SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ 632 मासा नवैव छाग्रस्थ्यं, बकुलो ज्ञानभूरुहः । प्रभोर्गणभृतः सप्तदश पेशलसंयमाः ॥ ८०९ ॥ महर्षीणां सहस्राणि, विंशतिः कीर्तितान्यथ । साध्वीनामेकचत्वारिंशदेव च सहस्रकाः ॥ ८१० ॥ लक्षं सहनैः सप्तत्या, समन्वितमुपासका: । लक्षास्तिस्रोऽष्टचत्वारिंशत्सहस्राण्युपासिका: ॥ ८११ ॥ केवलज्ञानिनामेकं, सहसं षट्शताधिकम् । शता द्वादश पञ्चाशाः, षष्ट्याढ्या वा मनोविदाम् ॥ ८१२ ॥ अवधिज्ञानिनां षड्भिः, सहस्रमधिकं शतैः । चतुर्दशपूर्वभृतामध्यर्द्धा च चतुःशती ॥ ८१३ ॥ सहस्रं वादिनां पञ्चसहसा वैक्रियस्पृशाम् । शुभाख्योगणभृन्मुख्योऽनिलाख्या च प्रवर्तिनी ॥ ८१४ ॥ प्रभोभक्तनृपश्चक्री, हरिषेणाभिधोऽभवत् । यक्षश्च भृकुटिर्जीयाच्चतुर्वकास्त्रिलोचनः ॥ ८१५ ॥ सुवर्णवर्णो वृषभवाहनो दक्षिणैर्भुजैः । बीजपूरं तथा शक्तिं, मुद्गरं चाभयं दधत् ॥ ८१६ ॥ वामैश्च नकुलं पशु, वज्रमेवाक्षसूत्रकम् । दधानोऽष्टभुजः सम्यग्दृष्टिः प्रीणाति धार्मिकान् ॥ ८१७ ॥ दधाना वरदं खड्गमपसव्ये करद्वये । बीजपूरककुन्ताभ्यां, व्यग्रवामकरद्वया ॥ ८१८ ॥ चतुर्भुजा श्वेतवर्णा, गान्धारी हंसवाहना । देवी दिशति कल्याणं, श्रीनमिस्वामिसेविनाम् ॥ ८१९ ॥ इति श्रीनमिः ॥ अभूद्राजा धनस्तस्य, नाम्ना धनवती प्रिया । दम्पती तावभूतां दौ, सुरौ सौधर्मताविषे ॥ ८२० ॥ नेटश्चित्रगतिस्तस्य, प्रिया रत्नवतीति तौ । भवे तृतीये जज्ञाते, सौधर्मस्वर्गतश्च्युतौ ॥ ८२१ ॥ ततो माहेन्द्रनाके तौ, देवौ जातौ प्रियौ मिथः । ततो धनस्य जीवोऽभूद्राजा नाम्नाऽपराजितः ॥ ८२२ ॥ धनवत्याच जीवोऽभूदपराजितभूपतेः । राज्ञी प्रीतिमती जाती, ततो द्वावारणे सुरौ ॥ ८२३ ॥ ततोऽपराजितस्यात्मा, सुप्रतिष्ठाभिधो नृपः । मतान्तरेऽभूच्छङ्खाख्यो, जम्बूद्वीपस्य भारते ॥ ८२४ ॥ पुरे राजगृहेऽथास्य, प्रियैवाभूयशोमती । जीवश्च्युत्वा प्रीतिमत्याः, स्वर्गादारणसंज्ञकात् ॥ ८२५ ॥ गुरोरतियश:पात्तिावुरीकृत्य संयमम् । ज्येष्ठायुष्कौ सुहृद्देवी, जातौ दावपराजिते ॥ ८२६ ॥ जीवोऽथ यो यशोमत्याः, स च च्युत्वाऽपराजितात् । अजायतोग्रसेनस्य, नाम्ना राजीमती सुता ॥ ८२७ ॥ सुप्रतिष्ठस्य जीवोऽथ, ततश्च्युत्वाऽपराजितात् । समुत्पेदे कुशार्ताख्ये, देशे शौर्यपुरे पुरे ॥ ८२८ ॥ समुद्रविजयाख्यस्य, दशार्हस्य महीपतेः । सुतोऽभवच्छिवादेवीकुक्षिजन्मा जिनेश्वरः ॥ ८२९ ॥ कार्तिके द्वादशी कृष्णा, श्रावणे पञ्चमी सिता । षष्ठी च श्रावणे शुक्लामावास्याऽऽश्विनमासि च ॥ ८३०॥ आषाढस्याष्टमी शुक्ला, कल्याणकदिना: प्रभो । चित्रानक्षत्रमेतेषु, राशि: कन्याऽऽहयः स्मृतः ॥ ८३१ ॥ दिनैरष्टाभिरधिका, मासा गर्भस्थितिर्नव । शङ्खो लक्ष्म दशेष्वासप्रमितो वपुरुच्छ्रयः ॥ ८३२ ॥ रिष्टरत्नमयीं चक्रधारामैक्षत यत्प्रसूः । प्रभौ गर्भस्थिते रिष्टनेमिरित्याख्यया ततः ॥ ८३३ ॥ अमङ्गलव्यपोहायाऽकारोऽत्र परिभाव्यताम । पापवक्षे चक्रधारातुल्यो वा तत्तथाऽऽहयः ॥ ८३४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy