SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ 611 उक्तं च- “विसमुत्तराए पढमा, एवमसखा विसमुत्तरा नेया । सव्वत्थवि अंतिल्लं अन्ना आइमं ठाणं ॥ अउणत्तीसं वारा ठावेउं नत्थि पढमि उक्खेवो । सेसे अडवीसाए सव्वत्थ दुगाइओ वो ॥ सिवगइपढमादीए बीयाए तह य होइ सव्वट्ठे । इय एगंतरियाए सिवगइसब्बठ्ठठाणाई ॥ एवमसंखिज्जाओ चित्तंतरगंडिया मुणेयव्वा । जाव जिअसत्तुराया अजिअजिणपिआ समुप्पन्नो” ॥ एवं - सर्वार्थसिद्धनिर्वाणे, विहायान्यगतिष्विति । ययौ न पट्टभृत्कोऽपि, वंशे श्रीवृषभप्रभोः ॥ २९२ ॥ सर्वार्थसिद्धशब्दोऽत्र, रूढोऽनुत्तरपञ्चके । अवकाशो भवत्यत्रैतावतामन्यथा कथम् ।। २९३ ।। उक्तं च-“सर्वार्थशब्देन पञ्चानुत्तरविमानानि लभ्यन्त इति सिद्धदण्डिकास्तोत्रावचूर्णौ ” । एवं चअनुलोमा १ विलोमा २ च, समसङ्ख्या ३ ततः परा । एकद्वित्र्युत्तरा ६ एकादिकाः स्युर्विषमोत्तराः ॥ २९४ ॥ एताश्च सप्तधा सिद्धदण्डिकाः पूर्वमुक्तवान् । चक्रिणः सगराख्यस्य, सुबुद्धिः सचिवाग्रणीः ॥ २९५ ॥ अष्टापदाद्रियात्रार्थं, गतैः सगरनन्दनैः । गतिं वृषभवंश्यानां, पृष्ट ऐतिह्यकोविदः ॥ २९६ ।। एवं च- स नवाशीतिपक्षेषु, पञ्चाशल्लक्षकोटिषु । द्वासप्ततिपूर्वलक्षन्यूनेषु जलधिष्विह ॥ २९७ ॥ अतिक्रान्तेषु वृषभप्रभोर्निर्वाणकाः अजायत जिनः श्रीमानजितो जितकल्मषः ॥ २९८ ॥ अजायन्तारके 'तुर्ये, निर्वृते त्वजितप्रभौ । परिपूर्णाः पयोधीनां पञ्चाशल्लक्षकोटयः ॥ २९९ ॥ जम्बूद्वीपे पुराऽत्रैव, प्राग्विदेहविभूषणे । वत्साख्ये विजये शीतानद्या याम्यतटस्थिते ॥ ३००॥ सुसीमायामभूत्पुर्यां, राजा विमलवाहनः । प्रवव्राजारिदमनगुरोः पार्श्वे स शुद्धधीः ॥ ३०१ ॥ मृत्वोत्पन्नश्च विजयविमानेऽमृतभुक्तया । त्रयस्त्रिंशत्सागरायुर्भुक्त्वाऽभूदजितो जिनः ॥ ३०२ ॥ पूरयोध्या कोशलेषु, जितशत्रुः प्रभोः पिता । विजया जननी राशिर्वृषो हस्ती च लाञ्छनम् ॥ ३०३ ॥ राधशुक्लत्रयोदश्यां, माघेऽष्टम्यां सितत्विषि । माघे नवम्यां पौषे चैकादश्यां विमलद्युतौ ॥ चैत्रस्य शुक्लपञ्चम्यां, पञ्च कल्याणकान्यथ । चतुर्षु रोहिणी भं स्यान्मृगशीर्षं च पञ्चमे ॥ ३०५ ॥ सर्वेषां च्यवनं स्वर्गाज्जायते जन्म चार्हताम् । अर्द्धरात्र एव वेलानैयत्यं न व्रतादिषु ॥ ३०६ ॥ अहोभिः पञ्चभिर्न्यूना, मासा गर्भस्थितौ नव । ततः कृतजनानन्दं जन्माभूदजितप्रभोः ॥ ३०७ ॥ द्वासप्तत्या पूर्वलक्षैरधिके तेजसाऽधिकः । शेषे तुर्यारकस्यार्द्धे, जातोऽसौ जगदीश्वरः ॥ ३०८ ॥ अत्र तुर्यारकस्यार्द्धे द्वाचत्वारिंशद्वर्षसहस्रोनपञ्चाशल्लक्षकोटिसागरोपममानमवसेयं । रागाद्यैर्न जितो यस्माद्गर्भस्थे वा प्रभौ प्रसूः । द्यूते यन्न जिता पत्या, ततोऽभूदजिताभिधः ॥ ३०९ ॥ अष्टादश पूर्वलक्षाः, कौमार्यमभवत्प्रभोः । त्रिपञ्चाशत्पूर्वलक्षाः, सपूर्वाङ्गा नरेन्द्रता ॥ ३१० ॥ धनुःशतानि सार्द्धानि, चत्वारि वपुरुच्छ्रयः । सुप्रभाख्या च शिबिका, व्रतकालेऽभवत्प्रभोः ॥ ३११ ॥ ब्रह्मदत्तगृहेऽयोध्यापुरे प्रथमपारणा । छाद्मस्थ्यं द्वादशाब्दानि, ज्ञानं सप्तच्छदे तरौ ।। ३१२ ॥ ३०४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy