________________
615
साक्षी न कोऽपि तत्रासीत, पुत्रोऽपि न विवेद सः । विमातरं मातरं वा, ताभ्यां साम्येन लालितः ॥ ३८६ ॥ कुण्ठेषु निर्णये तस्मिन्नरेन्द्रसचिवादिषु । अवादीन्मङ्गला राज्ञी, तदात्वोत्पन्नया धिया ॥ ३८७ ॥ गृहसर्वस्ववत्पुत्रोऽप्येष वेधा विभज्यताम् । अनुमेने विमाता तन्माता प्रोचे च साश्रुदृक् ॥ ३८८ ॥ अस्या एवास्तु पुत्रोऽयं, गृहद्रव्यादिभिः सह । अस्मिंश्चिरायुषि प्राप्तं, सर्वस्वमखिलं मया ॥ ३८९ ॥ अदापयत्ततस्तस्यै, सुतं निश्चित्य मङ्गला । गर्भस्थस्य प्रभोरेवमनुभावादभून्मतिः ॥ ३९० ॥ स्वयं च शोभनमतिस्तस्मात्सुमतिसंज्ञकः । कौमारं बिभरामास, पूर्वलक्षाण्यसौ दश ॥ ३९१ ॥ एकोनत्रिंशतं स्वामी, पूर्वलक्षाण्यपालयत् । सातिरेकाणि पूर्वाङ्ग, राज्यं द्वादशभिर्भुवि ॥ ३९२ ॥ व्रतं द्वादशपूर्वाङ्गन्यूनं च पूर्वलक्षकम् । चत्वारिंशत्पूर्वलक्षाण्यायुश्छायेऽब्दविंशतिः ॥ ३९३ ॥ ज्ञानद्रुमः प्रियङ्गुः स्याव्रतार्थमभयङ्करा । शिविका पारणं चाद्यं, पद्मोऽदाद्धिजये पुरे ॥ ३९४ ॥ प्रभोः शतं गणभृतां, सविंशतिसहस्रकम् । लक्षत्रयं स्युर्मुनयो, गुणमाणिक्यभूभृतः ॥ ३९५ ॥ पञ्च लक्षाः संयतीनां, सहसैस्त्रिंशताऽधिकाः । लक्षद्वयं श्रावकाणां, सैकाशीतिसहस्रकम् ॥ ३९६ ॥ पञ्च लक्षाः श्राविकाणां, सषोडशसहस्रका: । त्रयोदश सहस्राणि, प्रभो केवलशालिनाम् ॥ ३९७ ॥ शतैश्चतुर्भिरट्यद्धैः, सहस्रा दश साधिकाः । मनोविदां सहस्राश्चैकादशावधिवेदिनाम् ॥ ३९८ ॥ शताश्चतुर्विंशतिश्च, स्युश्चतुर्दशपूर्विणाम् । अष्टादश वैक्रियाढ्यसहस्राः सचतुःशताः ॥ ३९९ ॥ साद्धैः षड्भिः शतैर्युक्ताः, सहसा दश वादिनाम् । चमरो गणभृन्मुख्यः, काश्यपी च प्रवर्तिनी ॥ ४०० ॥ मतान्तरे च निर्दिष्टाः, सहस्रा दश वादिनाम् । शतैश्चतुर्भिस्ट्यद्धैरधिकाः श्रुतकोविदैः ॥ ४०१ ॥ सत्यवीयो नृपो भक्तो, यक्षः स्यात्तुम्बुरुः स च । चतुर्भुजः श्वेतवर्णः, श्रीमान् गरुडवाहनः ॥ ४०२ ॥ दधानो वरदं शक्तिमपसव्यकरदये । गदां च नागपाशं च, वामहस्तद्रयेऽदधत् ॥ ४०३ ॥ देवी भवेन्महाकाली, स्वर्णवर्णाम्बुजासना । चतुर्भुजा सवरदपाशयाम्यकरद्वया ॥ ४०४ ॥ मातुलिङ्गाङ्कशोपेतवामहस्तद्वयाऽनिशम् । सुमतिप्रभुभक्तानां, पूरयन्ती मनोरथान् ॥ ४०५ ॥
इति श्रीसुमतिः । प्रागभूद्धातकीखण्डे, विजये वत्सनामनि । सुसीमायां महापुर्या, नृपो नाम्नाऽपराजितः ॥ ४०६॥ सोऽभूत्प्रपद्य चारित्रं, सुगुरोः पिहिताश्रवात् । एकत्रिंशत्सागरायुर्देवो ग्रैवेयकेऽन्तिमे ॥ ४०७ ॥ वत्सदेशेषु कौशाम्ब्यां, नगर्यां धरभूपतेः । अभूत्सुत: सुसीमायां, राज्यां पद्मप्रभस्ततः ॥ ४०८ ॥ माघस्य षष्ठी कृष्णाऽथ, द्वादशी च त्रयोदशी । कार्तिकस्यासिता चैत्रपौर्णीमासी ततः पुनः ॥ ००९ ॥ कृष्णा मार्गकादशी च, कल्याणकदिनाः क्रमात् । धिष्ण्यं च पञ्चस्वप्येषु, चित्रासंज्ञकमीरितम् ॥ ४१०॥ षड्वासराधिका मासा, नव गर्भस्थितिः प्रभोः । कन्याराशिश्च विज्ञेयो, लाञ्छनं च सरोरुहम् ॥ ४११ ॥