________________
597
पुत्रशोकादिन्दुमालाऽऽर्यान्तिके प्राव्रजच्च साः ॥ तेऽमराः पालयामासु, शास्त्राण्यध्यापयंश्च तम् । आकाशगामिनी विद्यां, ददुस्तस्मै क्रमेण च ॥ अणुव्रतधरः प्राप, यौवनं च मनोहरम् । स शिखाधारणान्नित्यं, न गृहस्थो न संयतः ॥ कलहप्रेक्षणाकाडी, गीतनृत्यकृतूहली । सदा कन्दर्पकौकुच्यमौखर्यात्यन्तवत्सलः ॥ वीराणां कामुकानां च, संधिविग्रहकारकः । छन्निकाख्यो वृषीपाणिरारूढः पादुकासु च ॥ देवैः स वर्द्धितत्वाच्च, देवर्षिः प्रथितो भुवि । प्रायेण ब्रहाचारी
च, स्वेच्छाचार्येष नारदः ॥ [त्रिषष्ठि पर्व - ७. श्लोक ४०३ थी ४१४] इत्येतदनुसारेण, परेषामपि भाव्यताम् । स्वरूपं नारदर्षीणां, यथासंभवमागमात् ॥ ५४९ ॥
एवं चासौ रामचरित्राद्यनुसारेण सम्यग्दृष्टिरणुव्रतधारी च प्रतीयते.० षष्ठांगे तु तत्कालीनस्य
नारदस्य स्वरूपमेवमुक्तमर्थत:कच्छुल्लो नारदो नाम, दर्शनेनातिभद्रकः । विनीतश्चेष्टयुद्धत्वादम्त:कलुषिताशयः ॥ ५५० ॥ व्रतित्वाद्धृतमाध्यस्थः, श्रितानां प्रियदर्शनः । सुरूपो वल्कवसनो, मुकुटभ्राजिमस्तकः ॥ ५५१ ॥ वक्षःक्लुप्तोत्तरासङ्गः, श्यामेन मृगचर्मणा । यज्ञोपवीतयुक् दण्डी, कमण्डलुं करे दधत् ॥ ५५२ ॥ मौज्जेन कटिसूत्रेण, रुद्राक्षजपमालया । विज्ञ: कच्छपिकापाणिर्गीतगान्धर्वकौतुकी ॥ ५५३ ॥ आकाशगामी सकलभूतलाटनलम्पटः । विविधानां स विद्यानां, निधानं केशवप्रियः ॥५५४ ॥ युद्धप्रियस्तदन्वेषी, जनानामसमाधिकृत् । पार्थिवान्त:पुरादावप्यनिरुद्धगतिस्सदा ॥५५५ ॥ स चाप्रत्याख्यातपापकर्मा विरतिवञ्चितः । पैशुन्यभीरुभिर्भूपैमिथ्यादृगपि पूज्यते ॥५५६ ॥
तथोक्तं षष्ठाङ्गवृत्तौ-“न प्रतिहतानि सागरोपमकोटीकोट्यन्तःप्रवेशनेन सम्यक्त्वलाभतः, न च प्रत्याख्यातानि सागरोपमकोटीकोट्याः संख्यातसागरोपमैन्यूनताकरणेन सर्वविरतिलाभत: पापकर्माणि ज्ञानावरणीयादीनि येन स तथा.” प्रश्नव्याकरणवृत्तावप्युक्तं-"नारदमुनिर्गगनादवततार, अभ्युत्थितश्च सपरिवारेण पाण्डुना, द्रोपद्या तु श्रमणोपासिकात्वेन मिथ्यादृष्टिमुनिरयमिति
कृत्वा नाभ्युत्थित इति । रुद्रा अपि भवन्त्येवमेकादश महोद्धताः । वशीकृतानेकविद्योर्जिताः सम्यक्त्वशालिनः ॥ ५५७ ॥ जघन्यमध्यमोत्कृष्टास्त्रिधा ये पुरुषा भुवि । तेषूत्कृष्टा अमी प्रोक्तास्त्रिधा धर्मादिभेदतः ॥ ५५८ ॥ अर्हन्तो धर्मपुरुषाश्चक्रिणो भोगपुरुषाः । वासुदेवाः पुन: कर्मपुरुषा इति कीर्तिताः ॥ ५५९ ॥ एते यथोक्ताः पुरुषा, विदेहेषु निरन्तरम् । भवन्त्यन्येषु दशसु, भरतैरावतेषु तु ॥ ५६० ॥ स्युः क्रमादवसर्पिण्यामुत्सर्पिण्यां तथोत्क्रमात् । आयुर्वेहादिभिस्तुल्या, जगतामुपकारिणः ॥ ५६१ ॥ इति गदितया रीत्या विश्वे भवन्ति हि चक्रिणो, भुजबलजितस्वस्वक्षेत्राः क्षताखिलशत्रवः ।
१ तेषां सम्यग्दृक्त्वे मिथ्यादृक्त्वे वा न नियमः, श्रूयते चावश्यके श्रीकृष्णकृतो धर्मचर्चायां नारदस्य पृष्टविहरज्जिनस्यापि न्यक्कारः योगसंग्रहे ।