________________
621
तिन्दुको ज्ञानवृक्षः स्यादशीतिधनुरुच्छ्रितम् । वपुः षट्सप्ततिश्चोक्ता: प्रभोर्गणभृत: श्रुते ॥ ५३७ ॥ प्रभोश्चतुरशीतिश्च, सहस्राणि मुमुक्षवः । लक्षमेकं च साध्वीनां, सहस्रत्रितयाधिकम् ॥ ५३८ ॥ श्राद्धा लक्षद्धयमथैकोनाशीतिः सहस्रकाः । चतुर्लक्ष्यष्टचत्वारिंशत्सहस्राण्युपासिकाः ॥ ५३९ ॥ शतानि पञ्चषष्टिश्चाभूवन्निःशेषवेदिनाम् । षट् सहस्राणि शमिनां मन:पर्यायवेदिनाम् ॥ ५४० ॥ स्फुरद्वैक्रियलब्धीनामेकादश सहस्रका: । सहस्रा वादिनां पञ्चावधिज्ञानभृतां च षट् ॥ ५४१ ॥ सच्चतुर्दशपूर्वाणां, शतान्यासंस्त्रयोदश । कौस्तुभो मुख्यगणभृद्धारिणी च प्रवर्तिनी ॥ ५४२ ॥ त्रिपृष्ठवासुदेवोऽभूत्प्रभुभक्तनृपः प्रभोः । यक्षश्च मनुजाभिख्य, ईश्वराख्यो मतान्तरे ॥ ५४३॥ स त्रिनेत्रः श्वेतवर्णो, वृषारूढश्चतुर्भुजः । मातुलिङ्गगदायुक्त, सदक्षिणकरद्वयः ॥ ५४४ ॥ नकुलं चाक्षसूत्रं च, दधद्धामकरद्धये । श्रियं श्रेयांसभक्तानां, वितनोति समीहिताम् ॥ ५४५॥ श्रीवत्साख्या प्रभोर्दैवी, मानवी वा मतान्तरे । सिंहासीना गौरवर्णा, सा निर्दिष्टा चतुर्भुजा ॥ ५४६ ॥ धत्ते दक्षिणयोः पाण्योर्वरदं मुद्गरं च सा । धत्ते च वामयोः पाण्योः, क्रमात्कलशमशम् ॥ ५४७ ॥
इति श्रीश्रेयासः ॥ विजये मङ्गलावत्यां, पुष्करप्राग्विदेहगे । सद्ररत्नसंचयापुर्या, राजा पद्मोत्तरोऽभवत् ॥ ५४८ ॥ गुरोः श्रीवज्रनाभस्य, पार्श्वे स प्राप्य संयमम् । सुरोऽभूत्प्राणतस्वर्ग, विंशत्यर्णवजीवितः ॥ ५४९ ॥ चंपापुर्यामङ्गदेशे, वसुपूज्यमहीपतेः । राज्या जयायास्तनुजो, वासुपूज्यस्ततोऽभवत् ॥ ५५० ॥ उज्ज्वला नवमी ज्येष्ठे, भूतेष्टा फाल्गुनेऽशितिः । फाल्गुनेमावसी माघे, द्वितीया च समुज्ज्वला ॥ ५५१ ॥ शुक्लाऽऽषाढस्य भूतेष्टा, कल्याणकदिना: प्रभोः । आहिर्बुजं पञ्चमे भं, चतुर्पु शततारिका ॥ ५५२ ॥ दिनानि विंशतिर्मासाश्चाष्टौ गर्भस्थितिः प्रभोः । राशि: कुम्भो लाञ्छनं च, महिषः किल कीर्तितः ॥ ५५३ ॥ पूज्यते वसुभिः शरैर्वासुपूज्यः स्मृतस्ततः । वसुपूज्यनृपापत्यमिति वा तादृशाह्वयः ॥ ५५४ ॥ द्विसप्तत्यब्दलक्षोनैश्चतुष्पञ्चाशताऽब्धिभिः । जन्माभूदासुपूज्यस्य, श्रीमच्छ्रेयांसनिर्वृतः ॥ ५५५ ॥ षट्चत्वारिंशदब्धीनां, शेषस्तुर्यारके तदा । वेदनाग (८४) सहस्राढ्यबाणर्तु (६५) लक्षवर्षयुक् ॥ ५५६ ॥ अष्टादशाब्दलक्षाणि, कुमारत्वेऽवसद्धिभुः । ततः प्रपेदे चारित्रं, पृथिवीशिबिकां श्रितः ॥ ५५७ ॥ चतुष्पञ्चाशदब्दानां, लक्षाणि व्रतमादधौ । द्विसप्तत्यब्दलक्षायुर्धनुस्सप्ततिमुच्छ्रितः ॥ ५५८ ॥ महापुरे सुनन्दाख्यः, प्रथमां पारणां ददौ । छाास्थ्यमेको मासोऽभूद, ज्ञानद्रुः पाटलाभिधः ॥ ५५९ ॥ जगत्प्रभोर्गणभृतः, षट्षष्टिः साधवः पुनः । द्विसप्ततिसहस्राणि, साध्वीनां लक्षमेव च ॥ ५६० ॥ सहस्रा: पञ्चदश च, ढे लक्षे श्रावकोत्तमाः । चतुर्लक्षी श्राविकाणां, षट्त्रिंशच्च सहस्रकाः ॥ ५६१ ॥ सर्वज्ञानां सहस्राः षट्, मनोज्ञानवतामपि । अवधिज्ञानिनां पञ्च, सहस्राः सचतुःशताः ॥ ५६२ ॥