SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ... 614 लक्षा द्वादश पूर्वाणां, सार्दा: कौमार्यमष्ट च । पूर्वाङ्गान्यथ षट्त्रिंशल्लक्षा: सार्दाश्च राजता ॥ ३६० ॥ पूर्वाङ्गैरष्टभिन्यूँनं, पूर्वलक्षं च साधुता । पञ्चाशत्पूर्वलक्षाणि, सर्वमायुः प्रकीर्तितम् ॥ ३६१ ॥ धनुःशतत्रयं सार्द्ध, प्रज्ञप्तो वपुरुच्छ्रयः । अभिनन्दनदेवस्याभिनन्दितशिवश्रियः ॥ ३६२ ॥ व्रतेऽर्थसिद्धा शिबिका, प्रथमं पारणं प्रभोः । अयोध्यायामिन्द्रदत्तमन्दिरे समजायत ॥ ३६३ ॥ छद्मस्थकालो विज्ञेयो, वर्षाण्यष्टादश प्रभोः । ज्ञानद्रुमः प्रियालः स्यात्, षोडशं गणिनां शतम् ॥ ३६४ ॥ लक्षास्तिस्रो भगवतः, संयत्तानां महात्मनाम् । षड्लक्षाः संयतीनां च, सहनैस्त्रिंशताऽधिकाः ॥ ३६५ ॥ अष्टाशीतिः सहस्राणि, श्राद्धा लक्षद्धयं तथा । श्राविकाणां पञ्चलक्षाः, सहस्रा: सप्तविंशतिः ॥ ३६६ ॥ चतुर्दश सहस्राणि, केवलज्ञानशालिनाम् । एकादश सहस्रा: षट्, शता: सार्दा मनोविदाम् ॥ ३६७ ॥ अवधिज्ञानिनामष्टानवतिः स्युः शतानि च । शतानि पञ्चदश च, स्युश्चतुर्दशपूर्विणाम् ॥ ३६८ ॥ सवैक्रियाणामेकोनविंशतिः स्युः सहस्रका: । एकादश सहस्राणि, वादिनामभवन् विभोः ॥ ३६९ ॥ वज्रनाभो गणधरः, प्रथमः प्रथितः प्रभोः । प्रवर्त्तिन्यजिता मित्रवीर्यो भक्तनृपोऽभवत् ॥ ३७० ॥ मातुलिङ्गाक्षसूत्राढ्यापसव्यकरयामलः । नकुलाशयुग्वामकरयुग्मश्चतुर्भुजः ॥३७१ ॥ ईश्वराख्यो यक्षराजः, श्यामाङ्गो गजवाहन: । अभिनन्दनभक्तानां, करोति कुशलं सदा ॥ ३७२ ॥ बिभ्रती वरदं पाशमपसव्ये करदये । वामे नागाङ्कुशौश्यामकायकान्तिश्चतुर्भुजा ॥ ३७३ ॥ पद्मासना सुरी काली, नाम्ना धाम्नाऽतिभासुरा । वितनोति श्रियां नन्दिमभिनन्दनसेविनाम् ॥ ६७४ ॥ इति श्रीअभिनन्दनः । विजये पुष्कलावत्यां, घातकीखण्डमण्डने । प्राग्विदेहेषु विदिता, नगरी पुण्डरीकिणी ॥ ३७५॥ एवं श्रीवासुपूज्यान्ता, जिना अष्टौ विचक्षणैः । उत्पन्ना: प्राग्विदेहेषु, ज्ञेयाः प्राक्तनजन्मनि ॥ ३७६ ॥ अभूदतिबलस्तत्र, राजा स्वीकृत्य स व्रतम् । सीमन्धरगुरोः पार्श्वे, जयन्ते निर्जरोऽभवत् ॥ ३७७ ॥ स्थितिं तत्र त्रयस्त्रिंशत्सागरामनुभूय च । देशेषु कोशलाख्येषु, पुरे साकेतनामनि ॥ ३७८ ॥ मेघभूपालतनयो, मङ्गलाकुक्षिसंभवः । पञ्चमः सुमतिर्नाम्ना, जिनोऽभूत्क्रौञ्चलाञ्छनः ॥ ३७९ ॥ शुक्ला द्वितीया नभसो, वैशाखस्य सिताष्टमी । तस्यैव नवमी शुक्ला, चैत्रस्यैकादशी सिता ॥ ३८० ॥ चैत्रस्य नवमी शुक्ला, कल्याणकदिनाः क्रमात् । स्याच्चतुषु मघा धिष्ण्यं, पञ्चमे च पुनर्वसुः ॥ ३८१ ॥ प्रभोर्गर्भस्थितिर्मासा, नव षड्वासराधिकाः । धनुःशतत्रयं देहोच्छ्रयो राशि{गाधिपः ॥ ३८२ ॥ अभिनन्दननिर्वाणान्नवभिः कोटिलक्षकैः । चत्वारिंशत्पूर्वलक्षन्यूनैः पाथोधिभिः किल ॥ ३८३ ॥ सुमतेरभवज्जन्म, शेषे तुर्यारकस्य च । चत्वारिंशत्पूर्वलक्षाधिकेऽब्धिकोटिलक्षके ॥ ३८४ ॥ हेतोरेकस्य पुत्रस्य, सपन्योरुभयोरभूत् । विवाद एकदा भूयान्, मृते पत्यौ धनाशया ॥ ३८५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy