________________
631
लक्षाण्येकादशाब्दानां, वेदनागसहस्रका: । तुर्यारके स्म शिष्यन्ते, युताः श्रीसुव्रतायुषा ॥ ७८३ ॥ कौमार्येऽब्दसहस्राणि, सप्त सार्द्धान्यथोषितः । राज्ये पञ्चदशाब्दानां, सहस्राणि ततः पुन: ॥ ७८४ ॥ सा न्यब्दसहस्राणि, सप्त व्रतमपालयत् । त्रिंशदब्दसहस्राणि, सर्वमायुरपालयत् ॥७८५ ॥ मोहापराजितस्यास्य, शिबिका त्वपराजिता । पुरे राजगृहे ब्रह्मदत्तोऽदादाद्यपारणाम् ॥ ७८६ ॥ मासा एकादश छद्मस्थताऽमुष्य विभोर्मता । ज्ञानवृक्षश्चम्पकोऽभूदष्टादश गणाधिपाः ॥७८७ ॥ त्रिंशत्सहस्रा: साधूनां, साध्वीनां खशर्मिताः । श्राद्धानां लक्षमेकं च, दासप्ततिसहस्रयुक् ॥ ७८८ ॥ सा स्त्रिलक्षाश्चाहत्यः, सर्वज्ञानां तथा शताः । अष्टादश पञ्चदश, मन:पर्यायवेदिनाम् ॥ ७८९ ॥ अवधिज्ञानभाजामप्यष्टादश शताः स्मृताः । शतानि पञ्च दधतां, पूर्वाणि च चतुर्दश ॥७९० ॥ सवैक्रियाः सहसे ढे, वादिनां द्विशताधिकम् । सहनमेकं गणभृन्मुख्यो मल्लिरिति श्रुतः ॥ ७९१ ॥ प्रवर्तिनी पुष्पवती, सदाभक्तनृपः प्रभोः । विजिताख्योऽभवद्यक्षो, वरुणश्चतुराननः ॥७९२ ॥ बीजपूरं गदां बाणं, शक्तिं करचतुष्टये । दक्षिणे नकुलं पद्मं, धनुः पशुं च वामके ॥ ७९३ ॥ दधानोऽष्टभुजः सौख्यं, कुर्याद् वृषभवाहनः । त्रिलोचनः श्वेतवर्णा, जटामुकुटभूषितः ॥७९४ ॥ वरदं चाक्षसूत्रं च, या दक्षिणकरद्वये । धत्ते तथा बीजपूरं, शक्तिं वामकरद्धये ॥७९५ ॥ सा भद्रासनमारूढा, स्वर्णवर्णा चतुर्भुजा । तस्याच्छुप्ता बभौ देवी, नरदत्ता मतान्तरे ॥ ७९६ ॥
इति श्रीमुनिसुव्रतः ॥ जंबूदीपस्य भरते, कौशाम्ब्यां पुरि भूपतिः । सिद्धार्थी नन्दगुर्वन्ते, परिव्रज्यामुपाददे ॥७९७ ॥ ततोऽभूत्प्राणतस्वर्ग, विंशत्यर्णवजीवितः । उदात्तवैभवो देवस्ततश्च्युत्वा स्थितिक्षये ॥७९८ ॥ विदेहदेशे मिथिलापुर्यां विजयभूपतेः । वप्राराज्ञीकुक्षिरत्न, नमिनामा जिनोऽभवत् ॥७९९ ॥ आश्विनस्य पौर्णमासी, श्रावणस्यासिताऽष्टमी । नवम्याषाढस्य कृष्णा, मार्गस्यैकादशी सिता ॥ ८०० ॥ राधस्य दशमी कृष्णा, कल्याणकदिना इति । सर्वेष्वप्यश्विनी धिष्ण्यं, राशिमेषः स्मृतः प्रभोः ॥ ८०१ ॥ अष्टघसाधिका मासा, नवाभूद्गरभस्थितिः । नीलाजं लक्ष्म चापानि, देहः पञ्चदशोच्छ्रितः ॥ ८०२ ॥ गर्भस्थिते प्रभौ द्रङ्गरोधिनो रिपवो नताः । तस्मान्नाम्ना नमी रागाधरीणां नमनेन वा ॥ ८०३ ॥ षड्भिच शरदां लक्षैर्मुनिसुव्रतनिर्वृतेः । दशवर्षसहस्रोनैरजायत नमिप्रभुः ॥८०४ ॥ लक्षाणि पञ्च वर्षाणां, सहना वाद्धिदिग्मिताः । जिनायुश्चावशिष्यन्ते, तदा तुर्यारके ध्रुवम् ॥ ८०५ ॥ सार्द्ध वर्षसहने दे, कुमारत्वेऽवसद्धिभुः । पञ्च वर्षसहस्राणि, प्राज्यं राज्यमपालयत् ॥ ८०६ ॥ पुन: साढे सहने दे, पालयामास संयमम् । दशाब्दानां सहस्राणि, सर्वमायुरपुपूरत् ॥ ८०७ ॥ शिबिका देवकुर्वाख्या, श्रीनमिस्वामिनो व्रते । आद्यां वीरपुरे भक्त्या, दिन्नो दत्ते स्म पारणाम् ॥ ८०८ ॥