________________
601
एवं च-इक्ष्वाकुवंशजा ज्ञेया, जिना द्वाविंशतिर्बुधैः । हरिवंशसमुद्भूतौ, श्रीनेमिमुनिसुव्रतौ ॥ ६६ ॥ तदा च दम्पती कौचिद्धिमुच्य सुतनन्दने । तालस्याधः प्राविशतां, क्रीडायै कदलीगृहम् ॥ ६७ ॥ तालत: पतता पक्वफलेन तनयो मृतः । अकालमृत्युरायोऽत्रावसर्पिण्यामभूदयम् ॥ ६८ ॥ अवशिष्टां ततः पुत्री, प्रतिपाल्य दिवं गतौ । युग्मिनौ दम्पती स्वल्पकषायौ तौ शुभाशयौ ॥ ६९ ॥ अथात्यन्तोत्कृष्टरूपां, कन्यामेकाकिनीमिमाम् । दृष्ट्वा न्यवेदयन् युग्मिमनुजा नाभयेऽन्यदा ॥ ७० ॥ भविष्यति सुनन्देयं, ऋषभस्य परिग्रहः । इति प्रज्ञाप्य तान् सर्वान्, नाभिरादृतवानिमाम् ॥७१॥ अथ भोगसमर्थं तं, विज्ञाय जगदीश्वरम् । अकार्षीद्धरिरागत्य, तत्पाणिग्रहणोत्सवम् ॥७२॥ विधिं वरोचितं सर्वमकार्षीत्तत्र वासवः । कन्योचितं द्वयोः कन्योः, शच्योऽकार्षः प्रमोदतः ॥७३॥ ताभ्यां च सह भुञ्जाने, विविधान् विषयान् विभौ । षट्स्वतीतेषु लक्षेषु, पूर्वाणां जन्मकालत: ॥७४॥ पञ्चमानुत्तराच्च्युत्वा, पीठो बाहुश्च युग्मजौ । जातौ सुमङ्गलादेव्यां, ब्राह्मीभरतसंज्ञकौ ॥७५ ॥ महापीठः सुबाहुश्च, सुनंदाकुक्षिसंभवौ । सुंदरीबाहुबल्याख्यावभूतां च सुतासुतौ ॥७६॥ ततः सुमङ्गलैकोनपञ्चाशतमसूत च । पुनर्युग्मानि पुत्राणां, फलानीव घुसल्लता ॥७७ ॥ शतमेवं च पुत्राणा-मभूत्पुत्रीद्धयं प्रभोः । नमिश्च विनमिश्चेति, परौ क्रोडीकृतौ सुतौ ॥ ७८ ॥ युग्मिनां कलहे जातु रीत्या पूर्वोक्तयोत्थिते । निवेदयन्ति तत्सर्व, ज्ञात्वा ज्ञानाधिकं प्रभुम् ॥७९॥ प्रभुरप्याह राजैव, निवारयति दुर्नयात् । स चाभिषिक्तः सर्वेषामैश्वर्याहुरतिक्रमः ॥८॥ स राजाऽस्माकमप्यस्तु, तैरित्युक्तेऽवदत्प्रभुः । नत्वा नाभिं कुलकरं, याचध्वं भूपमीप्सितम् ॥ ८१ ॥ तैर्विज्ञप्तोऽवदन्नाभिर्भूयावृषभ एव वः । राजेति तेऽभिषेकार्थं, यावद्गच्छन्ति वारिणे ॥ ८ ॥ तावत्कम्प्रासनः शक्रोऽभ्यषिञ्चद् द्रुतमागतः । राज्येऽर्हन्तं धृतच्छत्रं, रत्नसिंहासनस्थितम् ॥ ८३॥ अथाम्भः पूर्णनलिनीपत्रभाजनपाणयः । आगस्तास्ते प्रभुं दृष्ट्वा, सर्वालङ्कारभासुरम् ॥ ८४ ॥ विस्मिता मुदिताश्चान्तरुत्कण्ठासंभृता अपि । उद्यदिवेकास्तैनीरैः, प्रभोरस्नपयन पदौ ॥८५॥
तथाऽऽह धनपाल: परमार्हत:-धन्ना सविम्हयं जेहिं झत्ति कयरज्जमज्जणो हरिणा ।
चिरधरियनलिणिपत्ताभिसेअसलिलेहिं दिवो सि” ॥ विनयेन ततस्तेषां, संतुष्टो वासवो भृशम् । विनीतां नगरीमेषां, निवासार्थमरीरचत् ॥८६॥ अस्या: स्वरूपं चैवमाहुःश्रीविभो राज्यसमये, शक्रादेशान्नवां पुरीम् । धनदः स्थापयामास, रत्नचामीकरोत्करैः ॥ ८७ ॥
१ यद्यप्यत्र मातापित्रोजीवतोस्तनयस्य स्वर्गम इति कथनं, अन्यत्र तथा व्यक्तेरभावेऽपि मातापितरयोरुपरतयोः तथात्वसूचनं अन्ययौगलिकैनिवेदनात, उभयथापि मातापितरयोर्मृत्योरनन्तरं निवेदने न विरोधः ।