________________
586
अग्रे तूर्ध्वपङ्क्तिसमं, रिक्त स्थाने तु दीयते । गुरुरेवं कृते भङ्गोऽन्तिमः सर्वलघुर्भवेत् ॥ ३६८ ॥ अथ प्रकृतं -
प्रतिशालाद्यलिन्दाढ्या, दिक् स्याल्लधूपलक्षिता । गुरु द्दिष्टाऽनावृता स्यात्ताश्चतस्रो यथाक्रमम् ।। ३६९ ।। तत्र स्यात्प्रथमे भङ्गे, चतुर्भिर्गुरुभिर्गृहम् । एकोऽपवरकोऽलिन्दवर्जितः स चतुर्दिशम् ॥ ३७० ॥ ध्रुवसंज्ञं गृहं तत्स्याद्धन्यं प्राच्यामलिन्दयुक् । यस्यां दिशि गृहद्वारं, सा च प्राची भवेदिह ।। ३७१ ॥ तथोक्तं विवेकविलासे–“पूर्वादिर्दिग्विनिर्देश्या, गृहद्वारव्यपेक्षया । भास्करोदयदिक् पूर्वा, न विज्ञेया यथा क्षुते” ॥
दक्षिणस्यामलिन्दः स्याद्यत्र तज्जयसंज्ञकम् । एवं स्युः षोडशे भङ्गे चतुर्द्दिशमलिन्दकाः ॥ ३७२ ॥ वास्तुशास्त्रे फलं चैषामेवमाहुः — स्थैर्यं धनं जयः पुत्राः दारिद्यं सर्वसंपदः } मनोहलादः श्रियो युद्धं वैषम्यं बान्धवा धनम् ॥ क्षयश्च मृत्युरारोग्यं सर्वसंपदिति क्रमात् । ध्रुवादीनां फलं ज्ञेयं, सान्वर्थाख्यान्यमून्यतः ” ॥
इयं षोडशभङ्गीह, दिग्मात्रार्थं प्रदर्शिता । एकापवरकादीनां भेदास्त्वेषामनेकशः ॥ ३७३ ॥ उक्तं च रत्नमालाभाष्ये— “ वेश्मनामेकशालानां शतं स्याच्चतुरुत्तरम् । द्विपञ्चाशद् द्विशालानां, त्रिशालानां द्विसप्ततिः " ॥
,
नन्द्यावर्त्तं वर्द्धमानं, स्वस्तिकं च तथा परम् । सर्वतोभद्रमित्याद्याः, स्युर्भेदा वेश्मनां शुभाः ॥ ३७४ ॥
तथाह वराहः— नन्द्यावर्त्तमलिन्दैः शालाकुड्यात्प्रदक्षिणान्तगतैः । द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि ।। द्वारोऽलिन्दान्तगतः प्रदक्षिणोन्यः शुभस्ततश्चान्यः । तस्मिंश्च वर्द्धमाने द्वारं तु न दक्षिणं कार्यम् ॥ अपरान्तगतोऽलिन्दः प्रागन्तगतौ तदुत्थितौ चान्यौ । तदवधिविधृतश्चान्यः प्राग्द्वारं स्वस्तिकं शुभदं । अप्रतिषिद्धालिन्दं समन्ततो वास्तु सर्वतोभद्रम् । नृपविबुधसमूहानां कार्यं द्वारैश्चतुर्भिरपि ॥
तथा - वास्तुक्षेत्रोद्गतैर्वल्लीवृक्षैर्भूखातपूरितैः । वेश्माभ्युदयिकं दुःखकृद्धा वेत्ति विचक्षणः ॥ ३७५ ॥ आसन्नफलदा वास्तुप्ररूढा गर्भिणी लता । अनासन्नफला कन्या, वन्ध्या भवति निष्फला ।। ३७६ ॥ वृक्षा: प्लक्षवटाश्वत्थोदुम्बराद्याः शुभाः स्मृताः । अप्रशस्ताः कण्टकिनो, रिपुचौरादिभीतिदाः || ३७७ ॥ तथाऽऽह वराहः-“शस्तौषधिद्रुमलतामधुरा सुगन्धा, स्निग्धाऽसमानशुषिरा च मही नराणां । अप्यध्वनि श्रमविनोदमुपागतानां धत्ते श्रियं किमुत शाश्वतमंदिरेषु ” ? ॥
विज्ञो वास्तुष्वथायर्क्षव्ययांशादीन् विचारयेत् । अमीभिरनुकूलैर्यत्, स्यादभ्युदयकृद्गृहम् ॥ ३७८ ॥ विविक्षिते गृहक्षेत्रे, विस्तारो योऽङ्गुलात्मकः । दैर्घ्यणाङ्गुलरूपेण, गुण्यते जायतेऽथ यत् ॥ ३७९ ॥ तत्स्यात्क्षेत्रफलं तस्मिन्नष्टभक्तेऽधिकं च यत् । तद्द्ड़्मानस्तत्रायस्तेषां नामक्रमस्त्वयम् ॥ ३८० ॥