________________
42
एवं सर्वेष्वपि भाव्यं ॥ तत एवोपपद्येतानन्तानुबन्धिभाविनी । कृष्णादेर्दुगतिर्नूनं, क्षीणानन्तानुबन्धिनः ॥ ४०४ ॥ एवं च-वर्षावस्थायिमानस्य, श्रीबाहुबलिनो मुनेः । कैवल्यहेतुश्चारित्रं, ज्ञेयं संज्वलनोचितम् ॥ ४०५ ॥ कर्मग्रन्थकारैश्च सदृष्टान्ता एवमेते जगदिरे- [प्रथम कर्मग्रन्थ गाथा १९-२०] जलरेणुपुढवीपव्वयराईसरिसो चउव्विहो कोहो । तिणिसलयाकट्ठठ्ठियसेलत्थंभोवमो माणो ॥ माया वले हिगोमुत्तिमिंढसिंगघणवंसिमूलसमा । लोहो हलिहखंजणकद्दमकिमिरागसारिच्छिो ॥ तथा प्रज्ञापनायां प्रज्ञप्ताः, स्वान्योभयप्रतिष्ठिताः । अप्रतिष्ठितकाश्चैवं, चत्वारोऽपि चतुर्विधाः ॥ ४०६ ॥ तथाहि स्वदुश्चेष्टिततः कश्चित्, प्रत्यपायमवेक्ष्य यत् । कुर्यादात्मोपरि क्रोध, स एषः स्वप्रतिष्ठितः ॥ ४०७ ॥ उदीरयेद्यदा क्रोधं, पर: सन्तर्जनादिभिः । तदा तद्विषयक्रोधो, भवेदन्यप्रतिष्ठितः ॥ ४०८ ॥ एतच्च नैगमनयदर्शनं चिन्त्यतां यतः । स तद्विषयतामात्रान्मन्यते तत्प्रतिष्ठितम् ॥ ४०९ ॥ यश्चात्मपरयोस्तादृगपराधकृतो भवेत् । क्रोधः परस्मिन् स्वस्मिश्च, स स्यादुभयसंश्रितः ॥ ४१० ॥ विना पराक्रोशनादि, विना च स्वकुचेष्टितम् । निरालम्बन एव स्यात्, केवलं क्रोधमोहतः ॥ ४११ ॥ स चाप्रतिष्ठितः क्रोधो, दृश्यतेऽयं च कस्यचित् । क्रोधमोहोदयात्क्रोधः, कर्हिचित्कारणं विना ॥ ४१२ ॥ अत एवोक्तं पूर्वमहर्षिभिः- सापेक्षाणि च निरपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रमं च निरुपक्रम च दृष्टं यथायुष्कम् ॥ इत्याद्यर्थतः प्रज्ञापनातृतीयपदे ॥ एवमन्येऽपि त्रयः कषाया भाव्याः ॥ चतुर्भिः कारणैरेते, प्रायः प्रादुर्भवन्ति च । क्षेत्रं वास्तु शरीरं च, प्रतीत्योपधिमङ्गिनाम् ॥ ४१३ ॥ सर्वस्तोका निष्कषाया, मानिनोऽनन्तकास्ततः । क्रुद्धमायाविलुब्धाश्च, स्युर्विशेषाधिकाः क्रमात् ॥ ४१४ ॥ एकेन्द्रियाणां चत्वारोऽप्यनाभोगाद्भवन्त्यमी । अदर्शितबहिर्देहविकारा अस्फुटात्मका: ॥ ४१५ ॥ सर्वदा सहचारित्वात्कषायाऽव्यभिचारिणः । नोकषाया नव प्रोक्ता, नमनीयक्रमाम्बुजैः ॥ ४१६ ॥ तदुक्तं प्रज्ञापनावृत्तौ
“कषायसहवर्तित्वात्कषायप्रेरणादपि । हास्यादिनवकस्योक्ता, नोकषायकषायता ॥ हासो रत्यरतीभीतिर्जुगुप्सा शोक एव च । पुंस्त्रीक्लीबाभिधा: वेदा: नोकषाया अमी मता:” ॥ इति कषायाः ॥ २० ॥ संज्ञा स्यात् ज्ञानरूपैका, द्वितीयाऽनुभवात्मिका । तत्राद्या पञ्चधा ज्ञानमन्या च स्यात् स्वरूपतः ॥ ४१७ ॥ असातवेदनीयादिकर्मोदयसमुद्भवा । आहारादिपरीणामभेदात्सा च चतुर्विधा ॥ ४१८ ॥
१. यावज्जीवादि: कालो नरकादिका गतिवानन्तानुबन्ध्यादीनां फरुसवयणेणेत्यादिवद्व्यवहारात्, तेन न बाहुबलिनो मानेऽन्येषां चाकर्षादौ मिथ्यात्विनां ग्रैवयकोत्पादे च क्षतिरिति देवेन्द्रसूरिपादाः ।