SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ 618 प्रभोर्गर्भस्थितिर्मासा, नव सप्तदिनाधिका: । शशभृल्लाञ्छनं राशिवृश्चिकाख्योऽभवत्प्रभोः ॥ ४६० ॥ वार्टीनां नवभिः कोटिशतैः सुपार्शनिवृतेः । अभूत्प्रभोर्जन्म दशपूर्वलक्षोनकैः किल ॥ ४६१ ॥ अधिकं दशभिः पूर्वलक्षैस्तुर्यारके तदा । शतमम्भोधिकोटीनां, शिष्यते स्मेशजन्मनि ॥ ४६२ ॥ प्रभौ गर्भगते मातुश्चन्द्रपानमनोरथात् । यद्धेन्दुसौम्यलेश्यत्वात्स्वामी चन्द्रप्रभाभिधः ॥ ४६३ ॥ पूर्वलक्षद्वयं सार्द्ध, सार्दा: षट् पूर्वलक्षका: । चतुर्विंशतिपूर्वाङ्गाधिका: कौमार्यराज्ययोः ॥ ४६४ ॥ चतुर्विंशतिपूर्वाङ्गन्यूनं च पूर्वलक्षकम् । श्रामण्यं तत्र मासानां, त्रयं छद्मस्थतास्थितिः ॥ ४६५ ॥ पूर्वाणां दश लक्षाणि, सर्वमायुरभूत्प्रभोः । धनुषां च शतं सार्द्धं, भगवद्धपुरुच्छ्रयः ॥ ४६६ ॥ मनोरमाऽऽख्या शिबिका, प्रथमां पारणां ददौ । पद्मखण्डे सोमदत्तो, नागाख्यो ज्ञानभूरूहः ॥ ४६७ ॥ गणेशाश्च त्रिनवतिरध्यर्द्ध लक्षयोद्धयम् । संयतानां संयतीनां, लक्षास्तिस्रस्तथोपरि ॥ ४६८ ॥ स्युरशीतिः सहस्राणि, श्राद्धा मुनिमिता मताः । पञ्चलक्षी नवसहस्रोनाश्चोपासिका मताः ॥ ४६९ ॥ सर्वज्ञानां सहस्राणि, दशाष्टौ च मनोविदाम् । अष्टावधिस्पृशां वैक्रियाढ्यानां च चतुर्दश ॥ ४७० ॥ सहने दे भगवतः स्याच्चतुर्दशपूर्विणाम् । अभूवन् वादिनां सप्त, सहस्राः षट्शताधिकाः ॥ ४७१ ॥ दिन्नो गणधरो मुख्यः, सुमनाश्च प्रवर्तिनी । भक्तश्च मघवा भूमान्, यक्षः स्याद्धिजयाभिधः ॥ ४७२ ॥ स च त्रिनेत्रो हरितवर्णाङ्गो हंसवाहनः । चक्रयुग्दक्षिणकरो, वामपाणौ समुद्गरः ॥ ४७३ ॥ प्रभो लाऽभिधा देवी, भृकुटिश्च मतान्तरे । चतुर्भुजा पीतवर्णा, वरालकाख्यवाहना ॥ ४७४ ॥ वरालको जीवविशेषः । सा खड्गमुद्गरौ धत्ते, हस्तयोरपसव्ययोः । फलकं परशुं चैव, सव्ययो: करपद्मयोः ॥ ४७५ ॥ इति चन्द्रप्रभः ॥ विजये पुष्कलावत्यां, प्राग्विदेहेषु पुष्करे । नगर्यां पुण्डरीकिण्यां, महापद्मोऽभवन्नृपः ॥ ४७६ ॥ स सर्वजगदानन्दगुरुपाचे धृतव्रतः । एकोनविंशत्यब्ध्यायुरानते त्रिदशोऽभवत् ॥ ४७७ ॥ शून्यदेशेऽथ काकन्यां, पुर्यां सुग्रीवभूपतेः । रामाराज्ञीकुक्षिभवः, पुत्रोऽभूत्सुविधिर्जिनः ॥ ४७८ ॥ फाल्गुने नवमी श्यामा, कृष्णा मार्गस्य पञ्चमी । श्यामा षष्ठी च तस्यैव, तृतीया कार्तिकेऽसिता ॥ ४७९ ॥ भाद्रस्य नवमी शुक्ला, कल्याणतिथयः प्रभोः । पञ्चस्वप्येषु नक्षत्रं, मूलं राशिर्धनुर्भवेत् ॥ ४८० ॥ अष्टौ मासाः स्थितिर्गर्भ, षड्विंशतिदिनाधिकाः । मकरो लाञ्छनं देहोच्छ्रयश्च धनुषां शतम् ॥ ४८१ ॥ नवत्याम्भोधिकोटीनां, पूर्वलक्षद्धयोनया । श्रीचन्द्रप्रभनिर्वाणाज्जातः श्रीसुविधिर्जिनः ॥ ४८२ ॥ दश कोट्य: सागराणां, पूर्वलक्षद्धयाधिकाः । तुर्यारके स्म शिष्यन्ते, श्रीमत्सुविधिजन्मनि ॥ ४८३॥ शुभक्रियापरत्वेन, विख्यात: सुविधिः प्रभुः । माता वा गर्भकालेऽभूत्सुविधिर्यत्ततस्तथा ॥ ४८४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy