________________
605
घटमिक्षुरसस्यैकं, केनचित्प्राभृतीकृतम् । तदा भगवते सोऽदान्निर्दोषं विशदाशयः ॥ १६८ ॥
___ अत्र चावश्यकचूर्णावेक इक्षुरसघट उक्तः,
पद्मानन्दकाव्यहैमऋषभचरित्रयोस्तु (भक्तामवृत्तावपि) ते बहव उक्ताः सन्तीति ज्ञेयं । पाणिभ्यां च गृहीत्वा तं, प्रभुः पाणिपतद्ग्रहः । वार्षिी पारणां चक्रे, बिन्दुमप्यकिरन् भुवि ॥ १६९ ॥ यत:-“माइज्ज घडसहस्सा, अहवा माइज्ज सागरा सब्वे । जस्से आरिसलद्धी, सो पाणिपडिग्गही होइ” ॥ पञ्चदिव्यान्यजायन्त, प्रससार यशो भुवि । श्रेयांसोपक्रमं पात्रदानं प्रावर्त्तते क्षितौ ॥ १७० ॥
तथोक्तमावश्यकनियुक्तौ- [श्लोक ३१९] “संवच्छरेण लद्धा भिक्खा उसहेण लोगनाहेण । सेसेहिं बीअदिवसे लद्धाउ पढमभिक्खाउ” ॥ अत्र यद्यपि- राधशुक्लतृतीयायां, दानमासीद्यदक्षयम् । पर्वाक्षयतृतीयेति, तदद्यापि प्रवर्तते ॥
इति शत्रुञ्जयमाहात्म्यवचनात्, चैत्रकृष्णाष्टम्या अक्षयतृतीयायां साधिकमासाधिकं वर्ष स्यात्तथापि किञ्चिदाधिक्यस्याविवक्षया वर्षमुक्तमिति संभाव्यते, अत एव भक्तामरवृत्तावुक्तं“साधिकवर्ष चतुसृषु दिक्षु बहल्यादिमण्डलानि विभुः । व्यहरद् मुक्ताहारो मुनिभिक्षा
मूर्खमनुजवशात् ॥ सहस्रमेकं वर्षाणां, विजहार क्षिताविति । प्रमादकालस्तत्राहोरात्रं संकलितोऽभवत् ॥ १७१ ॥ शाखापुरे विनीतायाः, पुरिमतालसंज्ञके । उद्याने शकटमुखे, न्यग्रोधस्य तरोस्तले ॥ १७२ ॥ विहिताष्टमभक्तस्योत्पेदे केवलमुज्ज्वलम् । फाल्गुने श्यामैकादश्यां, पूर्वाणे ध्यानशुद्धितः ॥ १७३ ॥ तदा च मरुदेवाम्बा, साकं भरतचक्रिणा । गजारूढा प्रभुं नन्तुमागच्छन्ती शिवं ययौ ॥ १७४ ॥ एतस्यामवसर्पिण्यां, सिद्धोऽयं प्रथमोऽभवत् । अन्तर्मुहूर्त्तमात्रेण, प्रभोः केवललाभत: ॥ १७५ ॥ मरुदेवाशरीरं च, देवैः सत्कृत्य संस्कृतम् । प्रावर्त्तन्त ततो लोके, शबसत्कृतिसंस्क्रियाः ॥ १७६ ॥ एवं चआदितस्तद्भवेऽष्टानां, निर्वृता मातरोऽर्हताम् । अष्टाष्टौ स्वर्गता: शेषास्तृतीयतुर्ययोः क्रमात् ॥ १७७ ॥ नाभिर्नागकुमारेगात्सप्ताष्टाष्टौ ततः क्रमात् । द्वितीयादिषु नाकेषु, विष्वगुः पितरोऽर्हताम् ॥ १७८ ॥
___ इति प्रवचनसारोद्धारायभिप्राय:, जितशत्रुसुमित्रविजयौ दीक्षितौ सिद्धौ इति तूत्तराध्ययनदीपिकायां. 'जितुशत्रुर्ययौ मुक्तिं सुमित्रस्त्रिदिवं गतः' इति योगशास्त्रवृत्तौ, 'तृप्तो न पुत्रैः
सगर' इति श्लोकवृत्तौ. श्रीवीरमातापित्रोस्तु श्रीआचाराङ्गे द्वादशदेवलोकेऽपि गतिरुक्तेति ज्ञेयं. १ यद्यपि जात्यपेक्षया स्वादेकत्वं परमुपयोग एकस्यैव, तावदाहारस्यौचित्यात्, बहुघटोक्तिस्तु निमन्त्रणापेक्षया । २ अभिवार्धितेऽप्याधिक्यात् । ३ सामान्यतया सर्वकालमपेक्ष्य प्रवचनसारोद्धारोक्तं, आचारांगोक्तं योगशास्त्रोक्तं च विशेषेण, यद्धा भाव्युपचारेण योगार्थन च समाधानं ।