SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ 610 एकस्ततः परं मुक्तौ, सर्वार्थे च चतुष्टयम् । मुक्तौ जग्मुस्ततः सप्त, सर्वार्थे च ततो दश ॥ २७२ ॥ एवं त्र्युत्तस्या वृद्ध्याऽसङ्ख्येयाः स्युर्द्वयोरपि । तृतीया त्र्युत्तरैकादिः, स्याच्चित्रान्तरदण्डिका ॥ २७३ ॥ चतुर्थी च विचित्रा स्यात्तस्याः पूर्वमहर्षिभिः । उपायोज्यं वक्ष्यमाणः, परिज्ञानाय दर्शितः ॥ २७४ ॥ एक ऊर्ध्वमधश्चैकः, पुनरुर्ध्वमधः पुनः । ऊर्ध्वाधः परिपाट्यैवमेकोनत्रिंशतं त्रिकान् ॥ २७५ ॥ स्थापयेत्प्रथमे चात्र, प्रक्षिपेन्नैव किञ्चन । प्रक्षेपाः स्युः क्रमादेते, द्वितीयादित्रिकेषु तु ॥ २७६ ।। “दुग पण नवगं तेरस, सत्तरस दुवीस छच्च अट्ठेव । बारस चउदस तह अट्ठवीस छब्बीस पणवीसा । एक्कारस तेवीसा सीयाला सत्तरि सत्तहत्तरिया । इग दुग सत्तासीई इगहत्तरि मेव बावट्ठी ॥ अउत्तर चउवीसा छायाल सयं तहेव छब्बीसा । एए किर पक्खेवा बीअतिगाईसु अणु ॥ [ सिद्धिदण्डिकास्तव गाथा ९, १०, ११] क्षेपेष्वमीषु क्षिप्तेषु यद्रूपाः स्युस्त्रिका इमे । क्रमात्तावन्तस्तावन्तः, सिद्धिसर्वार्थसिद्धयोः ॥ २७७ ॥ त्रयो मुक्तौ ततः पञ्च, सर्वार्थेऽष्टौ ततः शिवे । ततो द्वादश सर्वार्थे, ततः षोडश निर्वृतौ ॥ २७८ ॥ इत्येवमेकोनत्रिंशत्तमे स्थाने ययुः शिवम् | एकोनत्रिंशदेषाऽऽद्या, विषमोत्तरदण्डिका ॥ २७९ ॥ उक्तं च - “ सिवगइसव्वट्ठेहिं दो दो ठाणा विसमुत्तरा नेया । जाव उणतीसठाणे गुणतीसं पुण छवीसाए” ॥ अत्र जावेत्यादि यावदेकोनत्रिंशत्तमे स्थाने त्रिकरूपे षड्विंशतौ प्रक्षिप्तायामेकोनत्रिंशद्भवन्ति । ततो भवेद् द्वितीयेह, विषमोत्तरदण्डिका । पूर्वाचार्योदिताम्नायात्, श्रूयतां सा विभाव्यते ॥ २८० ॥ प्रथमाया दण्डिकाया, अङ्कस्थानं यदन्तिमम् । एकोनत्रिंशतं वारान्, तल्लिखित्वा यथाक्रमम् ।। २८१ ॥ प्राग्वदाद्यं परित्यज्य, द्वितीयादिपदेषु च । प्रागुक्तक्षेपकक्षेपे, सङ्ख्या भवति यावती ॥ २८२ ॥ तावन्तः सर्वार्थसिद्धसिद्ध्योज्ञेया यथाक्रमम् । एवं भवन्त्यसंख्येया, विषमोत्तरदण्डिकाः ॥ २८३ ॥ आद्यायामादिमं स्थानं, निर्वाणगतसूचकम् । द्वितीयायां दण्डिकायां, सर्वार्थगतसूचकम् ॥ २८४ ॥ तृतीयायां दण्डिकायां, पुनर्मुक्तिनिरूपकम् । चतुर्थ्यां चादिमं स्थानं, पुनः सर्वार्थसूचकम् ॥ २८५ ॥ द्वितीयायां यथैकोनत्रिंशद्रूपेऽङ्कके क्रमात् । एकोनत्रिंशत वारान्, लिखिते क्षेपकेषु च पूर्वोक्तेषु योजितेषु, सर्वार्थसिद्धमोक्षयोः । गतानां जायते संख्या, सा चैवं भाव्यते क्रमात् ॥ २८७ ॥ एकोनत्रिंशदत्रादौ, सर्वार्थे प्रययुस्ततः । एकत्रिंशद्ययुः सिद्धिं द्विकक्षेपकयोगतः ॥ २८८ ॥ सर्वार्थे च चतुस्त्रिंशदष्टात्रिंशत्ततः शिवे । पर्यन्ते पञ्चपञ्चाशत्, सर्वार्थेऽत्र ययुर्नृपाः ॥ २८९ ॥ एकोनत्रिंशतं वारान्, पञ्चपञ्चाशतं न्यसेत् । पूर्वोक्तक्षेपकक्षेपाद्भाव्या तृतीयदण्डिका ॥ २९० ॥ क्षेपकास्तु सर्वास्वपि दण्डिकासु 'दुगपणनवगं' इत्यादयः पूर्वोक्ता एव ज्ञेयाः । भाव्या एवमसङ्ख्येया, विषमोत्तरदण्डिकाः । तावद्यावत्समुत्पन्नः, पिता श्रीअजितार्हतः ॥ २९१ ॥ ॥ २८६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy