________________
584
“चतुरंगुलो मणी पुण तस्सद्धं चेव होइ विच्छिण्णो । चउरंगुलप्पमाणा सुवण्णवरकागणी नेया ॥”
इहाङ्गलं प्रमाणाङ्गलमवगन्तव्यं, सर्वचक्रवर्तिनामपि काकिण्यादिरत्नानां तुल्यप्रमाणत्वादिति मलयगिरिकृतबृहत्संग्रहणी, बृहद्वृत्तिवचनाच्च केचनास्य प्रमाणाइलनिष्पन्नत्वं, केचिच्च “एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स अट्ठसोवण्णिए कागणिरयणे छत्तले दुवालसंसिए अठ्ठकण्णिए अहिगरणिसंठाणसंठिए पण्णत्ते, तस्स णं एगमेगा कोडी उस्सेहंगुलविक्रखंभा तं समणस्स भगवओ महावीरस्स अद्धंगुलं, इत्यनुयोगदारसूत्रबलादुत्सेधाङ्गलनिष्पन्नत्वं, केऽपि चैतानि सप्तैकेन्द्रियरत्नानि सर्वचक्रवर्तिनामात्माङ्गलेन ज्ञेयानि, शेषाणि तु सप्त पञ्चेन्द्रियरत्नानि तत्कालीनपुरुषोचितमानानीति । प्रवचनसारोद्धावृत्तिबलादात्माङ्गुलनिष्पन्नत्वमाहुः,”
अत्र च पक्षत्रये निर्णयः सर्वविद्वेद्यः, अत्र तु बहु वक्तव्यं, तत्तु ग्रन्थगौरवभयान्नोच्यते इति ज्ञेयं. असयो द्वादशाप्यस्य चतुर्भिरङ्गलैर्मिताः । स्युः प्रत्येकं समचतुरनत्वात्सर्वतः समाः ॥ ३३९ ॥ अयं भाव:विष्कम्भायामयो त्र, विशेषः कोऽपि विद्यते । षण्णामपि तलानां तच्चतुरङ्गलमानता ॥ ३४० ॥
____ तथोक्तं जम्बूदीपप्रज्ञप्तिसूत्रे-'तं चउरंगुलप्पमाणमित्तमित्यादि', अनुयोगदारसूत्रे तु यदस्य
काकिणीरत्नस्यैकैका कोटिरुत्सेधाङ्गलप्रमितोक्ता । तन्मतान्तरं, तत्सूत्रं प्राग् लिखितमिति ज्ञेयं. जङ्गमादिबहुविधविषापहरणक्षमम् । तादृग्जातीयगाङ्गेयनिष्पन्नत्वाद्भवेदिदम् ॥३४१ ॥ तदानीं सर्वमानानां, तत्प्रामाण्यप्रवर्तकम् । अनेनैवाङ्कितानि स्युस्तानि प्रत्यायकानि यत् ॥ ३४२ ॥ यथाऽधुनाऽप्याप्तक्लृप्तनिर्णयाङ्क प्रतीतिकृत् । कुडवादि भवेन्मानं, व्यवहारप्रवर्तकम् ॥ ३४३॥ खटीखण्डादिवच्चैतद्भित्त्यादौ मण्डलादिकृत् । स्थिरोद्योतं करोत्येतन्मण्डलैर्गुहयोस्तयोः ॥ ३४४ ॥ इति काकिणीरत्नं. इति सप्तैकेन्द्रियरत्नानि. अथ सेनापतिरत्नं, भवेत्प्रौढपराक्रमः । हस्त्यादिचक्रिसैन्यानां, स्वातन्त्र्येण प्रवर्तकः ॥ ३४५ ॥ समग्रभरतव्याप्तयशोराशिर्महाबलः । स्वभावत: सदोदात्तस्तेजस्वी सात्त्विकः शुचिः ॥ ३४६ ॥ यवनादिलिपौ दक्षो, म्लेच्छभाषाविशारदः । ततो म्लच्छप्रभृतिषु, सामदानाद्युपायकृत् ॥ ३४७ ॥ विचारपूर्वकाभाषी, यथावसरवाक्यवित् । गम्भीरमधुरालापो, नीतिशास्त्रार्थकोविदः ॥ ३४८ ॥ जागरूको दीर्घदर्शी, सर्वशस्त्रकृतश्रमः । ज्ञातयुद्धविधिश्चक्रव्यूहायूहविशेषवित् ॥ ३४९॥ रिपुमित्रगणस्यापि, दम्भादम्भादिभाववित् । प्रत्युत्पन्नमति(रोऽमूढः कार्यशतेष्वपि ॥ ३५० ॥
१ सर्वासामवसर्पिणीनामादौ भाविनां चक्रिणां तुल्यतेति प्रमाणाङ्गलपक्षः, अन्त्यचक्रयपेक्षया च अनुयोगदारवाक्यं स्यात्, तथा च सर्वेषामेव स्वस्वमानेन तुल्यं च स्यात् ।