________________
606
शतानि पञ्च पुत्राणां, सप्त नप्तृशतानि च । भरतस्याद्यसमवसरणे प्राव्रजन् प्रभोः ॥ १७९ ॥ अष्टापदाद्रौ समवसृते च श्रीजिनेऽन्यदा । भरतोऽढौकयद्भोज्यमनसां पञ्चभिः शतैः ॥ १८० ॥ राजपिण्डोऽभ्याहृतश्च, न यतिग्रहणोचितः । इत्युक्ते स्वामिना ख्रिन्नो, भरतोऽथ हरिस्तदा ॥ १८१ ॥ पप्रच्छावग्रहं प्रोचे, भगवांस्तं च पञ्चधा । इंद्रस्य चक्रिणो राज्ञो, गृहेशस्य सधर्मणः ॥ १८२ ॥ बाध्यते पूर्वपूर्वोऽयमण्यायेण यथोत्तरम् । यथेन्द्रावग्रहश्चत्र्यवग्रहेणेह बाध्यते ॥ १८३ ॥ अथ शक्रो विहरतां, श्रमणानामवग्रहम् । अनुजज्ञे ततस्तुष्टो, भरतोऽपि तथाऽकरोत् ॥ १८४ ॥ पप्रच्छ भरतोऽथेन्द्र, रूपं कीदृगकृत्रिमम् । भवतां ? वर्णिकायै चाङ्गलीमेषोऽप्यदीदृशत् ॥ १८५ ॥ अष्टाहिकोत्सवं चक्रे, मुदितो भरतस्ततः । धजोत्सव: प्रववृते, स एवेन्द्रमहोत्सवः ॥ १८६ ॥ आहारेणोपनीतेनामुनाऽथ विदधामि किम् । अवादीद्भरतेनेति, पृष्टः स्पष्टं सुरेश्वरः ॥ १८७ ॥ गुणाधिकेभ्यः श्राद्धेभ्यः, श्रद्धया दीयतामिति । भरतः श्रावकान् भक्त्याहूतेत्यूचे कृताञ्जलिः ॥ १८८ ॥ अतः परं भवद्भिर्मे, गृहे भोक्तव्यमिच्छया । कार्यं न कार्यं कृष्यादि, भोज्योपार्जनहेतवे ॥ १८९ ॥ आसितव्यं सदा स्वस्थैः, शास्त्रस्वाध्यायतत्परैः । मह्यं वाच्यश्चोपदेशः, समक्षं सङ्गताविति ॥ १९० ॥ जितो भवान् वर्द्धते च, भयं मा हन तन्नृप ! । ततस्तेऽपि तथा चक्रुनिश्चिन्ताः सवि॒तस्पृशः ॥ १९१ ॥ सुखसागरमग्नत्वात्प्रमत्तो भरतोऽप्यथ । वचांसि तेषामाकर्ण्य, चेतस्येवं व्यचिन्तयत् ॥ १९२ ॥ एते वदन्ति किं ? हन्त, जितोऽहं कैर्भयं च किम् ? । आः कषायैर्निर्जितोऽहमेभ्य एवैधते भयम् ॥ १९३ ॥ एवं विबोध्यमानस्तैर्भरतेशोतराऽन्तरा । संवेगं याति कर्माणि, श्लथानि कुरुते ततः ॥ १९४ ॥ यथेच्छमप्रयासेन, भोक्तव्यमिति भूरिश: । ख्यापयन्तः श्रावकं स्वमभूवन भोजनार्थिनः ॥ १९५ ॥ ततश्च तावतां भोज्यमुपस्कर्तुमनीश्वराः । व्यजिज्ञपन्नरेंद्राय, सूदास्ते विनयानताः ॥ १९६ ॥ न विद्मो जनबाहुल्यात्क: श्राद्धोऽत्र ? परश्च कः ? । ततश्चेत्यादिशद्राजा, भोज्यास्ते प्रश्नपूर्वकम् ॥ १९७ ॥ अप्राक्षुस्तेऽथ चेयूयं, श्रावकारतर्हि कथ्यताम् । कः श्राद्धधर्म: ? किं तत्त्वत्रयं ? रत्नत्रयं च किम् ? ॥ १९८ ॥ अजानतो निराकृत्य, जानतस्तांश्च चक्रभृत् । रत्नेन काकिणीनाम्ना, चक्रे रेखात्रयाङ्कितान् ॥ १९९ ॥ षष्ठे षष्ठे च मास्येवं, तत्परीक्षां नृपोऽकरोत् । ततस्ते माहना जाताः, पर्यन्तात्तमहाव्रताः ॥ २०० ॥ स्वसुतांस्ते च साधुभ्यो, दत्तवन्तो महाशयाः । अभूवन श्रावकोत्तंसाः, संयमाप्रभविष्णवः ॥ २०१ ॥ तीर्थङ्करस्तुतिप्रायान्, श्राद्धधर्मनिरूपकान् । कृत्वाऽऽर्यान् भरतो वेदान्, तेभ्योऽदात्पाठहेतवे ॥ २०२ ॥ अर्थतांश्चक्रिमान्यत्वात्मन्यते स्म जनोऽखिलः । दानं च पात्रबुद्ध्याऽदाद, द्रव्यवस्त्रगृहादिकम् ॥ २०३ ॥ देवप्रतिष्ठोदाहादि, यद्धर्म्यं यच्च लौकिकम् । तत्तदेतान् पुरस्कृत्य, गृहिकार्यं जनोऽकरोत् ॥ २०४ ॥ इत्यष्टौ पुरुषान् यावदादित्ययशआदिकान् । अभवन्मान्यता तेषां, भोजनं च नृपालये ॥ २०५ ॥