SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ 583 स चक्री छत्रचर्मभ्यां, कृत्वा संपुटमद्भुतम् । सैन्यमस्थापयत्तत्र, वेश्मनीवानुपद्रवम् ॥ ३१८ ॥ पार्थिवत्वेऽपि तत्साम्याच्चमति व्यपदिश्यते । अन्यथास्य श्रुतख्यातमेकाक्षत्वं विरुध्यते ॥ ३१९ ॥ दण्डोऽप्येवं पार्थिवस्तत्साम्यात्तट्यपदेशभाक् । भाव्यमेवं पार्थिवत्वं, सप्तानामपि धीधनैः ॥ ३२० ॥ इति चर्मरत्नं । 'मणिरत्नं भवेद्विश्वाद्भुतं निरुपमद्युति । वर्यवैडूर्यजातीयं, श्रेष्ठं सर्वमणिविह ॥ ३२१ ॥ सर्वेषामपि भूतानां, प्रियं न्यस्तं च मूर्द्धनि । सर्वदुःखहरं क्षेमतुष्ट्यारोग्यादिकृत्सदा ॥ ३२२ ॥ सुरासुरनृतिर्यग्जाशेषोपद्रवनाशकम् । जयप्रदं च संग्रामे, शस्त्राघातनिवारकम् ॥ ३२३ ॥ सदावस्थिततारुण्यमवर्द्धिष्णुनखालकम् । विप्रमुक्तं ,भयैः सर्वैरिदं कुर्वीत धारकम् ॥ ३२४ ॥ सान्धकारे तमिस्रादावुद्योतं कुरुतेऽर्कवत् । अचिन्त्यावाच्यमूल्यं तद्देवानामपि दुर्लभम् ॥ ३२५ ॥ इदं हि प्रागुरुच्छत्रचर्मसंपुटसंस्थिते । सवितेवाकृतोद्योतं, सैन्ये भरतचक्रिणः ॥ ३२६ ॥ गुहागये प्रविशतश्चेदमेव हि चक्रिणः । कुम्भिकुम्भस्थितं ध्वान्तवातघाताय कल्पते ॥ ३२७ ॥ चतुरङ्गलदीर्घ स्यादङ्गलद्धयविस्तृतम् । मध्ये वृत्तोन्नतं तच्च, षड्भिः कोणैरलङ्कतं ॥ ३२८ ॥ इति मणिरत्नं । भवेच्च काकिणीरत्नं, षट्तलं द्वादशास्रकम् । तथाऽष्टकर्णिकं तौल्ये, सुवणैरष्टभिर्मितम् ॥ ३२९ ॥ स्वर्णकारोपकरणं, ख्याताऽधिकरणिर्जने । तामाकृत्याऽनुकुरुते, चतुरस्रत्वसाम्यतः ॥ ३३० ॥ चतुर्दिशमधोऽथोषं, तत्रैवं स्युस्तलानि षट् । न्यस्तं भूमाववैषम्यात्तिष्ठेद्येनेह तत्तलम् ॥ ३३१ ॥ प्रत्येकमध ऊर्ध्वं च, चतसृष्वपि दिक्षु च । तच्चतुःकोटिसद्भावाद्, द्वादशास्त्रं प्रकीर्तितम् ॥ ३३२ ॥ मिलत्यस्त्रित्रयं यत्र, स कोण: कर्णिकोच्यते । उपर्यधश्चतसृणां, तासां युक्त्याऽष्टकर्णिकम् ॥ ३३३ ॥ सुवर्णः स्यात्कर्ममाषैस्तौल्ये षोडशभिः समः । कर्ममाषप्रमाणं च, प्रागत्रास्ति निरूपितम् ॥ ३३४ ॥ सुवर्णैरष्टभिस्तुल्यं, काकिणीरत्नमीरितम् । एतदार्षभिकालीयं, मानं ज्ञेयं विचक्षणैः ॥ ३३५ ॥ अन्यथा कालभेदेन, मानवैषम्यसंभवे । न भवेत्काकिणीरत्नं, सर्वेषां चक्रिणां समम् ॥ ३३६ ॥ इष्यते तुल्यमेवेदं, सर्वेषामपि चक्रिणाम् । पुरातनेषु शास्त्रेषु, तथैव प्रतिपादनात् ॥ ३३७ ॥ किंच-केचिदात्माङ्गलैराहुः, काकिणीमणिरत्नयोः । मानमौत्सेधिकैः केचित्तत्प्रमाणाङ्गलैः परे ॥ ३३८ ॥ तथो चोक्तं जम्बूद्धीपप्रज्ञप्तिवृत्तौ-“अत्र चाधिकारे एतानि च मधुरतृणफलादीनि भरतचक्रवर्तिकालसंभवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसंभवे काकिणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदित्येतस्मादनुयोगदारवृत्तिवचनादेतद्देशीयादेव स्थानाङ्गवृत्तिवचनात्
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy