SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ 589 २१ ॥ असुरः २२ शोष २३ यक्ष्माणौ २४, रोगो २५ ऽहि २६ मुख्य २७ एव च । भल्वाट २८ सोम २९ गिरय ३० स्तथा बाह्येऽदिति ३१ दितिः ३२ ॥ आपा ३३ पवत्सा ३४ वीशाने, सावित्र: ३५ सविता ३६ ग्निगौ । इन्द्र ३७ इन्द्रजयो ३८ ऽन्यस्मिन्, वायौ रुद्रश्च ३९ रुद्रराट् ४० ॥ मध्ये ब्रह्मास्य ४१ चत्वारो, देवा: प्राच्यादिदिग्गताः । अर्यमाख्यो ४२ विवस्वांश्च ४३, मैत्र: ४४ पृथ्वीधरः ४५ क्रमात् ॥ ईशकोणादितो बाह्ये, चरकी १ च विदारिका २ । पूतना ३ पापा ४ राक्षस्यो, हेतुकाद्याश्च निष्पदाः॥ चतुष्पष्टिपदे वास्तु, मध्ये ब्रह्मा चतुष्पदः । अर्यमाद्याश्चतुर्भागा, द्विद्भयंशा मध्यकोणगा: ॥ बहिःकोणेष्वभागाः, शेषा एकपदाः सुराः । एकाशीतिपदे ब्रह्मा, नवार्यावास्तु षट्पदाः ॥ द्विपदा मध्यकोणेऽष्टौ, बाह्ये द्वात्रिंशदेकश: । शते ब्रह्माष्टसंख्यांशो, बाह्यकोणेषु सार्द्धकौ ॥ अर्यमाद्यास्तु वास्त्वंशाः, शेषाः स्युः पूर्ववास्तुवत् । हेमरत्नाक्षताद्यैस्तु, वास्तुक्षेत्राकृति लिखेत् ॥ अभ्यर्च्य पुष्पगन्धायैर्बलिं दध्याज्यमोदनम् । दद्यात्सुरेभ्य: सोकारैर्नमोऽन्तै मभिः पृथक् ॥ वास्त्वारम्भे प्रवेशे च, श्रेयसे वास्तुपूजनम् । अकृते स्वामिनाश: स्यात्तस्मात्पूज्यो हितार्थिभिः ॥ इत्यादि कियद्धास्तुशास्त्रं श्रीजम्बूद्धीपप्रज्ञप्तिसूत्रेऽपि संगृहीतं बोद्धव्यं तथा च सूत्रं“एगासीतिपदेसु सब्बेसु चेव वत्थूसु णेगगुणजाणए, पंडिए विहिण्णू पणयालीसाए देवयाणमित्यादि” वार्द्धकिरत्नस्वरूपनिरूपणे । ऐशान्यां देवगृहं महानसं चापि कार्यमाग्नेय्याम् । नैर्ऋत्यां भाण्डोपस्कारोऽर्थधान्यानि मारुत्याम् ॥ ४०८ ॥ दण्डः प्रकाशे प्रासादे, प्रासादकरसंख्यया । सान्धकारे पुन: कार्यो, मध्यप्रासादमानतः ॥ ४०९ ॥ इत्यादिवास्तुशास्त्रज्ञश्चक्रिरत्नं स वार्द्धकिः । मुहूर्त्तमात्राद्रचयेत्, स्कन्धावारपुरादिकम् ॥ ४१० ॥ इति वार्द्धकिरत्नं । भवेत्पुरोहितो रत्नं, कुर्वन् शान्तिकपौष्टिकम् । चतुर्दशानां विद्यानां, पारदृश्वा सदा शुचिः ॥ ४११ ॥ अनेकगुणसंपूर्णः, कलावान् कुशल: कविः । विज्ञः शब्दादिशास्त्राणां, मन्त्रयन्त्रादिमर्मवित् ॥ ४१२ ॥ इति पुरोहितरत्नं । भवत्यथ गजो रत्नं, सप्ताङ्ग्या भूप्रतिष्ठितः । उत्तुङ्गो भद्रजातीय, ऐरावत इवापर: ॥ ४१३॥ बलीयान्मांसलः शूरः, पटुर्वप्रादिभेदने । दृष्टमात्रोऽपि शत्रूणां, सैन्यशस्त्रादिदर्पहृत् ॥ ४१४ ॥ शास्त्रोक्तैर्लक्षणैर्यक्षैः, प्रशस्तैर्लक्षितः शुचिः । लक्ष्मीलीलागृहं रूपशाली सर्वसमृद्धिकृत् ॥ ४१५ ॥ इति गजरत्नं । अश्वो रत्नं भवेच्चारुप्रकृतिविनयान्वितः । द्वात्रिंशदङ्गलोत्तुङ्गमूर्द्धाऽवस्थितयौवनः ॥ ४१६ ॥ चतुरङ्गलदीर्घोच्चैः, स्तब्धकर्णश्च यौवनात् । पततो हि जरस्यश्वकर्णी नारीकुचाविव ॥ ४१७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy