________________
636
अनेकान् राजपुत्रादीन्, प्रतिबोध्येति शास्त्यसौ । जैनधर्मं प्रपद्यध्वं, गत्वा श्रीजिनसन्निधौ ॥ ९०५ ॥ कदाचित्समवासार्षीदयोध्यायां जिनेश्वरः । तत्रागतो नमस्यार्थं, पप्रच्छ भरतः प्रभुम् ॥ ९०६ ॥ एतस्यामवसर्पिण्यामम्मिश्च भरते प्रभो ! । भविष्यति जिनः कोऽपि, जनोऽस्यां पर्षदि स्थित: ? ॥ ९०७ ॥ तदोचे भगवानेष, मरीचिस्तनयस्तव । चतुर्विंशोऽत्र भाव्यर्हन्, महावीराद्वयो नृप ! ॥ ९०८ ॥ चक्री च प्रियमित्राख्यो, विदेहेषु भविष्यति । प्रथमो वासुदेवोऽपि, भरतेऽत्रैष एव च ॥ ९०९ ॥ भरतोऽपि ततो गत्वेत्यूचे नत्वा कृताञ्जलिः । जिनश्चक्री हरिर्भावी, मरीचे ! भाग्यवानसि ॥ ९१० ॥ पाख्रिाज्यं न ते वन्दे, न च ते चक्रिशाह्निताम् । भविष्यसि जिनो हि त्वं, प्रणमामि ततो मुदा ॥ ९११ ॥ एवमुक्त्वा विनीतान्तर्विनीते नृपतौ गते । मरीचिर्मानसाविष्टाऽमानमानोऽब्रवीदिति ॥ ९१२ ॥ आद्योऽहं वासुदेवानां, पिता मे चक्रवर्तिनाम् । पितामहो जिनेद्राणां, ममाहो उत्तमं कुलम् ॥ ९१३ ॥ प्रथमो वासुदेवोऽहं, मूकायां चक्रवर्त्यहम् । चरमस्तीर्थराजोऽहं, पर्याप्तमियतैव मे ॥ ९१४ ॥ कुर्वन्नेवमहङ्कारं, नीचैर्गोत्रं बबन्ध स: । जातिलाभकुलादीनामहङ्कारो हि पातयेत् ॥ ९१५ ॥ कदाचित्कपिलं राजकुमारं प्रत्यबूबुधत् । प्रेरयच्चापि चारित्रं, ग्रहीतुं साधुसन्निधौ ॥ ९१६ ॥ ततो बहुलकर्माऽयं, मरीचिमवददिभो ! । किं सर्वथा न धर्मोऽस्ति, भवदीयेऽत्र दर्शने ? ॥ ९१७ ॥ ततो मरीचिरूचे तं, भावितावद्भवस्थितिः । मार्ग ममापि धर्मोऽस्ति, मार्गे जैनेऽपि विद्यते ॥ ९१८ ॥ उत्सूत्रवचसाऽनेन, मरीचिः समुपार्जयत् । संसारमेकपाथोधिकोटाकोटिमितं तदा ॥ ९१९ ॥ ततस्तुर्ये भवे ब्रह्मलोकस्वर्गेऽभवत्सुरः । कोल्लाकसन्निवेशेऽथ, विप्रोऽभूत्पञ्चमे भवे ॥ ९२० ॥ ततश्च मृत्वा भूयांसं, कालं संसारमाटिटत् । भवास्ते च न गण्यन्ते, भवानां सप्तविंशतौ ॥ ९२१ ॥ षष्ठे भवे च स्थूणायां, नगर्यां ब्राह्मणोऽभवत् । सौधर्मकल्पे देवोऽभूद्भवे मृत्वा च सप्तमे ॥ ९२२ ॥ भवेऽष्टमे ततश्चैत्यसन्निवेशेऽभवद् द्विजः । ईशानदेवलोकेऽथ, निर्जरो नवमे भवे ॥ ९२३ ॥ मन्दराख्ये सन्निवेशे, ब्राह्मणो दशमे भवे । एकादशे भवे देवोऽभवत्स्वर्गे तृतीयके ॥ ९२४ ॥ भवे च द्वादशे पुस्, श्वेताम्ब्यां ब्राह्मणोऽभवत् । त्रयोदशे च माहेन्द्रे, कल्पेऽभूत्रिदशो भवे ॥ ९२५ ॥ तत: कियन्तं कालं च, भ्रान्तोऽसौ भवसागरे । चतुर्दशे ततो राजगृहेऽभूद्ब्राह्मणो भवे ॥ ९२६ ॥ भवे पञ्चदशे ब्रह्मलोकस्वर्ग सुरोऽभवत् । मरीच्यादिनुभवानां, षट्के सोऽभूत्रिदण्डिकः ॥ ९२७ ॥ षोडशे च भवे विश्वभूत्याख्यो युवराजसूः । संभूतिमुनिपादान्ते, पप्रेदे संयम स च ॥ ९२८ ॥ अन्यदा मासतपसः, पारणायां स जग्मिवान् । मुनिर्गोचरचर्यायां, तत्र धेनुहतोऽपतत् ॥ ९२९ ॥ दृष्टः पितृव्यपुत्रेण, हसित: कुपितो भृशम् । गां शृङ्गयोर्गृहीत्वा द्राग, नभस्यभ्रमयद्रुषा ॥ ९३०॥ निदानं कृतवांश्चैवं, भूयासं तपसाऽमुना । भूयिष्ठवीर्यो मृत्वा च, महाशुक्रेऽभवत्सुरः ॥ ९३१ ॥