________________
630
समेतान् युगपत्पाणिग्रहाय प्रतिबोध्य च । स्वर्णवप्रतिमोपायात्सार्द्ध प्रावाजयत्प्रभुः ॥७६० ॥ जयन्ती शिबिका विश्वसेनोऽदादाद्यपारणाम् । मिथिलानगरीवासी, अशोको ज्ञानपादपः ॥७६१॥ अष्टाविंशतिरादिष्टाः, स्वामिन्या गणधारिणः । चत्वारिंशत्सहस्राणि, साधूनां विशदात्मनाम् ॥ ७६२ ॥ साध्वीनां पञ्चपञ्चाशत्सहस्रा: कीर्तिताः श्रुते । श्रावकाणां लक्षमेकं, सत्यशीतिसहस्रकम् ॥ ७६३ ॥ त्रिलक्षी श्राविकाणां च, ससप्ततिसहस्रकाः । एवं चतुर्विधः संघ:, सद्गुणाढ्यः प्रभोरभूत् ॥ ७६४ ॥ सर्वज्ञानां सहने दे, श्रीमल्लेर्दिशताधिके । मनोविदां सहस्रं च, सार्द्धसप्तशताधिकम् ॥ ७६५ ॥ द्वाविंशतिं शतान्याहुरवधिज्ञानशालिनाम् । शतानि साष्टषष्टीनि, षट् चतुर्दशपूर्विणाम् ॥ ७६६ ॥
___ अत्रेयं मनोज्ञानिनामवधिज्ञानिनां संख्या सप्ततिशतस्थानकाभिप्रायेण, षष्ठाङ्गे त्वष्टशतानि मनोविदां, वे सहने चावधिज्ञानिनां, तुर्याङ्गे तु सप्तपञ्चाशच्छतानि मनोविदामेकोनषष्टिश्च
शतान्यवधिज्ञानिनामुक्तानीति ज्ञेयं । सवैक्रियाणामेकोनत्रिंशतं प्रोचिरे शतान् । शतैश्चतुर्भिः सहितं, सहस्रं वादिनां मतम् ॥ ७६७ ॥ भिषम्ज्येष्ठो गणी बंधुमती चाभूत्प्रवर्तिनी । अजिताख्यो महीपालोऽभवद्भक्तो जगत्प्रभोः ॥ ७६८ ॥ वरदं परशुं शूलमभयं दक्षिणे दधत् । दोष्णां चतुष्टये वामे, पुनः पाणिचतुष्टये ॥ ७६९ ॥ बीजपूरं तथा शक्तिं, मुद्गरं चाक्षसूत्रकम् । दधानोऽष्टभुजो हस्तिवाहनश्चतुराननः ॥७७० ॥ इन्द्रायुधयुतिर्यक्षः, कूबर: कुरुते श्रियम् । श्रीमल्लिनाथभक्तानां, कुबेरोऽसौ मतांतरे ॥७७१ ॥ वरदं चाक्षसूत्रं च, या दक्षिणकरद्धये । बीजपूरं तथा शक्तिं, दत्ते वामकरद्वये ॥ ७७२ ॥ पद्मासना श्यामवर्णा, सा वैरोट्या चतुर्भुजा । पिपर्ति प्रार्थितं प्रीता, श्रीमल्लिजिनसेवनात् ॥ ७७३ ॥
इति श्रीमल्लिः ॥ शिवकेतुरभूत्पूर्वं, सौधर्म त्रिदशस्ततः । ततः कुबेरदत्तोऽथ, सुर: स्वर्ग तृतीयके ॥७७४ ॥ वज्रकुण्डलनामाथ, ब्रह्मस्वर्ग सुरस्ततः । ततोऽस्मिन् भरतक्षेत्रे, चंपापुर्यां रमाजुषि ॥ ७७५ ॥ नृपः श्रीवर्म (ब्रहा) नामाऽसौ, सुनंदगुरुसन्निधौ । प्रव्रज्य परमायुष्को, देवोऽभूदपराजिते ॥७७६ ॥ ततो मगधदेशेऽभूत्पुरे राजगृहे जिनः । पद्मावतीकुक्षिजन्मा, सुमित्रनृपतेः सुतः ॥७७७ ॥ पौर्णमासी श्रावणस्य, कृष्णा ज्येष्ठस्य चाष्टमी । फाल्गुने द्वादशी शुक्ला, द्वादशी फाल्गुनेऽसिता ॥ ७७८ ॥ कृष्णा च ज्येष्ठनवमी, कल्याणकदिना अमी । एषु सर्वेषु नक्षत्रं, निर्दिष्टं श्रवणाह्वयम् ॥७७९ ॥ नव गर्भस्थितिर्मासाः, प्रभोरष्टदिनाधिकाः । कूर्मोऽडो मकरो राशिर्धनुर्विंशतिरुच्छ्रयः ॥ ७८० ॥ प्रभौ गर्भस्थिते माता, मुनिवत् सुव्रताऽभवत् । स्वयं च सुव्रतस्तस्मान्नाम्नाऽर्हन्मुनिसुव्रतः ॥ ७८१ ॥ चतुष्पञ्चाशता वर्षलक्षैः श्रीमल्लिनिर्वृतेः । त्रिंशद्वर्षसहस्रोनैर्जन्माभूत्सुव्रतप्रभोः ॥ ७८२ ॥