________________
602
द्वादशयोजनायामा, नवयोजनविस्तृता । अष्टद्वारा महाशाला, साऽऽभवत्तोरणोज्ज्वला ॥ ८८ ॥ धनुषां द्वादश शतान्युच्चैस्त्वेऽष्टशतं तले । व्यायामे शतमेकं स, व्यधाद्वप्रं सखातिकम् ॥ ८९ ॥ सौवर्णस्य च तस्योर्ध्वं कपिशीर्षावलिर्बभौ । मणिजाऽमरशैलस्थनक्षत्रालिरिवोद्गता ॥ ९० ॥ चतुरस्राश्च त्र्यस्राश्च, वृत्ताश्च स्वस्तिकास्तथा । मन्दाराः सर्वतोभद्रा, एकभूमा द्विभूमका: ॥ ९१ ॥ त्रिभूमाद्यां सप्तभूमं, यावत्सामान्यभूभुजाम् । प्रासादाः कोटिशस्तत्राभूवन् रत्नसुवर्णजाः ॥ ९२ ॥ दिश्यैशान्यां सप्तभूमं चतुरस्रं हिरण्मयम् । सवप्रखातिकं चक्रे, प्रासादं नाभिभूपतेः ॥ ९३ ॥ दिश्यैनां सर्वतोभद्रं, सप्तभूमं महोन्नतम् । वर्त्तुलं भरतेशस्य, प्रासादं धनदोऽकरोत् ॥ ९४ ॥ आग्नेय्यां भरतस्येव, सौधं बाहुबलेरभूत् । शेषाणां च कुमाराणामन्तरा ह्यभवंस्तयोः ॥ ९५ ॥ तस्यान्तराऽऽदिदेवस्य, चैकविंशतिभूमिकम् । त्रैलोक्यविभ्रमाह्वानं, प्रासादं रत्नराजिभिः ॥ ९६ ॥ सवप्रखातिकं रम्यं, सुवर्णकलशावृतम् । चञ्चद्ध्वजपटव्याजान्नृत्यन्तं निर्ममे हरिः ॥ ९७ ॥ अष्टोत्तरसहस्रेण, मणिजालैरसौ बभौ । तावत्संख्यैर्मुखैर्भूरि, ब्रुवाण इव तद्यशः ॥ ९८ ॥ कल्पद्रुमैर्वृताः सर्वेऽभूवन् सेभहयौकसः । सप्राकारा बृहद्वासः पताकामालभारिणः ॥ ९९ ॥ सुधर्मसदृशी चारुरत्नमय्यभवत्पुरः । युगादिदेवप्रासादात्, सभा सर्वप्रभाभिधा ॥ १०० ॥ चतुर्दिक्षु व्यराजन्त, मणितोरणमालिकाः । पञ्चवर्णप्रभाङ्क रपूरडम्बरिताम्बराः ॥ १०१ ॥ अष्टोत्तर सहस्रेण, मणिबिम्बैर्विभूषितम् । गव्यूतिद्वयमुत्तुङ्गं मणिरत्नहिरण्मयम् ॥ १०२ ॥ नानाभूमिगवाक्षाढ्यं, विचित्रमणिवेदिकम् । प्रासादं जगदीशस्य, व्यधाच्छ्रीद: पुरान्तरा ॥ २०३॥ सामन्तमण्डलीकानां, नन्द्यावर्त्तादयः शुभाः । प्रासादा निर्मितास्तत्र, विचित्रा विश्वकर्मणा ॥ १०४ ॥ अष्टोत्तरसहस्रं तु जिनानां भवनान्यभुः । उच्चैर्ध्वजाग्रसंक्षुब्धतीक्ष्णांशुतुरगाण्यधः ।। १०५ ।। चतुष्पथप्रतिबद्धाश्चतुरशीतिरुच्चकैः । प्रासादाश्चार्हतां रम्या, हिरण्यकलशैर्बभुः ॥ १०६ ॥ सौधानि हिरण्यरत्नमयान्युच्चैः सुमेरुवत् । कौबेर्यां सपताकानि, चक्रे स व्यवहारिणाम् ॥ १०७ ॥ दक्षिणस्यां क्षत्रियाणां सौधानि विविधानि च । अभूवन् शस्त्रागाराणि, तेजांसीव निवासिनां ॥ १०८ ॥ तद्वप्रान्तश्चतुर्दिक्षु, पौराणां सौधकोटयः । व्यराजन्त सद्यानसमानविशदश्रियः ॥ १०९ ॥ सामान्यकारुकाणां च, बहिः प्राकारतोऽभवन् । कोटिसंख्याश्चतुर्दिक्षु, गृहाः सर्वधनाश्रयाः ॥ ११० ॥ अपाच्यां च प्रतीच्यां च कारुकाणां बभुर्गृहाः । एकभूममुखास्त्र्यस्रास्त्रिभूमिं यावदुच्छ्रिताः ॥ १११ ॥ अहोरात्रेण निर्माय, तां पुरीं धनदोऽकिरत् । हिरण्यरत्नधान्यानि वासांस्याभरणानि च ॥ ११२ ॥ सरांसि वापिकूपादीन्, दीर्घिकादेवतालयान् । अन्यच्च सर्वं तत्राहोरात्रेण धनदोऽकरोत् ॥ ११३ ॥ विपिनानि चतुर्दिक्षु, सिद्धार्थ श्रीनिवासके । पुष्पाकरं नन्दनं चाभवन् भूयांसि चान्यतः ॥ ११४ ॥