________________
609
पुनर्निरन्तरं जग्मुः सिद्धिं लक्षाश्चतुर्दश । एकसर्वार्थसिद्धिऽगात् पुनरेवमिति क्रमः ॥ २५३ ॥ तावद्यावदसंख्याः स्युर्नृपाः सर्वार्थसिद्धिगाः । चतुर्दशचतुर्दशलक्षव्यवहिता अपि ॥ २५४ ॥ ततः पुनर्ययुर्मुक्तिं नृपलक्षाश्चतुर्दश । द्वौ च सर्वार्थसिद्धेऽथ, मुक्तिं लक्षाश्चतुर्दश ।। २५५ ।। भूयः सर्वार्थसिद्धे दौ, मुक्तौ लक्षाश्चतुर्दश । यावच्च द्विकसंख्याका, असंख्येया भवन्ति ते ॥ २५६ ॥ एवमन्तरिता लक्षैश्चतुर्दशभिरन्तरा । निरन्तरं नृपवरैर्गच्छद्भिः पदमव्ययम् ।। २५७ ।। स्युः प्रत्येकमसंख्येया, एवं त्रिचतुरादयः । पञ्चाशदन्ताः सर्वार्थसिद्धिं प्राप्ता महाशयाः ॥ २५८ ॥
उक्तं च- “ चउदसलक्खा सिद्धा, निवईणेक्को य होइ सब्बठ्ठे । एवं एकट्ठाणे पुरिसजुगा होतऽसंखेज्जा ॥ पुणरवि चोइसलक्खा, सिद्धा निवईण दोवि सब्बठ्ठे । दुगठाणेवि असंखा पुरिसजुगा होति नायव्वा ॥ जाव य लक्खा चोइस सिद्धा पन्नास होति सव्वट्टे । पन्नासट्टाणे वि हु
पुरिसजुगा होतऽसंखेज्जा” ॥ [ सिद्धिदण्डिकास्तवस्य संग्रह गाथा १, २, ३]
अनुलोमा भवेत्सिद्धदण्डिकेयमितोऽन्यथा । रीत्याऽनयैव भवति, विलोमा सिद्धदण्डिका ॥ २५९ ॥ तथाहि—सर्वार्थसिद्धे प्रथमं ययुर्लक्षाश्चतुर्दश । तत एकोऽगमत्सिद्धिं, पुनर्लक्षाश्चतुर्दश ॥ २६० ॥ सर्वार्थं जग्मुरेवं च, स्युरेकैकेऽप्यसंख्यकाः । मुक्ताश्चतुर्दश चतुर्दशलक्षकृतान्तराः ॥ २६१ ॥ एवं पञ्चाशदन्तानां विमुक्तानां निरंतरम् । स्यात्प्रत्येकमसङ्ख्यानां, विलोमा सिद्धदण्डिका ॥ २६२ ॥ उक्तं च- “विवरीयं सव्वट्टे चउदसलक्खाउ निब्बुओ एगो । सच्चेव य परिवाडी पन्नासा जाव सिद्धी” ॥
मुक्तौ सर्वार्थसिद्धे च द्वे द्वे लक्षे निरन्तरम् । ययुस्ते समसङ्ख्याका एवं त्रिचतुरादयः ॥ २६३ ॥ यावल्लक्षा असङ्ख्येयाः, स्युस्तुल्या उभयोरपि । समसङ्ख्या भवेत्सिद्धदण्डिकेयं तृतीयिका ॥ २६४ ॥ उक्तं च- “ तेण परं दुदुलक्खाइ दो दो ठाणाइ समग वच्चंति । सिवगइसव्बठ्ठेहिं इणमो तेंसि विहा होई || दो लक्खा सिद्धीए दो लक्खा नवईण सब्बट्टे । एवं तिलक्ख चउ पञ्च जाव लक्खा असंखिज्जा” ॥ [सिद्धिदण्डिकायाः संग्रहगाथा ४ ]
ततश्चित्रान्तराः ख्याताश्चतस्रः सिद्धदण्डिकाः । एकादिरेकाभ्यधिका, तत्राद्या सिद्धदण्डिका ॥ २६५ ॥ एकादिद्युत्तराऽन्या स्यादेकादिस्त्र्युत्तरा परा । स्यात्सिद्धदण्डिका तुर्या, द्वित्र्यादिविषमोत्तरा ॥ २६६ ॥ आदावेको ययौ मुक्तिं, द्वौ सर्वार्थेषु जग्मतुः । ततस्त्रयो ययुर्मुक्तिं, सर्वार्थेऽथ चतुष्टयम् ॥ २६७ ॥ इत्येकोत्तरया वृद्ध्या, मुक्तिसर्वार्थसिद्धयोः । तावद्वाच्या असङ्ख्येयाः स्युर्यावत्ते द्वयोरपि ॥ २६८ ॥ इयमेकोत्तरैकादिः स्याच्चित्रान्तरदण्डिका । द्वितीया युत्तरैकादिः साऽप्येवं परिभाव्यते ॥ २६९ ॥ आदावेको ययौ मुक्तिं, सर्वार्थे च ततस्त्रयः । ततो मुक्तौ ययुः पञ्च, सर्वार्थे सप्त ते ययुः ॥ २७० ॥ एवं युत्तरया वृद्ध्या, मुक्तिसर्वार्थसिद्धयोः । यावद्भवन्त्यसङ्ख्येयास्तावद्धाच्या द्वयोरपि ॥
२७१ ॥