SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ 590 विंशतिं चालान्यस्य, बाहा भवति दैर्ध्यतः । बाहा त्वधः शिरोभागाज्जानुनोरुपरि स्थिता ॥ ४१८ ॥ षोडशाङ्गलजङ्घोऽयं, चतुरङ्गलजानुकः । तावदुच्चखुरोऽशीतिमङ्गलान्येवमुच्छ्रितः ॥ ४१९ ॥ एकन्यूनाङ्गलशतपरिणाहो भवत्यसौ । अष्टोत्तराङ्गलशतदीर्घश्च परिकीर्तितः ॥ ४२० ॥ तुङ्गत्वं स्यात्तुरङ्गाणामाखुरात् श्रवणावधि । पृष्ठोदरस्य परिधिः, परिणाहो भवेदिह ॥ ४२१ ॥ आपुच्छमूलमायामो, मुखादारभ्य कीर्तितः । भवत्यत्राङ्गलं मानविशेषस्तज्ज्ञदर्शितः ॥ ४२२ ॥ इत्यश्वरत्नमाश्रित्य, निर्दिष्टं मानमागमे । लोके त्वन्योत्तमहयापेक्षयेदं तदीरितम् ॥ ४२३ ॥ जघन्यमध्यश्रेष्ठानामश्वानामायतिर्भवेत् । अङ्गलानां शतं हीनं, विंशत्या दशभिस्त्रिभिः ॥ ४२४ ॥ परिणाहोऽङ्गलानि स्यात्सप्ततिः सप्तसप्ततिः । एकाशीतिः समासेन, त्रिविधोऽयं यथाक्रमम् ॥ ४२५ ॥ तथा षष्टिश्चतुःषष्टिरष्टषष्टिः समुच्छ्रयः । द्विपञ्चसप्तकयुता, विंशतिः स्यान्मुखायतिः ॥ ४२६ ॥ इत्यादि । पृष्ठं तस्य भवेदीषन्नतं मृदुलमांसलम् । सल्लक्षणं कशावेत्रलताद्याघातवर्जितम् ॥ ४२७ ॥ अश्वोचितानेकरत्नस्वर्णालङ्कारभासुरः । भवत्यसौ च निर्दोषारौद्रपक्ष्मललोचनः ॥ ४२८ ॥ उदात्तगतिवेगेन, मन:पवनता_जित् । मृणालाम्भोनिश्रयाऽपि, लाघवेन समुत्पतन् ॥ ४२९ ॥ सुकुलोत्थः सुजातिश्च, शुचिः शास्त्रोक्तलक्षण: । तनुस्निग्धोल्लसद्रोमा, मेधावी भद्रकोऽल्परुट् ॥ ४३० ॥ अम्भःपङ्काग्निपाषाणवालुकोल्लङ्घने पटुः । अद्रिगर्तादिविषमपथे जितपरिश्रमः ॥ ४३१ ॥ लत्ताघातास्यदंशादिदुष्टचेष्टाविवर्जितः । रिपुष्वतर्कितापातीस्यात्सुशिष्यवदाश्रयः ॥ ४३२ ॥ कालहेषी रक्ततालुजिह्वो जितपरीषहः । निद्रालुः सर्वदा जागरूकश्च समराङ्गणे ॥ ४३३ ॥ तथोक्तं-“सदैव निद्रावशगा, निद्राछेदश्च वाजिनाम् । जायते संगरे प्राप्ते, कर्करस्य च भक्षणे" ॥ तथाऽऽरोहकसर्वांङ्गसुखावहवपुर्गतिः । प्रशस्तद्वादशावतॊऽनश्रुपाती श्रमेऽपि हि ॥ ४३४ ॥ द्वादशावतश्चिमे वराहोक्ताः- “ये प्रपाणगलकर्णसंस्थिताः, पृष्ठमद्यनयनोपरिस्थिताः । ओष्ठसक्थिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशोभना:” ॥ अत्र प्रपाणमुत्तरोष्ठतलं, सक्थिनी पाश्चात्यपादोजानू परिभागाः, कुक्षिरत्र वामो, दक्षिणकुक्ष्यावर्त्तस्य गर्हितत्वात्, अत्र कर्णनयनादिस्थानानां द्विसंख्याकत्वेऽपि जात्यपेक्षया द्वादशैव स्थानानि, स्थानभेदानुसारेण स्थानिभेदा अपि द्वादशैवेति. तत्र कण्ठे स्थितोऽश्वानां, स्याद्देवमणिसंज्ञकः । महालक्षणमावर्त्तः, केषांञ्चित्पुण्यशालिनाम् ॥ ४३५ ॥ इत्यश्वरत्नं ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy