________________
578
सौधर्मेशानगा देव्यो, यथोर्ध्वस्वर्गवासिनाम् । कामुकानामभिप्रायं, जानन्ति दिव्यशक्तितः ॥ २०५ ॥ तेऽथ प्राभृतमादाय, स्त्रीरत्नादिकमद्भुतम् । नमन्ति चक्रिणं स्वामिन्!, वयं स्मः सेवका इति ॥ २०६ ॥ युयुत्सवः कदाचित्ते, चेद्भवन्ति धृतायुधाः । साधितानेकविद्यास्त्रा, भटंमन्या महाभुजाः ॥ २०७ ॥ तदा रणरसं तेषामापूर्य विविधाहवैः । वशीकरोति तांश्चक्री, निषादी कुञ्जरानिव ॥ २०८ ॥ अत एव जम्बूद्वीपप्रज्ञप्तिचूर्णौ भरतचक्रयधिकारे 'अण्णे भणति' त्युक्त्वा द्वादशवर्षावधि नमिविनमिभ्यां सह युद्धमुक्तमिति ज्ञेयं.
स्वीकृत्य प्राभृतं तेषां, सोऽथ सत्कृत्य तानपि । विसृज्य मुदितस्तेषां कुरुतेऽष्टाहिकोत्सवम् ॥। २०९ ॥ वैताढ्यात्तत ऐशान्यां, गङ्गादेवीगृहं प्रति । प्रतिष्ठते चक्ररत्नं, गङ्गाखण्डजयोत्सुकम् ॥ २१० ॥ अत्र जम्बूद्धीपप्रज्ञप्तिवृत्तिः– यच्चक्री ऋषभकूटतः प्रत्यावृत्तो न गङ्गां साधयामास तद्वैताढ्यवर्त्तिविद्याधराणामनात्मसात्करणेन परिपूर्णोत्तरखण्डस्यासाधितत्वात्कथं गङ्गानिष्कुटसाधनायोपक्रम इत्यवसेयं ।
निवेश्य कटकं गङ्गादेव्याश्च भवनान्तिके । सिन्धुवत्साधयत्येष, तां नतां निहितोपदाम् ॥ २११ ॥ यच्चात्र भरतचक्रिणो गङ्गादेवीभोगेन वर्षसहस्रातिवाहनं श्रूयते, तज्जम्बूद्वीपप्रज्ञप्ति सूत्रे चूर्णौ चानुक्तमपि श्रीऋषभचरित्रे प्रोक्तमस्तीति ज्ञेयं ।
तस्या अप्युत्सवे पूर्णे, चक्ररत्नं ततः पुनः । गङ्गापश्चिमकूलेन, दक्षिणस्यां प्रतिष्ठते ॥ २१२ ॥ क्रमात्खण्डप्रपाताया, गुहाया द्वारसन्निधौ । उपेत्य चक्रभृत्तत्र, स्कन्धावारं निवेशयेत् ॥ २१३ ॥ कृताष्टमतपाश्चित्ते, नक्तमालं गुहाधिपम् । चिन्तयेत्सोऽप्युपैत्येनं, सोपदः कृतमालवत् ॥ २१४॥ ततस्तस्योत्सवे पूर्णे, जिगीषुश्चक्रवर्त्यथ । समादिशति सेनान्ये, गङ्गानिष्कुटसाधनम् ॥ २१५ ॥ गङ्गा प्रत्यग् वहत्यस्य, प्राच्यां लवणतोयधिः । वैताढ्यहिमवन्तौ च दक्षिणोत्तरयोर्दिशोः ॥ २१६ ॥ चतुर्भिः कृतसीमापि, गङ्गया मध्यखण्डतः । पृथक्कृतं विभज्येति, गङ्गानिष्कुटमुच्यते ॥ २१७ ॥ सोऽपि गङ्गामथोत्तीर्य, चर्मरत्नेन सिन्धुवत् । म्लेच्छान्निर्जित्य तत्राज्ञां प्रवर्त्तयति चक्रिणः ॥ २१८ ॥ चरितार्थो गृहीत्वा तत्प्राभृतान्यर्यमद्युतिः । नत्वा चक्रिक्रमौ वक्ति, तज्जयं निहितोपदः ॥ २१९ ॥ विसृष्टश्चक्रिणाप्येष, भूरिसत्कारपूर्वकम् । स्वावासे विहितस्नानभोजनो रमते सुखम् ॥ २२० ॥ चक्री वक्त्यन्यदाऽऽकार्य, द्वारं भो पृतनापते ! । दर्याः खण्डप्रपाताया, औत्तराहं प्रकाशय ॥ २२१ ॥ तमिस्रायाम्यदिग्द्वारोद्घाटने यो विधि कृतः । तेनैव विधिना द्वारमुद्घाटयति सोऽप्यदः ॥ २२२ ॥ तेनैव विधिना चक्री, विशत्यस्यां चमूवृतः । आत्मा कर्मावृतो मातुः, कुक्षाविव शिवाप्तये ॥ २२३ ॥ १ सर्वचक्रिणां सर्वभरतानां च तथानियमाभाव:, सूत्रेऽनुक्तमपि आवश्यकवृत्त्यादावुक्तमिति भरतचरित्रे तथोक्तमिति ।