SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ 622 चतुर्दशपूर्वभृतां, सहस्रं द्विशतोत्तरम् । स्फुरद्वैक्रियलब्धीनां, सहस्राणि दशाभवन् ॥ ५६३ ॥ वादिनां सप्त चत्वारिंशच्छतानि मतान्तरे । द्विचत्वारिंशच्छतानि, तत्त्वं जानाति केवली ॥ ५६४ ॥ सुभूमो गणभृन्मुख्यो, धरणी च प्रवर्तिनी । द्विपृष्ठवासुदेवश्च, नृपश्चरणसेवकः ॥ ५६५ ॥ यक्षः कुमार: श्वेताङ्गः, श्वेतयानश्चतुर्भुजः । मातुलिङ्गबाणशालिसद्दक्षिणकरद्वयः ॥ ५६६ ॥ कोदण्डनकुलाभ्यां च, शोभितो वामहस्तयोः । पिपर्ति श्रीवासुपूज्यजिनसेविसमीहितम् ॥ ५६७ ॥ प्रवराख्या प्रभोदेवी, चण्डाख्या च मतान्तरे । चतुर्भुजा श्यामवर्णा, सत्तुरङ्गमवाहना ॥ ५६८ ॥ दधाति वरदं शक्तिं, भुजयोरपसव्ययोः । दधाति सव्ययोः पुष्पं, गदां चैषा महाशया ॥ ५६९ ॥ ___इति श्रीवासुपूज्य: ॥ धातकीखण्डभरते, महापुर्यां नृपोऽभवत् । पद्मसेनाद्वयः सर्वगुप्तर्षेः सोऽग्रहीव्रतम् ॥ ५७० ॥ ततः सुरः सहस्रारेऽष्टादशार्णवजीवितः । भूत्वा पाञ्चालदेशेऽभूत्पुरे काम्पील्यनामनि ॥ ५७१ ॥ श्यामाराज्ञीकुक्षिरत्नं, कृतवर्ममहीपतेः । पुत्रः पवित्रचारित्रविमलो विमलाह्वयः ॥ ५७२ ॥ वैशाखद्धादशी शुक्ला, माघे शुक्ला तृतीयिका । माघे चतुर्थी शुक्ला च, पौषे षष्ठी तथोज्ज्वला ॥ ५७३ ॥ आषाढे सप्तमी कृष्णा, कल्याणकदिना: प्रभोः । आहिर्बुजं चतुर्पु स्याद्धिष्ण्यं पौष्णं च पञ्चमे ॥ ५७४ ॥ मासा अष्टौ दिनान्येकविंशतिर्गरभस्थितिः । राशिींनाह्वयो लक्ष्म, शूकर: कीर्तितः प्रभोः ॥ ५७५ ॥ गर्भस्थेऽस्मिन्मातुरास्तां, मत्यङ्गे विमले इति । अन्तर्बहिश्च विमलतया वा विश्ववर्यया ॥ ५७६ ॥ विमलो नामधेयेनादेयनामा स कीर्तितः । षष्टिचापोन्नत: षष्टिलक्षाब्दायुर्जगद्विभुः ॥ ५७७ ॥ श्रीवासुपूज्यनिर्वाणात्रिंशता सागरोपमैः । षष्टिलक्षशरन्न्यूनर्जन्माभूद्धिमलप्रभोः ॥ ५७८ ॥ तुर्यारकेऽब्धयः शेषाः, षोडश प्रभुजन्मनि । पूर्वोदितैर्वर्षलक्षैस्तत्सहनैश्च साधिकाः ॥ ५७९ ॥ तुर्यारकस्य शेषो यो, जिनजन्मनि वक्ष्यते । इतः प्रभृति स स्वस्वायुषाऽभ्यधिक ऊह्यताम् ॥ ५८० ॥ लक्षा: पञ्चदशाब्दानां, कुमारत्वेऽवसद्धिभुः । लक्षाणि त्रिंशतं राज्ये, लक्षाः पञ्चदश व्रते ॥ ५८१ ॥ तत्र दिमासी छाग्रस्थ्यं, शिबिका च व्रतक्षणे । देवदिन्ना जयो धान्यकटे प्रथमदायकः ॥ ५८२ ॥ जम्बूतरुतले स्वामी, पञ्चमज्ञानमाप स: । निर्दिष्टाः सप्तपञ्चाशद्धिभोर्गणधरोत्तमाः ॥ ५८३ ॥ अयमावश्यकाभिप्रायः, समवायाङ्गे तु षट्पञ्चाशद्गणधरा उक्ता इति ज्ञेयं । अष्टषष्टिः सहस्राणि, साधूनां शीलशालिनाम् । लक्षमेकं च साध्वीनां, शतैः साधिकमष्टभिः ॥ ५८४ ॥ लक्षद्वयं च श्राद्धानां, सहजैरष्टभिर्युतम् । चतुर्लक्षी श्राविकाणां, सहस्रा जिनसंमिताः ॥ ५८५ ॥ शतानि पञ्चपञ्चाशत्केवलज्ञानशालिनाम् । मन:पर्यायचिद्भाजां, तावन्त्येव शतानि च ॥ ५८६ ॥ १ तीर्थंकरवत् गणभृतामायुषो नियमाभावात् अल्पायुष्यादिकारणान्नैको विवक्षितःस्यात् ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy