________________
608
अत्र चितादिस्वरूपमेवमावश्यकवृत्तौ हारिभद्यां- पूर्वेण भगवतश्चिता वृत्ता, दक्षिणेनेक्ष्वाकूणां चिता त्र्यस्रा, अपरेण शेषसाधुचिता चतुरस्रा, ततोऽग्निकुमारा वदनैः खल्वग्नि प्रक्षिप्तवंत लोकेऽग्निमुखा देवा इति प्रसिद्धमित्यादि । [ श्लो. ४३५ टीका ] प्रभोश्चिताग्निमसकृद्याचिता माहनैः सुराः । आहुस्तान् याचकांस्ते च तथैव प्रथिता भुवि ॥ २३२ ॥ सदाऽनिर्वाणमग्निं तं धृत्वा कुण्डेषु वेश्मसु । त्रिसंध्यं पूजयन्तस्ते, संजाता आहिताग्नयः ॥ २३३ ॥ अर्हदैक्ष्वाकान्यसाधुचितात्रयसमुद्भवः । त्रिविधोऽग्निः कष्टपापहरोऽभूदग्निहोत्रणाम् ॥ २३४ ॥ अथ वार्द्धकिरत्नेन, भरतस्तत्र पर्वते । अचीकरज्जिनगृहं, गव्यूतत्रितयोच्छ्रितम् ॥ २३५ ।। योजनायामतदर्द्धविष्कम्भं तच्चतुर्मुखम् । चतुर्विंशत्यर्हदर्चा, मानवर्णान्विता दधौ ॥ २३६ ॥ तस्मिन् सिंहनिषद्याख्ये, प्रासादे भरतेश्वरः । अकारयज्जिनार्चानां, प्रतिष्ठां मुनिपुङ्गवैः ॥ २३७ ॥ भ्रातॄणां नवनवते:, प्रतिमामात्मनोऽपि च । तथा स्तूपशतं तत्र, चितास्थानेष्वरीरचत् ॥ २३८ ॥ नवनवतेर्भ्रातॄणामेकं स्तूपं जगद्गुरोः । मा कार्षीत्कश्चिदाक्रामन्नेतदाशातनामिति ॥ २३९ ॥ संतक्ष्य दण्डरत्नेन, परितोऽष्टापदं गिरिम् । अष्टौ योजनमानास्तन्मेखलाः स व्यरीरचत् ॥ २४० ॥ चक्रे लोहमयान् यन्त्रपुरुषान् द्वारपालकान् । ततः क्रमेण सगरात्मजैर्वंश्यानुरागतः ॥ २४१ ॥ कृताऽत्र दण्डरत्नेन, परिखा दिव्यशक्तिना । भगीरथेन सा गङ्गाजलौघैः पूरिता ततः ॥ २४२ ॥ अथ प्रकृतं पुत्रपौत्रादिका शिष्यप्रशिष्याद्येति च द्विधा । नाभेयस्य भगवतोऽभवत्पट्टपरम्परा ॥ २४३ ॥ तत्र शिष्यप्रशिष्यादिपारम्पर्यव्यपेक्षया । पट्टाधिपाः प्रभोः संख्यातीताः प्रापुः परं पदम् ॥ २४४ ॥ आदित्ययशआदीनां या तु निर्वाणपद्धतिः । सर्वार्थसिद्धांतरिता, नन्दिसूत्रादिषूदिता ॥ २४५ ॥ सापेक्ष्य पुत्रपौत्रादीन्, पट्टेशान् कोशलापतीन् । प्रतिलोमानुलोमादिस्तत्रैवं सिद्धदण्डिका ॥ २४६ ॥ पट्टे वृषभदेवस्य प्रथमं भरतेश्वरः । आदर्शगृहसंप्राप्तकेवलो निर्वृतिं ययौ ॥ २४७ ॥ ततो राजाऽऽदित्ययशास्ततो राजा महायशाः । ततश्चातिबलो राजा, ततो राजा महाबलः ॥ २४८ ॥ तेजोवीर्यः कीर्तिवीर्यो, दण्डवीर्यो महीपतिः । जलवीर्यश्चेति भूपाः ख्याता वृषभवंशजाः ॥ २४९ ॥
अयं स्थानाङ्गाभिप्रायेण नामक्रमः, आवश्यके तु — “राया आइच्चजसे महाजसे अतिबले य बलभद्दे । बलविरिय कित्तिविरिए जलविरिए दंडविरिए य” ॥
इह चान्यथात्वमेकस्यापि नामांतरभावाद्गाथानुलोम्याच्च संभाव्यत इति स्थानाङ्गवृत्तौ । एभिरेवाष्टभिर्मौलावधारि मुकुटः प्रभोः । वोढुं नाशक्यतान्यैस्तु, क्रमाद्धीनवपुर्बलैः ॥ २५० ॥ भुक्त्वैते भरतार्द्धस्य, राज्यमादर्शसद्मनि । केवलं प्राप्य प्रपन्नमुनिवेषाः शिवं ययुः ॥ २५१ ॥ एवं निरन्तरं सिद्धिं ययुर्लक्षाश्चतुर्दश । ततः सर्वार्थसिद्धेऽगादेकस्तस्यान्वये नृपः ॥ २५२ ॥