________________
607
तत्रादित्ययशाः कुर्वन्, षष्ठे मासि परीक्षणम् । चकार काकिणीरत्नाभावाच्चिद्रं सुवर्णजम् ॥ २०६ ॥ महायशः प्रभृतयः, केचिद्रूप्यमयं ततः । पट्टसूत्रमयं केचित्ततः सूत्रमयं परे ॥ २०७ ॥ यज्ञोपवीतमेतेषां, तदद्यापि प्रवर्तते । त्रितन्तुकं पूर्वरुढ्या, तत्त्वशून्यात्मनामपि ॥ २०८ ॥ साधुमार्गव्यवच्छेदादथ कालेन गच्छता । द्विजा मिथ्यात्विनोऽभूवन, केऽप्यासन् श्रावका अपि ॥ २०९ ॥ क्रमात् पर्वतसुलसपिप्पलादादिभिः कृताः । वेदा अनार्यास्ते यज्ञजीवहिंसादिदूषिताः ॥ २१० ॥ प्रभोरभूवंश्चतुरशीतिर्गणधरोत्तमाः । पुण्डरीकप्रभृतयो, गणास्तावन्त एव च ॥ २११ ॥
कल्पसूत्रे च प्रथमगणधर ऋषभसेन इत्यभिधीयते, पुण्डरीकस्यैव नामान्तरमिदमित्यन्ये. स्वदीक्षिताश्च चतुरशीतिः साधुसहस्रकाः । ब्राह्मीसुन्दर्यादिसाध्वी, लक्षास्तिनः प्रकीर्तिताः ॥ २१२ ॥ श्रेयांसादिश्राद्धलक्षत्रयी पञ्चसहस्रयुक् । सुभद्रादिश्राविकाणां पञ्च लक्षास्तथोपरि ॥ २१३ ॥ चतुष्पञ्चाशत्सहस्राः, केवलज्ञानिनां पुनः । स्युर्विशतिः सहस्राणि, लोकालोकावलोकिनाम् ॥ २१४ ॥ सकलाक्षरसंयोगविच्चतुर्दशपूर्विणाम् । चतुःसहस्री संयुक्ता, पञ्चाशैः सप्तभिः शतैः ॥ २१५ ॥ अवधिज्ञानभाजां तु, सहस्राणि नवाभवन् । शता वैक्रियलब्धीनां, षट् सहस्राश्च विंशतिः ॥ २१६ ॥ मन:पर्यायभाजां च, सहस्रा द्वादशोपरि । पञ्चाशा: षट्शता ज्ञेयाः, पञ्चाशा: सप्त वा शताः ॥ २१७ ॥ वादिनां च सहस्रा बादशाऽध्यमा॑श्च षट्शताः । निग्रंथानां सहस्राणि, मुक्तिं प्राप्तानि विंशतिः ॥ २१८ ॥ मुक्तिं प्राप्ताश्च साध्वीनां, चत्वारिंशत्सहस्रका: । स्वदीक्षितापेक्षयैषा, सङ्ख्या सर्वा भवेदिह ॥ २१९ ॥ द्वाविंशतिः सहस्राणि, शतानि च नवोपरि । अनुत्तरविमानेषूत्पन्नान्यन्तिषदां प्रभोः ॥ २२० ॥ पञ्चचापशत्तोत्तुङ्ग, स्वर्णरुक् वृषलाञ्छनः । व्यहार्षीत्पूर्वलक्षं स, सहस्राब्दोनितं भुवि ॥ २२१ ॥ सच्छ्रीरोमकृताकारमर्हतां लाञ्छनं भवेत् । व्यक्त्योपलक्ष्यावयवं, वृषभतुरगादिकम् ॥ २२२ ॥ वरदं चाक्षमालां चापसव्यकरयोर्दधत् । मातुलिङ्गं पाशकं च, बिभ्रद्धामकरद्रये ॥ २२३ ॥ यक्षः श्रीगोमुखः स्वर्णवर्णाङ्गो गजवाहनः । चतुर्भुजो जयत्यादिदेवसेवकवत्सलः ॥ २२४ ॥ वामे धनुर्वज्रचक्राडूशान् पाणिचतुष्टये । दक्षिणे वरदं बाणं, चक्रं पाशं च बिभ्रती ॥ २२५ ॥ देवी चक्रेश्वरी नाम्नाऽप्रतिचक्रा मतांतरे । जयत्यष्टभुजा ताय॑वाहना कनकद्युतिः ॥ २२६ ॥ पूर्वाणां लक्षमित्येकं, श्रामण्यं परिपाल्य सः । अष्टापदं महाशैलं, जगाम विहरन् विभुः ॥ २२७ ॥ तत्रोत्तमानगाराणां सहस्रैर्दशभिः सह । विधायानशनं षड्भिरूपवासैरपानकैः ॥ २२८ ॥ माघासितत्रयोदश्यां, धिष्ण्ये चाभिजिदाहये । पूर्वाहे प्राप पर्यङ्कासनस्थः परमं पदम् ॥ २२९ ॥ तत: पूर्वोक्तविधिना, शक्राद्यैः समहोत्सवम् । प्रभोः कृतेऽङ्गसंस्कारे, गृहीतेषु च सक्थिषु ॥ २३० ॥ चक्रिरे भस्मना तेन, तिलकानि नृपादयः । ततः शेषा यथालाभं, भस्ममिश्रमृदादिभिः ॥ २३१ ॥