस्थितानां या वृत्ति१. दृष्टिदर्शनं - सम्यक्त्वादि वदनं वाद: दृष्टीनां वादो दृष्टिवादस्तदुपदेशेन तदपेक्षयेत्यर्थः, संज्ञा सम्यग्ज्ञानं तदस्यास्तीति संज्ञी सम्यग्दृष्टिस्तस्य यत् श्रुतं तत्सम्यग्दृष्टिश्रुतं सम्यक् श्रुतमिति भावार्थः (इति मलयगिरिपादाः) । २. सर्वे । ३. अङ्गलासंख्यभागामानत्वेन सर्वत्वग्गत्वेन च भेदस्यालक्ष्यत्वमिति । ४. खड्गधारयोरिखाभेदापत्तिरभ्यन्तरबहिनिवृत्योरेवं न च द्वैविध्यमुपकरणस्य ॥