________________
तथाहुः । “चत्तारि सण्णाओ पण्णत्ताओ तंजहा आहारसण्णा, भयसण्णा, मेहुणसण्णा, परिग्गहसण्णा" । इति स्थानाङ्गे॥ आहारे योऽभिलाष: स्याज्जन्तोः क्षुबेदनीयतः । आहारसंज्ञा सा ज्ञेया, शेषाः स्युर्मोहनीयजाः ॥ ४१९ ॥ भयसंज्ञा भयं त्रासरूपं यदनुभूयते । मैथुनेच्छात्मिका वेदोदयजा मैथुनाभिधा ॥ ४२० ॥ स्यात्परिग्रहसंज्ञा च, लोभोदयसमुद्भवा । अनाभोगाऽव्यक्तरूपा, एताश्चैकेन्द्रियाङ्गिनाम् ॥ ४२१ ॥ भगवतीसप्तमशतकाष्टमोद्देशके तु आहारभयपरिग्गहमेहुण तह कोह माण माया य । लोभो लोगो ओहो, सन्ना दस सब्बजीवाणं ॥ एताश्च-वृक्षोपलक्षणेन सर्वैकेन्द्रियाणां साक्षादेवं दर्शिताः । तद्यथा
रुक्खाण जलाहारो, संकोअणिआ भयेण संकुयइ । निअतन्तुएहिं वेढइ, वल्ली रुख्ने परिगहेइ ॥ इत्थिपरिरंभणेणं कुरुबगतरुणो फलंति मेहुणे । तह कोकनदस्स कंदे हुंकारे मुअइ कोहेणं ॥ माणे झरइ रुअंती, छायइ वल्ली फलाई मायाए । लोभे बिल्लपलासा खिवंति मूले निहाणुवरिं ॥ रयणीए संकोओ, कमलाणं होइ लोगसन्नाए ॥ ओहे चेइत्तु मग्गं, चडंति
रुक्नेसु वल्लीओ॥ अन्यैरपि वृक्षाणां मैथुनसंज्ञाऽभिधीयते । तथोक्तं शृङ्गारतिलके ।
__ सुभग ! कुरुबकस्त्वं नो किमालिङ्गनोत्कः, किमु मुखमदिरेच्छुः केसरो नो हृदिस्थः । त्वयि नियतमशोके युज्यते पादघात:, प्रियमितिपरिहासात्पेशलं काचिदूचे ॥ तथा पारदोऽपि
स्फारशृङ्गारया स्त्रियाऽवलोकित: कूपादुल्ललतीति लोके श्रूयते इति ॥ स्तोका मैथुनसंज्ञोपयुक्ता नैरयिकाः क्रमात् । संख्येयजा जन्धिपरिग्रहवासोपयुक्तकाः ॥ ४२२ ॥ स्युः परिग्रहसंज्ञाढ्यास्तिर्यञ्चोऽल्पास्ततः क्रमात् । ते मैथुनभयाहारसंज्ञा: संख्यगुणाधिकाः ॥ ४२३ ॥ भयसंज्ञान्विताः स्तोका, मनुष्या स्युर्यथाक्रमम् । संख्येयजा भुक्तिपरिग्रहमैथुनसंज्ञकाः ॥ ४२४ ॥ आहारसंज्ञाः स्युः स्तोका, देवा: संख्यगुणाधिकाः । संत्रासमैथुनपरिग्रहसंज्ञा यथाक्रमम् ॥ ४२५ ॥
प्रवचनसारोद्धारवृत्तौ तु एवं लिखितम् । तथा मतिज्ञानावरणकर्मक्षयोपशमात् शब्दार्थगोचरा सामान्यावबोधक्रिया ओघसंज्ञा । तद्धिशेषावबोधक्रिया लोकसंज्ञा । एवं चेदमापतितम्दर्शनोपयोगरोघसंज्ञा, ज्ञानोपयोगो लोकसंज्ञा । एष: स्थानाङ्गटीकाभिप्रायः ॥ आचाराङ्गटीकायां पुनरभिहितं-ओघसंज्ञा त्वव्यक्तोपयोगरूपा वल्लीवितानारोहणादिसंज्ञा । लोकसंज्ञा तु स्वच्छन्दघटितविकल्परूपा लोकोपचरिता । यथा न सन्त्यनपत्यस्य सद्गतयः, श्वानो यक्षाः, विप्राः देवाः, काकाः पितामहाः, बर्हिणां पक्षवातेन गर्भ इत्यादिका इति [श्लोक ९२४ नी
टीका] ॥ आचाराङ्गे तु॥ १. आहार० । २. संज़िन: प्र० । ३. स्पर्शाद्यव्यक्तज्ञानापेक्ष्या स्यातामेते सर्वेषां । ४. संज्ञाषोऽशकापेक्षयोक्तत्वात् न सर्वेषां सद्भावोऽनयोः ।