________________
577
निवेश्य कटकं तत्र, पूर्ववद्धिहिताष्टमः । प्रातस्तुर्येऽति सन्नह्यारूढः सांग्रामिकं रथम् ॥ १८७ ॥ अनुयातो नृपैः सर्वैर्वज्रभृत्रिदशैरिव । प्रेरयंस्तुरगान् रथ्यान, रंहसा वायुजित्वरान् ॥ १८८ ॥ हिमवद्भूभृतो भित्तिं, रथाग्रेणातिरंहसा । त्रिस्ताडयित्वा तुरगान्निगृह्णाति स कोविदः ॥ १८९ ॥ प्राग्वन्नामाङ्कितं बाणं, धनुष्यारोप्य निर्भरम् । मुञ्चत्याकर्णमाकृष्योन्नतदृष्टिविहायसि ॥ १९० ॥ उत्पत्य योजनानि दासप्ततिं स शरः स्फुरन् । हिमवगिरिदेवस्य, पुरः पतति दूतवत् ॥ १९१ ॥ तं दृष्ट्वा सोऽपि रुष्टः प्राक्, पश्यन्नामाथ चक्रिणः । प्रीत्या प्राभृतमादाय, राजेन्द्रमुपतिष्ठते ॥ १९२ ॥ वक्त्येवं सकलं क्षेत्रं, त्वयेदं तरसा जितम् । त्वत्सेवकोऽस्म्यहं देवोदीच्यपर्यन्तरक्षकः ॥ १९३ ॥ सौषधीस्तथा कल्पद्रुमपुष्पसजोऽद्भुताः । हिमवगिरिकुञ्जोत्थं, चन्दनं तद्हदाम्बु च ॥ १९४ ॥ उपादायोपदां तस्येत्यादिकां भूपभूपति: । तं सत्कृत्य विसृज्याथ, व्यावर्त्तयति वाजिनः ॥ १९५ ॥ अशेषदिक्तटव्याप्तजयतूर्यव्रजध्वनिः । उपैत्यृषभकूटाद्रि, चक्री शक्र इवर्द्धिमान् ॥ १९६ ॥ त्रिः स्पृष्ट्वा तं स्थाओण, पौरस्त्ये कटकेऽस्य च । रत्नेन काकिणीनाम्ना, निजं नाम लिखत्ययम् ॥ १९७ ॥
तच्चैवं- “ओसप्पिणी इमीसे तइयाएँ समाऍ पच्छिमे भाए। अहमंसि चवट्टी भरहो इअ नामधिज्जेणं ॥ अहमंसि पढमराया अहं य भरहाहिवो णरवरिंदो । णत्थि महं पडिसत्तू जिअं
मए भारहं वासं" ॥ रीत्याऽनया यथाक्षेत्रं, यथाकालं यथाऽऽह्वयम् । नामलेखनमाभाव्यं, सर्वेषामपि चक्रिणाम् ॥ १९८ ॥ ततो निवृत्य कटकमुपेत्य कृतपारणः । हिमवगिरिदेवस्य, विधत्तेऽष्टाहिकोत्सवम् ॥ १९९ ॥ महोत्सवे समाप्तेऽस्मिन्, व्याधुट्येतः प्रवर्त्तते । वैताढ्याभिमुखं चक्रं, याम्यदिग्गामिनाऽध्वना ॥ २०० ॥ वैताढ्यस्योदग्नितम्बे, निवेशितचमूस्तत: । जेतुं विद्याधराधीशान्, पूर्ववत्कुरुतेऽष्टमम् ॥ २०१॥ एतेऽनुकम्प्यमनुजमात्रत्वात्तत्र नोचितम् । शरमोक्षणमित्येष, नैनमाद्रियते विधिम् ॥ २०२ ॥
___इति श्रीजम्बूद्धीपप्रज्ञप्तिसूत्रे, यत्तु श्रीहैमऋषभचरित्रे भरतस्यात्र शरमोक्षणमुक्तं
तन्मतान्तरमवसेयं । अथ विद्याधरास्तेऽपि, जानन्ति चक्रवर्त्यसौ । स्मरत्यस्मान् वयं चास्य, सेवका: शाश्वतस्थितेः ॥ २०३ ॥ यदमी अवधिज्ञानद्यभावेऽपि विदन्ति वै । चक्रिणश्चिन्तितं तच्चाचिंत्यदिव्यानुभावतः ॥ २०४ ॥
१ अत्रमेदवधेयं यदुत त्रिषष्ट्यादिचरित्रे चक्रिणोऽधिकारः सर्वचक्रिसाधारणः षट्खण्डजये, न तेन तथाऽन्यचक्रिणां साधनमदर्शीति, जम्बूदीपप्रज्ञप्तिभरतक्षेत्रान्वर्थतायां भरतचक्री वक्तुमुपक्रान्तः, स. चावसर्पिण्यामादौ भवेत, तदा च युग्मित्वासत्तेः स्याद् भद्रकता, विनाऽपीषुक्षेपं स्यादेव साधनं, परं न तथा सर्वेषामिति शरक्षेपवर्णनं, तथा च स्वयमनागमे शरमोक्षणं कर्तव्यमिति तत्त्वं, दिव्यानुभावो हि युग्मित्वकालप्रत्यासत्तौ न्याय्य एव, भद्रकत्वादेव च कदाचिद् युद्धमपि ।